अनिर्वाच्याविद्याद्वितयसचिवस्य प्रभवतो विवर्ता यस्यैते वियदनिलतेजोऽबवनयः ।
यतश्चाभूद्विश्वं चरमचरमुच्चावचमिदं नमामस्तद्ब्रह्मापरिमितसुखज्ञानममृतम् ॥ १ ॥
निःश्वसितमस्य वेदा वीक्षितमेतस्य पञ्च भूतानि ।
स्मितमेतस्य चराचरमस्य च सुप्तं महाप्रलयः ॥ २ ॥
षड्भिरङ्गैरुपेताय विविधैरव्ययैरपि ।
शाश्वताय नमस्कुर्मो वेदाय च भवाय च ॥ ३ ॥
मार्तण्डतिलकस्वामिमहागणपतीन् वयम् ।
विश्ववन्द्यान्नमस्यामः सर्वसिद्धिविधायिनः ॥ ४ ॥
ब्रह्मसूत्रकृते तस्मै वेदव्यासाय वेधसे ।
ज्ञानशक्त्यवताराय नमो भगवतो हरेः ॥ ५ ॥
नत्वा विशुद्धविज्ञानं शङ्करं करुणानिधिम् ।
भाष्यं प्रसन्नगम्भीरं तत्प्रणीतं विभज्यते ॥ ६ ॥
आचार्यकृतिनिवेशनमप्यवधूतं वचोऽस्मदादीनाम् ।
रथ्योदकमिव गङ्गाप्रवाहपातः पवित्रयति ॥ ७ ॥
अथ यदसन्दिग्धमप्रयोजनं च न तत्प्रेक्षावत्प्रतिपित्सागोचरः, यथा समनस्केन्द्रियसंनिकृष्टः स्फीतालोकमध्यवर्ती घटः, करटदन्ता वा तथा चेदं ब्रह्मेति व्यापकविरुद्धोपलब्धिः । तथा हि ‘बृहत्त्वाद्बृंहणत्वाद्वात्मैव’ ब्रह्मेति गीयते । स चायमाकीटपतङ्गेभ्य आ च देवर्षिभ्यः प्राणभृन्मात्रस्येदङ्कारास्पदेभ्यो देहेन्द्रियमनोबुद्धिविषयेभ्यो विवेकेन ’ अहम्'' इत्यसन्दिग्धाविपर्यस्तापरोक्षानुभवसिद्ध इति न जिज्ञासास्पदम् । न हि जातु कश्चिदत्र सन्दिग्धेऽहं वा नाहं वेति । न च विपर्यस्यति नाहमेव इति । न च अहं कृशः, स्थूलः, गच्छामि इत्यादिदेहधर्मसामानाधिकरण्यदर्शनाद्देहालम्बनोऽयमहङ्कार इति साम्प्रतम् । तदालम्बनत्वे हि योऽहं बाल्ये पितरावन्वभवं स एव स्थाविरे प्रणप्तॄननुभवामीति प्रतिसन्धानं न भवेत् । न हि बालस्थविरयोः शरीरयोरस्ति मनागपि प्रत्यभिज्ञानगन्धो येनैकत्वमध्यवसीयेत । तस्माद्येषु व्यावर्तमानेषु यदनुवर्तते तत्तेभ्यो भिन्नं यथा च कुसुमेभ्यः सूत्रम् । तथा बालादिशरीरेषु व्यावर्तमानेष्वपि परं परमहङ्कारास्पदमनुवर्तमानं तेभ्यो भिद्यते । अपि च स्वप्नान्ते दिव्यशरीरभेदमास्थाय तदुचितान्भोगान्भुञ्जान एव प्रतिबुद्धो मनुष्यशरीरमात्मानं पश्यन् ‘नाहं देवो मनुष्य एव’ इति देवशरीरे बाध्यमानेऽप्यहमास्पदमबाध्यमानं शरीराद्भिन्नं प्रतिपद्यते । अपि च योगव्याघ्रः शरीरभेदेऽप्यात्मानमभिन्नमनुभवतीति नाहङ्कारालम्बनं देहः । अत एव नेन्द्रियाण्यप्यस्यालम्बनम् , इन्द्रियभेदेऽपि ‘योऽहमद्राक्षं स एवैतर्हि स्पृशामि’ इत्यहमालम्बनस्य प्रत्यभिज्ञानात् । विषयेभ्यस्त्वस्य विवेकः स्थवीयानेव । बुद्धिमनसोश्च करणयोः अहम् इति कर्तृप्रतिभासप्रख्यानालम्बनत्वायोगः । ‘कृशोऽहम्’ ’ अन्धोऽहम्’ इत्यादयश्च प्रयोगा असत्यप्यभेदे कथञ्चिन्मञ्चाः क्रोशन्ति इत्यादिवदौपचारिका इति युक्तमुत्पश्यामः । तस्मादिदङ्कारास्पदेभ्यो देहेन्द्रियमनोबुद्धिविषयेभ्यो व्यावृत्तः, स्फुटतराहमनुभवगम्य आत्मा संशयाभावादजिज्ञास्य इति सिद्धम् । अप्रयोजनत्वाच्च । तथा हि - संसारनिवृत्तिरपवर्ग इह प्रयोजनं विवक्षितम् । संसारश्च आत्मयाथात्म्याननुभवनिमित्त आत्मयाथात्म्यज्ञानेन निवर्तनीयः । स चेदयमनादिरनादिना आत्मयाथात्म्यज्ञानेन सहानुवर्तते, कुतोऽस्य निवृत्तिरविरोधात् ? कुतश्चात्मयाथात्म्याननुभवः ? न हि अहम् इत्यनुभवादन्यदात्मयाथात्म्यज्ञानमस्ति । न च अहम् इति सर्वजनीनस्फुटतरानुभवसमर्थित आत्मा देहेन्द्रियादिव्यतिरिक्तः शक्य उपनिषदां सहस्रैरप्यन्यथयितुम् , अनुभवविरोधात् । न ह्यागमाः सहस्रमपि घटं पटयितुमीशते । तस्मादनुभवविरोधादुपचरितार्था एवोपनिषद इति युक्तमुत्पश्याम इत्याशयवानाशङ्क्य परिहरति -
युष्मदस्मत्प्रत्ययगोचरयोः इति ।
अत्र च युष्मदस्मदित्यादिर्मिथ्याभवितुं युक्तमित्यन्तः शङ्काग्रन्थः । तथापीत्यादिपरिहारग्रन्थः । तथापीत्यभिसम्बन्धाच्छङ्कायां यद्यपीति पठितव्यम् । इदमस्मत्प्रत्ययगोचरयोरिति वक्तव्ये युष्मद्ग्रहणमत्यन्तभेदोपलक्षणार्थम् । यथा ह्यहङ्कारप्रतियोगी त्वङ्कारो नैवमिदङ्कारः, एते वयमिमे वयमास्महे इति बहुलं प्रयोगदर्शनादिति । चित्स्वभाव आत्मा विषयी, जडस्वभावा बुद्धीन्द्रियदेहविषया विषयाः । एते हि चिदात्मानं विसिन्वन्ति अवबध्नन्ति । स्वेन रूपेण निरूपणीयं कुर्वन्तीति यावत् । परस्परानध्यासहेतावत्यन्तवैलक्षण्ये दृष्टान्तः -
तमः प्रकाशवदिति ।
न हि जातु कश्चित्समुदाचरद्वृत्तिनी प्रकाशतमसी परस्परात्मतया प्रतिपत्तुमर्हति । तदिदमुक्तम् -
इतरेतरभावानुपपत्ताविति ।
इतरेतरभावः इतरेतरत्वम् , तादात्म्यमिति यावत् तस्यानुपपत्ताविति । स्यादेतत् । मा भूद्धर्मिणोः परस्परभावः तद्धर्माणां तु जाड्यचैतन्यनित्यत्वानित्यत्वादीनामितरेतराध्यासो भविष्यति ।
