ऐतरेयोपनिषद्भाष्यम्
तृतीयः अध्यायःपञ्चमः खण्डः
आनन्दगिरिटीका (ऐतरेय)
 
स एतेन प्रज्ञेनात्मनास्माल्लोकादुत्क्रम्यामुष्मिन्स्वर्गे लोके सर्वान्कामानाप्त्वामृतः समभवत्समभवत् ॥ ४ ॥ इति पञ्चमः खण्डः ॥
स वामदेवोऽन्यो वा एवं यथोक्तं ब्रह्म वेद प्रज्ञेनात्मना, येनैव प्रज्ञेन आत्मना पूर्वे विद्वांसोऽमृता अभूवन् तथा अयमपि विद्वान् एतेनैव प्रज्ञेन आत्मना अस्मात् लोकात् उत्क्रम्येत्यादि व्याख्यातम् । अस्माल्लोकादुत्क्रम्य अमुष्मिन् स्वर्गे लोके सर्वान्कामान् आप्त्वा अमृतः समभवत्समभवदित्योमिति ॥

तत्रैतच्छब्देनैकवचनान्तेन प्रकृतानामपि कोऽयमात्मेत्येवं विचारयतां बहूनां परामर्शायोग्यत्वादिदानीन्तनस्य विदुषश्च स इति भूतवाचिना परामर्शायोग्यत्वात्पूर्वाध्यायोक्तो वामदेवः परामृश्यत इत्याह –

स वामदेव इति ।

ब्रह्मविदः फलमित्यस्य वाक्यस्य तात्पर्याद्वामदेवादिपुरुषविशेषे तात्पर्याभावाद्यः कश्चन ग्राह्य इत्याह –

अन्यो वेति ।

एवमिति ।

कोऽयमात्मेत्युक्तप्रकारेणैतं प्रज्ञानरूपं यथोक्तं ब्रह्म प्रज्ञानेनाऽऽत्मना वेदेत्यर्थः ।

एतेनैवेत्येतच्छब्दोक्तं प्रकृतत्वं व्यक्तीकरोति –

येनैवेति ।

येनैव प्रज्ञेनाऽऽत्मना ब्रह्म विद्वांसः पूर्वेऽमृता अभूवंस्तेनैतेनैव प्रज्ञेनाऽऽत्मना यथोक्तं ब्रह्म वेद वामदेवोऽन्यो वा सोऽमृतोऽभवत् । तथाऽयमपीदानीन्तनोऽपि विद्वानेतेनैव प्रज्ञेनाऽऽत्मनाऽस्माल्लोकादुत्क्रम्यामृतः समभवदित्यन्वयः । अत्रोत्क्रमणं पक्षिणो नीडादिवोर्ध्वगमनं न सम्भवति किन्तु देहात्मभावत्यागेन प्रज्ञानात्मभाव एवेत्यभिप्रैत्य प्रज्ञानात्मनोत्क्रम्येत्युक्तम् । प्रज्ञानात्मना विद्वानिति वाऽऽन्वयः । उक्तमात्मतत्त्वमङ्गीकारवाचिनोङ्कारेण न स्वानुभवप्रकटनेन दृढीकुर्वन् “ओङ्कारश्चाथशब्दश्च द्वावेतौ ब्रह्मणः पुरा । कण्ठं भित्त्वा विनिर्यातौ तस्मान्माङ्गलिकावुभौ ॥” इति स्मृतेरोङ्कारेण ब्रह्मात्मानुसन्धानलक्षणं मङ्गलं कर्तुमोमित्युक्तमिति ॥४॥

इति श्रीमच्छुद्धानन्दपूज्यपादशिष्यानन्दज्ञानकृतावैतरेयोपनिषद्भाष्यटीकायां तृतीयोऽध्यायः