असत्त्वे वा न प्रकाशमानाः, तत्कथं सत्यानृतयोर्मिथुनीभावः, तदभावे वा कस्य कुतो भेदाग्रहः, तदसम्भवे कुतोऽध्यास इत्याशयवानाह -
आह
आक्षेप्ता -
कोऽयमध्यासो नाम ।
क इत्याक्षेपे ।
समाधाता लोकसिद्धमध्यासलक्षणमाचक्षाण एवाक्षेपं प्रतिक्षिपति -
उच्यते - स्मृतिरूपः परत्र पूर्वदृष्टावभासः ।
अवसन्नोऽवमतो वा भासोऽवभासः । प्रत्ययान्तरबाधश्चास्यवसादोऽवमानो वा । एतावता मिथ्याज्ञानमित्युक्तं भवति । तस्येदमुपव्याख्यानम् “पूर्वदृष्ट” इत्यादि । पूर्वदृष्टस्यावभासः पूर्वदृष्टावभासः । मिथ्याप्रत्ययश्चारोपविषयारोपणीयमिथुनमन्तरेण न भवतीति पूर्वदृष्टग्रहणेनानृतमारोपणीयमुपस्थापयति । तस्य च दृष्टत्वमात्रमुपयुज्यते न वस्तुसत्तेति दृष्टग्रहणम् । तथापि वर्तमानं दृष्टं दर्शनं नारोपोपयोगीति पूर्वेत्युक्तम् । तच्च पूर्वदृष्टं स्वरूपेण सदप्यारोपणीयतया अनिर्वाच्यमित्यनृतम् ।
आरोपविषयं सत्यमाह -
परत्रेति ।
परत्र शुक्तिकादौ परमार्थसति, तदनेन सत्यानृतमिथुनमुक्तम् । स्यादेतत् । परत्र पूर्वदृष्टावभास इत्यलक्षणम् , अतिव्यापकत्वात् । अस्ति हि स्वस्तिमत्यां गवि पूर्वदृष्टस्य गोत्वस्य, परत्र कालाक्ष्यामवभासः । अस्ति च पाटलिपुत्रे पूर्वदृष्टस्य देवदत्तस्य परत्र माहिष्मत्यामवभासः समीचीनः ।
अवभासपदं च समीचीनेऽपि प्रत्यये प्रसिद्धम् , यथा नीलस्यावभासः पीतस्यावभास इत्यत आह -
स्मृतिरूप इति ।
स्मृते रूपमिव रूपमस्येति स्मृतिरूपः । असंनिहितविषयत्वं च स्मृतिरूपत्वम् , संनिहितविषयं च प्रत्यभिज्ञानं समीचीनमिति नातिव्याप्तिः । नाप्यव्याप्तिः, स्वप्नज्ञानस्यापि स्मृतिविभ्रमरूपस्यैवंरूपत्वात् । अत्रापि हि स्मर्यमाणे पित्रादौ निद्रोपप्लववशादसंनिधानापरामर्शे, तत्र तत्र पूर्वदृष्टस्यैव संनिहितदेशकालत्वस्य समारोपः । एवं पीतः शङ्खस्तिक्तो गुडैत्यत्राप्येतल्लक्षणं योजनीयम् । तथा हि - बहिर्विनिर्गच्छदत्यच्छनयनरश्मिसम्पृक्तपित्तद्रव्यवर्तिनीं पीततां पित्तरहितामनुभवन् , शङ्खं च दोषाच्छादितशुक्लिमां न द्रव्यमात्रमनुभवन् , पीततायाश्च शङ्खासम्बन्धमननुभवन् , असम्बन्धाग्रहणसारूप्येणपीतं तपनीयपिण्डम्पीतं बिल्वफलमित्यादौ पूर्वदृष्टं सामानाधिकरण्यं पीतत्वशङ्खत्वयोरारोप्याहपीतः शङ्ख इति । एतेनतिक्तो गुड इति प्रत्ययो