ऐतरेयोपनिषद्भाष्यम्
तृतीयः अध्यायःपञ्चमः खण्डः
आनन्दगिरिटीका (ऐतरेय)
 
एष ब्रह्मैष इन्द्र एष प्रजापतिरेते सर्वे देवा इमानि च पञ्च महाभूतानि पृथिवी वायुराकाश आपो ज्योतींषीत्येतानीमानि च क्षुद्रमिश्राणीव । बीजानीतराणि चेतराणि चाण्डजानि च जारुजानि च स्वेदजानि चोद्भिज्जानि चाश्वा गावः पुरुषा हस्तिनो यत्किञ्चेदं प्राणि जङ्गमं च पतत्रि च यच्च स्थावरम् । सर्वं तत्प्रज्ञानेत्रं प्रज्ञाने प्रतिष्ठितं प्रज्ञानेत्रो लोकः प्रज्ञा प्रतिष्ठा प्रज्ञानं ब्रह्म ॥ ३ ॥
स एषः प्रज्ञानरूप आत्मा ब्रह्म अपरं सर्वशरीरस्थः प्राणः प्रज्ञात्मा अन्तःकरणोपाधिष्वनुप्रविष्टो जलभेदगतसूर्यप्रतिबिम्बवत् हिरण्यगर्भः प्राणः प्रज्ञात्मा । एष एव इन्द्रः गुणात् , देवराजो वा । एष प्रजापतिः यः प्रथमजः शरीरी ; यतो मुखादिनिर्भेदद्वारेणाग्न्यादयो लोकपाला जाताः, स प्रजापतिरेष एव । येऽपि एते अग्न्यादयः सर्वे देवा एष एव । इमानि च सर्वशरीरोपादानभूतानि पञ्च पृथिव्यादीनि महाभूतानि अन्नान्नादत्वलक्षणानि एतानि । किञ्च, इमानि च क्षुद्रमिश्राणि क्षुद्रैरल्पकैर्मिश्राणि, इवशब्दः अनर्थकः, सर्पादीनि । बीजानि कारणानि इतराणि चेतराणि च द्वैराश्येन निर्दिश्यमानानि । कानि तानि ? उच्यन्ते — अण्डजानि पक्ष्यादीनि, जारुजानि जरायुजानि मनुष्यादीनि, स्वेदजानि यूकादीनि, उद्भिज्जानि च वृक्षादीनि । अश्वाः गावः पुरुषाः हस्तिनः अन्यच्च यत्किञ्चेदं प्राणि । किं तत् ? जङ्गमं यच्चलति पद्भ्यां गच्छति ; यच्च पतत्रि आकाशेन पतनशीलम् ; यच्च स्थावरम् अचलम् ; सर्वं तत् अशेषतः प्रज्ञानेत्रम् , प्रज्ञप्तिः प्रज्ञा, तच्च ब्रह्मैव, नीयतेऽनेनेति नेत्रम् , प्रज्ञा नेत्रं यस्य तदिदं प्रज्ञानेत्रम् ; प्रज्ञाने ब्रह्मण्युत्पत्तिस्थितिलयकालेषु प्रतिष्ठितम् , प्रज्ञाश्रयमित्यर्थः । प्रज्ञानेत्रो लोकः पूर्ववत् ; प्रज्ञाचक्षुर्वा सर्व एव लोकः । प्रज्ञा प्रतिष्ठा सर्वस्य जगतः । तस्मात् प्रज्ञानं ब्रह्म । तदेतत्प्रत्यस्तमितसर्वोपाधिविशेषं सत् निरञ्जनं निर्मलं निष्क्रियं शान्तम् एकम् अद्वयं ‘नेति नेति’ (बृ. उ. ३ । ९ । २६) इति सर्वविशेषापोहसंवेद्यं सर्वशब्दप्रत्ययागोचरं तदत्यन्तविशुद्धप्रज्ञोपाधिसम्बन्धेन सर्वज्ञमीश्वरं सर्वसाधारणाव्याकृतजगद्बीजप्रवर्तकं नियन्तृत्वादन्तर्यामिसंज्ञं भवति । तदेव व्याकृतजगद्बीजभूतबुद्ध्यात्माभिमानलक्षणं हिरण्यगर्भसंज्ञं भवति । तदेव अन्तरण्डोद्भूतप्रथमशरीरोपाधिमत् विराट्प्रजापतिसंज्ञं भवति । तदुद्भूताग्न्याद्युपाधिमत् देवतासंज्ञं भवति । तथा विशेषशरीरोपाधिष्वपि ब्रह्मादिस्तम्बपर्यन्तेषु तत्तन्नामरूपलाभो ब्रह्मणः । तदेवैकं सर्वोपाधिभेदभिन्नं सर्वैः प्राणिभिस्तार्किकैश्च सर्वप्रकारेण ज्ञायते विकल्प्यते च अनेकधा । ‘एतमेके वदन्त्यग्निं मनुमन्ये प्रजापतिम् । इन्द्रमेकेऽपरे प्राणमपरे ब्रह्म शाश्वतम्’ (मनु. १२ । १२३) इत्याद्या स्मृतिः ॥