दृश्यते हि धर्मिणोर्विवेकग्रहणेऽपि तद्धर्माणामध्यासः, यथा कुसुमाद्भेदेन गृह्यमाणेऽपि स्फटिकमणावतिस्वच्छतया जपाकुसुमप्रतिबिम्बोद्ग्राहिण्यरुणः स्फटिकैत्यारुण्यविभ्रम इत्यत उक्तम् -
तद्धर्माणामपीति ।
इतरेतरत्र धर्मिणि धर्माणां भावो विनिमयस्तस्यानुपपत्तिः । अयमभिसन्धिः - रूपवद्धि द्रव्यमतिस्वच्छतया रूपवतो द्रव्यान्तरस्य तद्विवेकेन गृह्यमाणस्यापि छायां गृह्णीयात् , चिदात्मा त्वरूपो विषयी न विषयच्छायामुद्ग्राहयितुमर्हति । यथाहुः -'शब्दगन्धरसानां च कीदृशी प्रतिबिम्बता” इति । तदिह पारिशेष्याद्विषयविषयिणोरन्योन्यात्मसम्भेदेनैव तद्धर्माणामपि परस्परसम्भेदेन विनिमयात्मना भवितव्यम् , तौ चेद्धर्मिणावत्यन्तविवेकेन गृह्यमाणावसम्भिन्नौ, असम्भिन्नाः सुतरां तयोर्धर्माः, स्वाश्रयाभ्यां व्यवधानेन दूरापेतत्वात् ।
तदिदमुक्तम् -
सुतरामिति ।
तद्विपर्ययेणेति ।
विषयविपर्ययेणेत्यर्थः । मिथ्याशब्दोऽपह्नववचनः । एतदुक्तं भवति - अध्यासो भेदाग्रहेण व्याप्तः, तद्विरुद्धश्चेहास्ति भेदग्रहः, स भेदाग्रहं निवर्तयंस्तद्व्याप्तमध्यासमपि निवर्तयतीति । मिथ्येति भवितुं युक्तं यद्यपि तथापीति योजना ।। इदमत्राकूतम् - भवेदेतदेवं यद्यहमित्यनुभवे आत्मतत्वं प्रकाशेत । न त्वेतदस्ति । तथाहि समस्तोपाध्यनवच्छिन्नानन्तानन्दचैतन्यैकरसमुदासीनमेकमद्वितीयमात्मतत्त्वं श्रुतिस्मृतीतिहासपुराणेषु गीयते । न चैतान्युपक्रमपरामर्शोपसंहारैः क्रियासमभिहारेणेदृगात्मतत्त्वमभिदधति तत्पराणि सन्ति शक्यानि शक्रेणाप्युपचरितार्थानि कर्तुम् । अभ्यासे हि भूयस्त्वमर्थस्य भवति, यथाहो दर्शनीयाहो दर्शनीयेति न न्यूनत्वं, प्रागेवोपचरितत्वमिति । अहमनुभवस्तु प्रादेशिकमनेकविधशोकदुःखादिप्रपञ्चोपप्लुतमात्मानमादर्शयन् कथमात्मतत्त्वगोचरः कथं वानुपप्लवः । न च ज्येष्ठप्रमाणप्रत्यक्षविरोधादाम्नायस्यैव तदपेक्षस्याप्रामाण्यमुपचरितार्थत्वं चेति युक्तम् , तस्यापौरुषेयतया निरस्तसमस्तदोषाशङ्कस्य, बोधकतया स्वतःसिद्धप्रमाणभावस्य स्वकार्ये प्रमितावनपेक्षत्वात् । प्रमितावनपेक्षत्वेऽप्युत्पत्तौ प्रत्यक्षापेक्षत्वात्तद्विरोधादनुत्पत्तिलक्षणमप्रामाण्यमिति चेन्न । उत्पादकाप्रतिद्वन्द्वित्वात् । न ह्यागमज्ञानं सांव्यवहारिकं प्रत्यक्षस्य प्रामाण्यमुपहन्ति येन कारणाभावान्न भवेदपि तु तात्त्विकम् । न च तत्तस्योत्पादकम् । अतात्त्विकप्रमाणभावेभ्योऽपि सांव्यवहारिकप्रमाणेभ्यस्तत्त्वज्ञानोत्पत्तिदर्शनात् । तथा