व्याख्यातः । एवं विज्ञातृपुरुषाभिमुखेष्वादर्शोदकादिषु स्वच्छेषु चाक्षुषं तेजो लग्नमपि बलीयसा सौर्येण तेजसा प्रतिस्रोतः प्रवर्तितं मुखसंयुक्तं मुखं ग्राहयत् , दोषवशात्तद्देशतामनभिमुखतां च मुखस्याग्राहयत् , पूर्वदृष्टाभिमुखादर्शोदकदेशतामाभिमुख्यं च मुखस्यारोपयतीति प्रतिबिम्बविभ्रमोऽपि लक्षितो भवति । एतेन द्विचन्द्रदिङ्मोहालातचक्रगन्धर्वनगरवंशोरगादिविभ्रमेष्वपि यथासम्भवं लक्षणं योजनीयम् । एतदुक्तं भवति - न प्रकाशमानतामात्रं सत्त्वम् , येन देहेन्द्रियादेः प्रकाशमानतया सद्भावो भवेत् । न हि सर्पादिभावेन रज्ज्वादयो वा स्फटिकादयो वा रक्तादिगुणयोगिनो न प्रतिभासन्ते, प्रतिभासमाना वा भवन्ति तदात्मानस्तद्धर्माणो वा । तथा सति मरुषु मरीचिचयम् , उच्चावचमुच्चलत्तुङ्गतरङ्गभङ्गमालेयमभ्यर्णवमवतीर्णा मन्दाकिनी, इत्यभिसन्धाय प्रवृत्तस्तत्तोयमापीय पिपासामुपशमयेत् । तस्मादकामेनाप्यारोपितस्य प्रकाशमानस्यापि न वस्तुसत्त्वमभ्युपगमनीयम् । न च मरीचिरूपेण सलिलमवस्तुसत्स्वरूपेण तु परमार्थसदेव, देहेन्द्रियादयस्तु स्वरूपेणाप्यसन्त इत्यनुभवागोचरत्वात्कथमारोप्यन्त इति साम्प्रतम् यतो यद्यसन्नानुभवगोचरः कथं तर्हि मरीच्यादीनामसतां तोयतयानुभवगोचरत्वम् , न च स्वरूपसत्त्वेन तोयात्मनापि सन्तो भवन्ति । यद्युच्येत नाभावो नाम भावादन्यः कश्चिदस्ति, अपि तु भाव एव भावान्तरात्मनाभावः स्वरूपेण तु भावः । यथाहुः - “भावान्तरमभावो हि कयाचित्तु व्यपेक्षया”(मण्डनमिश्रभ्रमविवेकः) इति । ततश्च भावात्मनोपाख्येयतयास्य युज्येतानुभवगोचरता । प्रपञ्चस्य पुनरत्यन्तासतो निरस्तसमस्तसामर्थ्यस्य निस्तत्त्वस्य कुतोऽनुभवविषयभावः, कुतो वा चिदात्मन्यारोपः । न च विषयस्य समस्तसामर्थ्यविरहेऽपि ज्ञानमेव तत्तादृशं स्वप्रत्ययसामर्थ्यासादितादृष्टान्तसिद्धस्वभावभेदमुपजातमसतः प्रकाशनं, तस्मादसत्प्रकाशनशक्तिरेवास्याविद्येति साम्प्रतम् । यतो येयमसत्प्रकाशनशक्तिर्विज्ञानस्य किं पुनरस्याः शक्यम् , असदिति चेत् , किमेतत्कार्यमाहोस्विदस्या ज्ञाप्यम् । न तावत्कार्यम् , असतस्तत्त्वानुपपत्तेः । नापि ज्ञाप्यं, ज्ञानान्तरानुपलब्धेः, अनवस्थापाताच्च । विज्ञानस्वरूपमेव असतः प्रकाश इति चेत् , कः पुनरेष सदसतोः सम्बन्धः ? असदधीननिरूपणत्वं