एवं शोधितस्याऽऽत्मनः प्रतिशरीरं नानात्वं वारयितुमेष ब्रह्मेत्यादिवाक्यं तद्व्याचष्टे –

स एष इत्यादिना ।

एष इत्यस्यार्थमाह –

प्रज्ञानरूप आत्मेति ।

प्रज्ञानं ब्रह्मेति मुख्यब्रह्मताया वक्ष्यमाणत्वादिह मूर्धद्वाराऽनुप्रविष्टं समष्टिलिङ्गशरीराभिमानी हिरण्यगर्भः प्राणः प्रज्ञात्मादिशब्दैस्तत्र तत्रोक्तमपरं ब्रह्मोच्यत इत्याह –

अपरमित्यादिना ।

सर्वशारीरेत्यनेन समष्टिस्थूलशरीरमुच्यते । अन्तःकरणोपाधिष्वित्यनेनापि समष्टिलिङ्गशरीरमुक्तम् । आद्याभ्यां प्राणप्रज्ञात्मशब्दाभ्यां क्रियाशक्तिज्ञानशक्तिमत्त्वमुक्तम् । द्वितीयाभ्यां तु तत्र तत्र तथा निर्दिष्ट इत्युच्यत इत्यपौनरुक्त्यम् ।

ननूक्तप्रज्ञानात्मैवापरं ब्रह्मेत्यत्र किं प्रमाणमित्याशङ्क्य प्रवेशवाक्यं प्रमाणमिति वक्तुमेष इन्द्र इति वाक्यं व्याचष्टे –

एष इति ।

गुणादिति ।

इदमदर्शमिति श्रुत्युक्तगुणयोगादित्यर्थः । प्रवेशवाक्ये प्रविष्टस्येन्द्रत्वाभिधानाद्धिरण्यगर्भस्यापीन्द्रत्वोक्तौ प्रविष्टप्रत्यभिज्ञानात्प्रवेष्टुरेव प्रविष्टसर्वरूपत्वादभेदः सिध्यतीति भावः न तु पारमैश्वर्यगुणयोगात्प्रज्ञानात्मेन्द्रः परमेश्वर इत्यर्थो ग्राह्यः । प्रज्ञानात्मनः परमेश्वराभेदस्य प्रज्ञानं ब्रह्मेत्यनेन वक्ष्यमाणत्वात्परमेश्वरत्वगुणवत्त्वप्रतिपादनस्य च प्रकरणविरोधात् । न च हिरण्यगर्भाद्यात्मवन्मायाविशिष्टपरमेश्वरात्मत्वमनेनोच्यत इति वाच्यम् । तथा सति भाष्योक्तगुणादितिहेत्वनन्वयादेष ब्रह्मैष इन्द्र एष प्रजापतिरिति पूर्वोत्तरपर्यायेष्विव गुणयोगाभावेऽप्युपपत्तेश्चेति ।