च वर्णे ह्रस्वत्वदीर्घत्वादयोऽन्यधर्मा अपि समारोपिताः तत्त्वप्रतिपत्तिहेतवः । न हि लौकिकाः नाग इति वा नग इति वा पदात्कुञ्चरं वा तरुं वा प्रतिपद्यमाना भवन्ति भ्रान्ताः । न चानन्यपरं वाक्यं स्वार्थमुपचरितार्थं युक्तम् । उक्तं हि ‘न विधौ परः शब्दार्थ’ इति । ज्येष्ठत्वं च अनपेक्षितस्य बाध्यत्वे हेतुः न तु बाधकत्वे, रजतज्ञानस्य ज्यायसः शुक्तिज्ञानेन कनीयसा बाधदर्शनात् । तदनपबाधने तदपबाधात्मनस्तस्योत्पत्तेरनुत्पत्तेः । दर्शितं च तात्त्विकप्रमाणभावस्यानपेक्षितत्वम् । तथा च पारमर्षं सूत्रं, “पौर्वापर्ये पूर्वदौर्बल्यं प्रकृतिवत्” (आ. ६ पा. ५ सू. ५४) इति । तथा “पूर्वात्परबलीयस्त्वं तत्र नाम प्रतीयताम् । अन्योन्यनिरपेक्षाणां यत्र जन्म धियां भवेत्” ॥ इति । अपि च येऽप्यहङ्कारास्पदमात्मानमास्थिषत तैरप्यस्य न तात्त्विकत्वमभ्युपेतव्यम् - ’ अहमिहैवास्मि सदने जानानः’ इति सर्वव्यापिनः प्रादेशिकत्वेन ग्रहात् । उच्चतरगिरिशिखरवर्तिषु महातरुषु भूमिष्ठस्य दूर्वाप्रवालनिर्भासप्रत्ययवत् । न चेदं देहस्य प्रादेशिकत्वमनुभूयते न त्वात्मन इति साम्प्रतम् । न हि तदैवं भवति - ’ अहम्’ इति; गौणत्वे वा न ’ जानानः’ इति । अपि च परशब्दः परत्र लक्ष्यमाणगुणयोगेन वर्तत इति यत्र प्रयोक्तृप्रतिपत्रोः सम्प्रतिपत्तिः स गौणः, स च भेदप्रत्ययपुरःसरः । तद्यथा नैयमिकाग्निहोत्रवचनोऽग्निहोत्रशब्दः (आ.१. पा.४. सू.४)प्रकरणान्तरावधृतभेदे कौण्डपायिनामयनगते कर्मणि “मासमग्मिहोत्रं जुहोति” (आ. ७ पा. ३ सू. १) इत्यत्र साध्यसादृश्येन गौणः, माणवके चानुभवसिद्धभेदे सिंहात्सिंहशब्दः । न त्वहङ्कारस्य मुख्योऽर्थो निर्लुठितगर्भतया देहादिभ्यो भिन्नोऽनुभूयते, येन परशब्दः शरीरादौ गौणो भवेत् । न चात्यन्तनिरूठतया गौणेऽपि न गौणत्वाभिमानः सार्षपादिषु तैलशब्दवदिति वेदितव्यम् । तत्रापि स्नेहात्तिलभवाद्भेदे सिद्ध एव सार्षपादीनां तैलशब्दवाच्यत्वाभिमानो, न त्वर्थयोस्तैलसार्षपयोरभेदाध्यवसायः । तत्सिद्धं गौणत्वमुभयदर्शिनो गौणमुख्यविवेकविज्ञानेन व्याप्तं तदिदं व्यापकं विवेकज्ञानं निवर्तमानं गौणतामपि निवर्तयतीति । न च बालस्थविरशरीरभेदेऽपि सोऽहमित्येकस्यात्मनः प्रतिसन्धानाद्देहादिभ्यो भेदेन अस्त्यात्मानुभव इति वाच्यम् । परीक्षकाणां खल्वियं कथा