सतो ज्ञानस्यासता सम्बन्ध इति चेत् , अहो बतायमतिनिर्वृत्तः प्रत्ययतपस्वी यस्यासत्यपि निरूपणमायतते, न च प्रत्ययस्तत्राधत्ते किञ्चित् , असत आधारत्वायोगात् । असदन्तरेण प्रत्ययो न प्रथत इति प्रत्ययस्यैवैष स्वभावो न त्वसदधीनमस्य किञ्चिदिति चेत् , अहो बतास्यासत्पक्षपातो यदयमतदुत्पत्तिरतदात्मा च तदविनाभावनियतः प्रत्यय इति । तस्मादत्यन्तासन्तः शरीरेन्द्रियादयो निस्तत्त्वा नानुभवविषया भवितुमर्हन्तीति । अत्र ब्रूमः - निस्तत्त्वं चेन्नानुभवगोचरः, तत्किमिदानीं मरीचयोऽपि तोयात्मना सतत्त्वा यदनुभवगोचराः स्युः । न सतत्त्वाः, तदात्मना मरीचीनामसत्त्वात् । द्विविधं च वस्तूनां तत्त्वं सत्त्वमसत्त्वं च । तत्र पूर्वं स्वतः, परं तु परतः । यथाहुः - “स्वरूपपररूपाभ्यां नित्यं सदसदात्मके । वस्तुनि ज्ञायते किञ्चिद्रूपं कैश्चित्कदा च न॥”(तत्वसङ्ग्रहः) इति । तत्किं मरीचिषु तोयनिर्भासप्रत्ययस्तत्त्वगोचरः, तथा च समीचीन इति न भ्रान्तो नापि बाध्येत । अद्धा न बाध्येत यदि मरीचीनतोयात्मतत्त्वानतोयात्मना गृह्णीयात् । तोयात्मना तु गृह्णन् कथमभ्रान्तः, कथं वा बाध्यः हन्त तोयाभावात्मनां मरीचिनां तोयभावात्मत्वं तावन्न सत् , तेषां तोयाभावादभेदेन तोयभावात्मतानुपपत्तेः । नाप्यसत् । वस्त्वन्तरमेव हि वस्त्वन्तरस्यासत्त्वमास्थीयते “भावान्तरमभावोऽन्यो न कश्चिदनिरूपणात्”(तत्वसङ्ग्रहः) इति वदद्भिः, न चारोपितं रूपं वस्त्वन्तरम् , तद्धि मरीचयो वा भवेयुः, गङ्गादिगतं तोयं वा । पूर्वस्मिन्कल्पे मरीचयः इति प्रत्ययः स्यात् , न तोयमिति । उत्तरस्मिंस्तु गङ्गायां तोयमिति स्यात् , न पुनरिहेति । देशभेदास्मरणे तोयमिति स्यान्न पुनरिहेति । न चेदमत्यन्तमसन्निरस्तसमस्तस्वरूपमलीकमेवास्तु इति साम्प्रतम् , तस्यानुभवगोचरत्वानुपपत्तेरित्युक्तमधस्तात् । तस्मान्न सत् , नासन्नापि सदसत् , परस्परविरोधादित्यनिर्वाच्यमेवारोपणीयं मरीचिषु तोयमास्थेयम् , तदनेन क्रमेणाध्यस्तं तोयं परमार्थतोयमिव, अत एव पूर्वदृष्टमिव, तत्त्वतस्तु न तोयं न च पूर्वदृष्टं, किं त्वनृतमनिर्वाच्यम् । एवं च देहेन्द्रियादिप्रपञ्चोऽप्यनिर्वाच्यः, अपूर्वोऽपि पूर्वमिथ्याप्रत्ययोपदर्शित इव परत्र चिदात्मन्यध्यस्यत इति