अस्य व्याख्यानस्य क्लिष्टत्वं मनसि निधायार्थान्तरमाह –

देवराजो वेति ।

प्रजापतेर्हिरण्यगर्भाद्भेदमाह –

यः प्रथमज इति ।

स लिङ्गशरीराभिमान्ययं तु स्थूलशरीराभिमानीति भेद इत्यर्थः ।

तत्राद्भ्य एव पुरुषं समुद्धृत्यामूर्छयन्मुखं निरभिद्यतेत्यादि वाक्यं प्रमाणमाह –

यत इति ।

देवग्रहणं मनुष्यादीनामुपलक्षणम् । तथा च सर्वे जीवात्मान एष एवेत्यर्थः ।

एवमेष ब्रह्मेत्यादिवाक्येष्वैक्ये सामानाधिकरण्यं गृहीत्वा सर्वभूतस्थस्याऽऽत्मन एकत्वमुक्त्वा सजातीयभेदं निराकृत्य तदुपाधीनां भूतभौतिकानामपि बाधायां सामानाधिकरण्यमाश्रित्याऽऽत्मव्यतिरेकेणाभावं तस्य विजातीयभेदनिराकरणार्थं वक्तुमिमानि चेत्यादिवाक्यं तद्व्याचष्टे –

इमानि चेति ।

एतान्यन्नान्नादत्वेन पूर्वमुक्तानीति वक्तुं विशिनष्टि –

अन्नेति ।

सर्पादीनां न केवलं क्षुद्रमिश्रत्वं किन्तु सर्पान्तरादीन्प्रति बीजत्वं चेत्याह –

कारणानि चेति ।

द्वैराश्येनेति ।

स्थावरजङ्गमभेदेन निर्दिश्यमानानीत्यर्थः ।

स्वेदजा(न्ता)नि जङ्गमान्युद्भिज्जानि स्थावराणीत्याह –

उच्यन्त इति ।

जङ्गममित्यस्य व्याख्या यच्चलतीति ।

स्थावराणामपि वाय्वादिना चलनमस्तीत्याशङ्क्याऽऽह –

पद्भ्यामिति ।

स्थावरमचलमित्यनन्तरं सर्वं तदेष एवेति शेषः ।

तत्सर्वमेष एवेत्यत्र हेतुं वक्तुं सर्वं तत्प्रज्ञानेत्रमित्यादि प्रतिष्ठेत्यन्तं वाक्यं तद्व्याचष्टे –

सर्वमित्यादिना ।

नीयतेऽनेनेति ।

अनेन प्रज्ञानेन सत्तां नीयते सत्तां प्राप्यते । सत्तावत्क्रियत इत्यर्थः । यद्वा स्वस्वव्यापारेषु प्रवर्त्यत इति वा । नन्वेम्भूतं ब्रह्मैवेत्युपनिषत्सु प्रसिद्धं न तु प्रज्ञानमित्याशङ्क्य वस्तुतः प्रज्ञानस्यैव तत्र तत्र ब्रह्मशब्देनाभिधानान्न दोष इत्युक्तं प्रज्ञानं ब्रह्मैवेति । यद्वा कोऽयमात्मेत्यारभ्यैते सर्वे देवा इत्यन्तं त्वम्पदार्थशोधनार्थमिमानि चेत्यादि प्रतिष्ठेत्यन्तं तत्पदार्थशोधनार्थम् । तत्र पक्षे प्रकृष्टं ज्ञानं प्रज्ञानमिति तत्पदार्थो ब्रह्मैवोच्यते । पञ्चभूतादि स्थावरान्तं सर्वं तत्प्रज्ञानेत्रं ब्रह्मनेत्रमित्यर्थः । प्रज्ञासत्तयैव सर्वस्यापि सत्तावत्त्वं साधयितुं प्रज्ञाने प्रतिष्ठितमित्युक्तम् ।