न लौकिकानाम् । परीक्षका अपि हि व्यवहारसमये न लोकसामान्यमतिवर्तन्ते । वक्ष्यत्यनन्तरमेव हि भगवान्भाष्यकारः - “पश्वादिभिश्चाविशेषात्” इति । बाह्या अप्याहुः - “शास्त्रचिन्तकाः खल्वेवं विवेचयन्ति न प्रतिपत्तारः” इति । तत्पारिशेष्याच्चिदात्मगोचरमहङ्कारमहमिहास्मि सदन इति प्रयुञ्जानो लौकिकः शरीराद्यभेदग्रहादात्मनः प्रादेशिकत्वमभिमन्यते, नभस इव घटमणिकमल्लिकाद्युपाध्यवच्छेदादिति युक्तमुत्पश्यामः । न चाहङ्कारप्रामाण्याय देहादिवदात्मापि प्रादेशिक इति युक्तम् । तदा खल्वयमणुपरिमाणो वा स्याद्देहपरिमाणो वा ? अणुपरिमाणत्वे स्थूलोऽहम् दीर्घ इति च न स्यात् , देहपरिमाणत्वे तु सावयवतया देहवदनित्यत्वप्रसङ्गः । किञ्च अस्मिन्पक्षे अवयवसमुदायो वा चेतयेत्प्रत्येकं वावयवाः ? प्रत्येकं चेतनत्वपक्षे बहूनां चेतनानां स्वतन्त्राणामेकवाक्यताभावादपर्यायं विरुद्धदिक्क्रियतया शरीरमुन्मथ्येत, अक्रियं वा प्रसज्येत । समुदायस्य तु चैतन्ययोगे वृक्ण एकस्मिन्नवयवे चिदात्मनोऽप्यवयवो वृक्ण इति न चेतयेत् । न च बहूनामवयवानां परस्पराविनाभावनियमो दृष्टः । य एवावयवो विशीर्णस्तदा तदभावे न चेतयेत् । विज्ञानालम्बनत्वेऽप्यहंप्रत्ययस्य भ्रान्तत्वं तदवस्थमेव । तस्य स्थिरवस्तुनिर्भासत्वादस्थिरत्वाच्च विज्ञानानाम् । एतेन स्थूलोऽहमन्धोऽहं गच्छामीत्यादयोऽप्यध्यासतया व्याख्याताः । तदेवमुक्तेन क्रमेणाहंप्रत्यये पूतिकूष्माण्डीकृते भगवती श्रुतिरप्रत्यूहं कर्तृत्वभोक्तृत्वदुःखशोकाद्यात्मत्वमहमनुभवप्रसञ्जितमात्मनो निषेद्धुमर्हतीति ।
तदेवं सर्वप्रवादिश्रुतिस्मृतीतिहासपुराणप्रथितमिथ्याभावस्याहंप्रत्ययस्य स्वरूपनिमित्तफलैरुपव्याख्यानम् -
अन्योन्यस्मिन्नित्यादि ।
अत्र चान्योन्यस्मिन्धर्मिण्यात्मशरीरादौ ‘अन्योन्यात्मकताम्’ अध्यस्याहमिदं शरीरादीति । इदमिति च वस्तुतः, न प्रतीतितः । लोकव्यवहारो लोकानां व्यवहारः, स चायमहमिति व्यपदेशः । इतिशब्दसूचितश्च शरीराद्यनुकूलं प्रतिकूलं च प्रमेयजातं प्रमाय प्रमाणेन तदुपादानपरिवर्जनादिः । “अन्योन्यधर्मांश्चाध्यस्य” अन्योन्यस्मिन्धर्मिणि देहादिधर्माञ्जन्ममरणजराव्याध्यादीनात्मनि धर्मिणि अध्यस्तदेहादिभावे समारोप्य, तथा चैतन्यादीनात्मधर्मान् देहादावध्यस्तात्मभावे समारोप्य, ममेदं जरामरणपुत्रपशुस्वाम्यादीति व्यवहारो व्यपदेशः, इतिशब्दसूचितश्च तदनुरूपः प्रवृत्त्यादिः । अत्र च अध्यासव्यवहारक्रियाभ्यां यः कर्तोन्नीतः स समान इति समानकर्तृकत्वेनाध्यस्य व्यवहार इत्युपपन्नम् ।