उपपन्नम् , अध्यासलक्षणयोगात् । देहेन्द्रियादिप्रपञ्चबाधनं चोपपादयिष्यते । चिदात्मा तु श्रुतिस्मृतीतिहासपुराणगोचरः, तन्मूलतदविरुद्धन्यायनिर्णीतशुद्धबुद्धमुक्तस्वभावः सत्त्वेनैव निर्वाच्यः । अबाधिता स्वयम्प्रकाशतैव अस्य सत्ता, सा च स्वरूपमेव चिदात्मनः, न तु तदतिरिक्तं सत्तासामान्यसमवायोऽर्थक्रियाकारिता वेति सर्वमवदातम् ।
स चायमेवंलक्षणकोऽध्यासोऽनिर्वचनीयः सर्वेषामेव संमतः परीक्षकाणां, तद्भेदे परं विप्रतिपत्तिरित्यनिर्वचनीयतां द्रढयितुमाह -
तं केचिदन्यत्रान्यधर्माध्यास इति वदन्ति ।
अन्यधर्मस्य, ज्ञानधर्मस्य रजतस्य । ज्ञानाकारस्येति यावत् । अध्यासोऽन्यत्र बाह्ये । सौत्रान्तिकनये तावद्बाह्यमस्ति वस्तु सत् , तत्र ज्ञानाकारस्यारोपः । विज्ञानवादिनामपि यद्यपि न बाह्यं वस्तु सत् , तथाप्यनाद्यविद्यावासनारोपितमलीकं बाह्यम् , तत्र ज्ञानाकारस्याध्यारोपः । उपपत्तिश्च यद्यादृशमनुभवसिद्धं रूपं तत्तादृशमेवाभ्युपेतव्यमित्युत्सर्गः, अन्यथात्वं पुनरस्य बलवद्बाधकप्रत्ययवशात् नेदं रजतमिति च बाधकस्येदन्तामात्रबाधेनोपपत्तौ न रजतगोचरतोचिता । रजतस्य धर्मिणो बाधे हि रजतं च तस्य च धर्म इदन्ता बाधिते भवेताम् , तद्वरमिदन्तैवास्य धर्मो बाध्यतां न पुना रजतमपि धर्मि, तथा च रजतं बहिर्बाधितमर्थादान्तरे ज्ञाने व्यवतिष्ठत इति ज्ञानाकारस्य बहिरध्यासः सिध्यति ।
केचित्तु -
ज्ञानाकारख्यातावपरितुष्यन्तो वदन्ति -
यत्र यदध्यासस्तद्विवेकाग्रहनिबन्धनो भ्रम इति ।
अपरितोषकारणं चाहुः - विज्ञानकारता रजतादेरनुभवाद्वा व्यवस्थाप्येतानुमानाद्वा । तत्रानुमानमुपरिष्टान्निराकरिष्यते । अनुभवोऽपि रजतप्रत्ययो वा स्यात् , बाधकप्रत्ययो वा । न तावद्रजतानुभवः । स हीदङ्कारास्पदं रजतमावेदयति न त्वान्तरम् । अहमिति हि तदा स्यात् , प्रतिपत्तुः प्रत्ययादव्यतिरेकात् । भ्रान्तं विज्ञानं स्वाकारमेव बाह्यतयाध्यवस्यति, तथा च नाहङ्कारास्पदमस्य गोचरः, ज्ञानाकारता पुनरस्य बाधकप्रत्ययप्रवेदनीयेति चेत् , हन्त बाधकप्रत्ययमालोचयत्वायुष्मान् । किं पुरोवर्ति द्रव्यं रजताद्विवेचयत्याहोस्वित् ज्ञानाकारतामप्यस्य दर्शयति । तत्र ज्ञानाकारतोपदर्शनव्यापारं बाधकप्रत्ययस्य ब्रुवाणः श्लाघनीयप्रज्ञो देवानांप्रियः । पुरोवर्तित्वप्रतिषेधादर्थादस्य ज्ञानाकारतेति