तद्व्याचष्टे –

प्रज्ञाने ब्रह्मणीति ।

न केवलं प्रज्ञासत्तयैव सत्त्वं सर्वस्य किन्तु प्रवृत्तिरपि तदधीनैवेत्याह –

प्रज्ञानेत्र इति ।

पूर्ववदिति ।

नीयते प्रवर्त्यतेऽनेनेति व्युत्पत्तेर्नेत्रं प्रवर्तकमित्यर्थः ।

लोक इति ।

सर्वं जगदित्यर्थः ।

यद्वा पूर्वं नेत्रशब्देन सर्वस्य सत्ताव्यापारहेतुत्वमुक्तमिदानीं सर्वस्य स्फुरणहेतुरप्ययमेवेत्युच्यत इत्याह –

प्रज्ञा चक्षुर्वेति ।

चक्षुरिति स्फुरणमित्यर्थः ।

जगत इव प्रज्ञानस्यापि स्फुरणप्रतिष्ठयोरन्याधीनत्वमाशङ्क्य तस्य स्वप्रकाशत्वात्स्वमहिमप्रतिष्ठितत्वेनाऽऽश्रयान्तराभावाच्च नैवमित्याह –

प्रज्ञाप्रतिष्ठेति ।

यद्वा सर्वस्य जगतः सत्तास्फूर्त्योः प्रज्ञानाधीनत्वादुत्पत्त्यादिष्वप्यवस्थासु प्रज्ञाने प्रतिष्ठितत्वेन तदुपादानत्वाच्च वाचाऽऽरम्भणन्यायेन प्रज्ञानव्यतिरेकेणाभावात्प्रज्ञानमेव सर्पादे रज्ज्वादिरिव पर्यवसानभूमिरित्याह –

प्रज्ञाप्रतिष्ठेति ।

प्रतिष्ठां ध्रुवं पर्यवसानभूमिः परिशिष्टं वस्त्वित्यर्थः ।

एवं च प्रज्ञानस्य प्रत्यगात्मनो निर्विशेषत्वादिकं सिद्धमित्याह –

तस्मादिति ।

प्रज्ञानस्यैव परिशिष्टत्वेन परमार्थसत्यत्वादित्यर्थः ।

ब्रह्मशब्दार्थमाह –

प्रत्यस्तमितेति ।

अस्मिन्पक्षे ब्रह्मशब्देन प्रत्यगात्मनो निर्विशेषत्वादिकमेव सामानाधिकरण्येन समर्थ्यते । ब्रह्मशब्दस्यापि निर्विशेषत्वादिकमेवार्थः । ब्रह्मशब्दस्य हि व्युत्पाद्यमानस्य नित्यशुद्धत्वादयोऽर्थाः प्रतीयन्ते । बृंहतेर्धातोरर्थानुगमादिति शारीरकभाष्य उक्तत्वान्न तु प्रत्यग्ब्रह्मणोरैक्यमनेन वाक्येनोच्यते । आत्मा वा इदमेक एवाग्र आसीदित्यात्माद्वितीयत्वेनैवोपक्रमाद्ब्रह्मपदार्थानुपक्रमाच्च । एवं चाऽऽत्मैव स्वाविद्यया संसरति स्वविद्यया मुच्यत इत्ययं पक्षोऽत्र स्फुटीकृत इति द्रष्टव्यम् । यदा त्विमानि च पञ्च महाभूतानीत्यारभ्य तत्पदार्थशोधनार्थत्वेन व्याख्यायते तदा तत्पदार्थशोधनानन्तरं वाक्यार्थकथनार्थं प्रज्ञानं ब्रह्मेति वाक्यमिति व्याख्येयम् । अत्र च पक्षेऽत्रत्यप्रज्ञानशब्देन प्रज्ञानस्य नामधेयानीत्यत्रत्येन च प्रत्यगात्मोच्यते । अत्र ब्रह्मशब्देन च जगत्कारणत्वोपलक्षितं चैतन्यमुक्तमिति द्रष्टव्यम् । तस्मादिति चोभयोर्निर्विशेषचिद्रूपत्वाविशेषादित्यर्थः ।