पूर्वकालत्वसूचितमध्यासस्य व्यवहारकारणत्वं स्फुटयति -
मिथ्याज्ञाननिमित्तः व्यवहारः ।
मिथ्याज्ञानमध्यासस्तन्निमित्तः । तद्भावाभावानुविधानाद्व्यवहारभावाभावयोरित्यर्थः ।
तदेवमध्यासस्वरूपं फलं च व्यवहारमुक्त्वा तस्य निमित्तमाह -
इतरेतराविवेकेन ।
विवेकाग्रहणेत्यर्थः ।
अथाविवेक एव कस्मान्न भवति, तथा च नाध्यास इत्यत आह -
अत्यन्तविविक्तयोर्धर्मधर्मिणोः ।
परमार्थतो धर्मिणोरतादात्म्यं विवेको धर्माणां चासङ्कीर्णता विवेकः । स्यादेतत् । विविक्तयोर्वस्तुसतोर्भेदाग्रहनिबन्धनस्तादात्म्यविभ्रमो युज्यते, शुक्तेरिव रजताद्भेदाग्रह निबन्धनो रजततादात्म्यविभ्रमः ।
इह तु परमार्थसतश्चिदात्मनोऽत्यन्तभिन्नं न देहाद्यस्ति वस्तुसत् , तत्कुतश्चिदात्मनो भेदाग्रहः कुतश्च तादात्म्यविभ्रमः इत्यत आह -
सत्यानृते मिथुनीकृत्य इति ।
विवेकाग्रहादध्यस्येति योजना । सत्यं चिदात्मा, अनृतं बुद्धीन्द्रियदेहादि, ते द्वे धर्मिणी मिथुनीकृत्य युगलीकृत्येत्यर्थः । न च संवृतिपरमार्थसतोः पारमार्थिकं मिथुनमस्तीत्यभूततद्भावार्थस्य च्वेः प्रयोगः ।
एतदुक्तं भवति - अप्रतीतस्यारोपायोगादारोप्यस्य प्रतीतिरुपयुज्यते न वस्तुसत्तेति । स्यादेतत् । आरोप्यस्य प्रतीतौ सत्यां पूर्वदृष्टस्य समारोपः समारोपनिबन्धना च प्रतीतिरिति दुर्वारं परस्पराश्रयत्वमित्यत आह -
नैसर्गिक इति ।
स्वाभाविकोऽनादिरयं व्यवहारः । व्यवहारानादितया तत्कारणस्याध्यासस्यानादितोक्ता, ततश्च पूर्वपूर्वमिथ्याज्ञानोपदर्शितस्य बुद्धीन्द्रियशरीरादेरुत्तरोत्तराध्यासोपयोग इत्यनादित्वात्बीजाङ्कुरवन्न परस्पराश्रयत्वमित्यर्थः । स्यादेतत् । अद्धा पूर्वप्रतीतिमात्रमुपयुज्यत आरोपे, न तु प्रतीयमानस्य परमार्थसत्ता । प्रतीतिरेव तु अत्यन्तासतो गगनकमलिनीकल्पस्य देहेन्द्रियादेर्नोपपद्यते । प्रकाशमानत्वमेव हि चिदात्मनोऽपि सत्त्वं न तु तदतिरिक्तं सत्तासामान्यसमवायोऽर्थक्रियाकारिता वा, द्वैतापत्तेः । सत्तायाश्चार्थक्रियाकारितायाश्च सत्तान्तरार्थक्रियाकारितान्तरकल्पनेऽनवस्थापातात् , प्रकाशमानतैव सत्ताभ्युपेतव्या । तथा च देहादयः प्रकाशमानत्वान्नासन्तः, चिदात्मवत् ।