चेन्न । असंनिधानाग्रहनिषेधादसंनिहितो भवति । प्रतिपत्तुरत्यन्तसंनिधानं त्वस्य प्रतिपत्त्रात्मकं कुतस्त्यम् । न चैष रजतस्य निषेधः, न चेदन्तायाः, किं तु विवेकाग्रहप्रसञ्जितस्य रजतव्यवहारस्य । न च रजतमेव शुक्तिकायां प्रसञ्जितं रजतज्ञानेन । नहि रजतनिर्भासनं शुक्तिकालम्बनं युक्तम् अनुभवविरोधात् । न खलु सत्तामात्रेणालम्बनम् , अतिप्रसङ्गात् । सर्वेषामर्थानां सत्त्वाविशेषादालम्बनत्वप्रसङ्गात् । नापि कारणत्वेन, इन्द्रियादीनामपि कारणत्वात् । तथा च भासमानतैवालम्बनार्थः । न च रजतज्ञाने शुक्तिका भासते, इति कथमालम्बनम् , भासमानताभ्युपगमे वा कथं नानुभवविरोधः । अपि चेन्द्रियादीनां समीचीनज्ञानोपजनने सामर्थ्यमुपलब्धमिति कथमेभ्यो मिथ्याज्ञानसम्भवः । दोषसहितानां तेषां मिथ्याप्रत्ययेऽपि सामर्थ्यमिति चेन्न, दोषाणां कार्योपजननसामर्थ्यविघातमात्रहेतुत्वात् , अन्यथा दुष्टादपि कुटजबीजाद्वटाङ्कुरोत्पत्तिप्रसङ्गात् । अपि च स्वगोचरव्यभिचारे विज्ञानानां सर्वत्रानाश्वासप्रसङ्गः । तस्मात्सर्वं ज्ञानं समीचीनमास्थेयम् । तथा च रजतम् , इदमिति च द्वे विज्ञाने स्मृत्यनुभवरूपे, तत्रेदमिति पुरोवर्तिद्रव्यमात्रग्रहणम् , दोषवशात्तद्गतशुक्तित्वसामान्यविशेषस्याग्रहात् , तन्मात्रं च गृहीतं सदृशतया संस्कारोद्बोधक्रमेण रजते स्मृतिं जनयति । सा च गृहीतग्रहणस्वभावापि दोषवशाद्गृहीतत्वांशप्रमोषाद्ग्रहणमात्रमवतिष्ठते । तथा च रजतस्मृतेः पुरोवर्तिद्रव्यमात्रग्रहणस्य च मिथः स्वरूपतो विषयतश्च भेदाग्रहात् , संनिहितरजतगोचरज्ञानसारूप्येण, इदं रजतमिति भिन्ने अपि स्मरणग्रहणे अभेदव्यवहारं च सामानाधिकरण्यव्यपदेशं च प्रवर्तयतः । क्वचित्पुनर्ग्रहणे एव मिथोऽनुगृहीतभेदे, यथा पीतः शङ्ख इति । अत्र हि बहिर्विनिर्गच्छन्नयनरश्मिवर्तिनः पित्तद्रव्यस्य काचस्येव स्वच्छस्य पीतत्वं गृह्यते पित्तं तु न गृह्यते । शङ्खोऽपि दोषवशाच्छुक्लगुणरहितः स्वरूपमात्रेण गृह्यते । तदनयोर्गुणगुणिनोरसंसर्गाग्रहसारूप्यात्पीततपनीयपिण्डप्रत्ययाविशेषेणाभेदव्यवहारः सामानाधिकरण्यव्यपदेशश्च । भेदाग्रहप्रसञ्जिताभेदव्यवहारबाधनाच्च नेदमिति विवेकप्रत्ययस्य बाधकत्वमप्युपपद्यते, तदुपपत्तौ च प्राचीनस्य प्रत्ययस्य भ्रान्तत्वमपि लोकसिद्धं सिद्धं भवति । तस्माद्यथार्थाः सर्वे विप्रतिपन्नाः सन्देहविभ्रमाः, प्रत्ययत्वात् , घटादिप्रत्ययवत् ।