ननु प्रज्ञानस्य ब्रह्मत्वोपदेशे किं सिध्यतीत्याशङ्क्य तस्य निर्विशेषत्वादिकं सिध्यतीति फलितार्थकथनपरत्वेन व्याख्येयं प्रत्यस्तमितेति । अन्यत्सामान्यम् । –

उपाधिविशेषमिति ।

उपाधिकृतकर्तृत्वभोक्तृत्वदुःखित्वादिविशेषमित्यर्थः । तस्य पुरुषार्थत्वमाह शान्तमिति । परितृप्तं परमानन्दरूपमित्यर्थः ।

निर्विशेषत्वे भानमाह –

नेतीति ।

सर्वेति ।

यतो वाचो निवर्तन्ते । आनन्दं ब्रह्मणो विद्वानिति श्रुतिर्निर्विशेषानन्दत्वे मानमित्यर्थः ।

नन्वेवम्भूतस्य प्रज्ञानस्य कथं सर्वज्ञादिस्तम्बान्तनानाविधभेद इत्याशङ्क्य नानाविधोपाधिसम्बन्धादित्याह –

तदत्यन्तेत्यादिना ।

विशुद्धोपाधिसम्बन्धाविशेषेऽप्यन्तर्यामिहिरण्यगर्भप्रजापतीनां सर्वज्ञाद्भेदमाह –

सर्वसाधारणेति ।

व्याकृते सर्वजगत्कारणसमष्टिबुद्धावात्मत्वाभिमान एव लक्षणमुपाधिर्यस्य तदित्यर्थः ।

अन्तरण्डेति ।

अण्डोपाधिकं विराट् तदन्तर्भूतप्रथमशरीरोपाधिकः प्रजापतिरित्यर्थः ।

तदुद्भूतेति ।

तस्मादण्डादुद्भूता इमेऽग्न्यादीनामुपाधयः समष्टिवागादयस्तदुपाधिमत्प्रज्ञानमग्न्यादिदेवतासंज्ञं भवतीत्यर्थः । आदिशब्देन व्यष्टिवागाद्यभिमानिनो गृह्यन्तेऽसुरादयश्च ।

व्यष्टिमनुष्यादिशरीरोपाधिषु मनुष्यादिसंज्ञं भवतीत्याह –

तथेति ।

अपीत्यनन्तरं तत्तत्संज्ञं भवतीति शेषः ।

उपसंहरति –

ब्रह्मादीति ।

अत्रैवमिति शेषः । एवं ब्रह्मादिस्तम्बेति योज्यम् । ननु साङ्ख्यादिभिर्जीवानामेव नानात्वमुच्यते ।

अन्यैश्च जीवेश्वरनानात्वं जगत्कारणं चान्यथाऽन्यथाऽप्याहुस्तत्कथमेकस्यैव ब्रह्मणो नानारूपत्वमत आह –

तदेवैकमिति ।

अस्मिन्नर्थे प्रमाणमाह –

एतमेक इति ।

एवं तावत्कोऽयमात्मेत्यारभ्य प्रज्ञानं ब्रह्मेत्यन्तेन विचारपुरःसरमात्मतत्त्वं निर्धारितम् । आत्मा करणसङ्घातात्मकप्राणव्यतिरिक्तः संज्ञानादिसर्वान्तःकरणवृत्त्यतिरिक्तस्तदनुगतः स्वप्रकाशः सर्वशरीरेष्वेकः सर्वप्रपञ्चाधिष्ठानभूतोऽद्वितीयः प्रज्ञानं ब्रह्म नित्यशुद्धबुद्धमुक्तस्वभाव इति । इदानीमेवम्भूतब्रह्मात्मविदः फलं वक्तुं स एतेनेत्यादि श्रुतिवाक्यम् ॥३॥