तदिदमुक्तम् -
यत्र यदध्यास इति ।
यस्मिन्शुक्तिकादौ यस्य रजतादेरध्यास इति लोकप्रसिद्धिः नासावन्यथाख्यातिनिबन्धना, किन्तु गृहीतस्य रजतादेस्तत्स्मरणस्य च गृहीततांशप्रमोषेण, गृहीतमात्रस्य च यः इदमिति पुरोऽवस्थिताद्द्रव्यमात्रात्तज्ज्ञानाच्च विवेकः, तदग्रहणनिबन्धनो भ्रमः । भ्रान्तत्वं च ग्रहणस्मरणयोरितरेतरसामानाधिकरण्यव्यपदेशो रजतव्यवहारश्चेति ।अन्ये तु - अत्राप्यपरितुष्यन्तः, यत्र यदध्यासस्तस्यैव विपरीतधर्मत्वकल्पनामाचक्षते । अत्रेदमाकूतम् - अस्ति तावद्रजतार्थिनोरजतमिदमिति प्रत्ययात्पुरोवर्तिनि द्रव्ये प्रवृत्तिः, सामानाधिकरण्यव्यपदेशश्चेति सर्वजनीनम् । तदेतन्न तावद्ग्रहणस्मरणयोस्तद्गोचरयोश्च मिथो भेदाग्रहमात्राद्भवितुमर्हति । ग्रहणनिबन्धनौ हि चेतनस्य व्यवहारव्यपदेशौ कथमग्रहणमात्राद्भवेताम् । ननूक्तं नाग्रहणमात्रात् , किं तु ग्रहणस्मरणे एव मिथः स्वरूपतो विषयतश्चागृहीतभेदे, समीचीनपुरःस्थितरजतविज्ञानसारूप्येणाभेदव्यवहारं सामानाधिकण्यव्यपदेशं च प्रवर्तयतः । अथ समीचीनज्ञानसारूप्यमनयोर्गृह्यमाणं वा व्यवहारप्रवृत्तिहेतुः, अगृह्यमाणं वा सत्तामात्रेण । गृह्यमाणत्वेऽपि ‘समीचीनज्ञानसारूप्यमनयोरिदमिति रजतमिति च ज्ञानयोः’ इति ग्रहणम् , ‘अथवानयोरेव स्वरूपतो विषयतश्च मिथो भेदाग्रहः’ इति ग्रहणम् । तत्र न तावत्समीचीनज्ञानसदृशे इति ज्ञानं समीचीनज्ञानवद्व्यवहारप्रवर्तकम् । न हिगोसदृशो गवय इति ज्ञानं गवार्थिनं गवये प्रवर्तयति । अनयोरेव भेदाग्रह इति तु ज्ञानं पराहतम् , न हि भेदाग्रहेऽनयोरिति भवति, अनयोरिति ग्रहे भेदाग्रहणमिति च भवति । तस्मात्सत्तामात्रेण भेदाग्रहोऽगृहीत एव व्यवहारहेतुरिति वक्तव्यम् । तत्र किमयमारोपोत्पादक्रमेण व्यवहारहेतुरस्त्वाहोऽनुत्पादितारोप एव स्वत इति । वयं तु पश्यामः - चेतनव्यवहारस्याज्ञानपूर्वकत्वानुपपत्तेः, आरोपज्ञानोत्पादक्रमेणैवैति । ननु सत्यं चेतनव्यवहारो नाज्ञानपूर्वकः किं त्वविदितविवेकग्रहणस्मरणपूर्वक इति । मैवम् । नहि रजतप्रातिपदिकार्थमात्रस्मरणं प्रवृत्तावुपयुज्यते । इदङ्कारास्पदाभिमुखी खलु रजतार्थिनां प्रवृत्तिरित्यविवादम् । कथं चायमिदङ्कारास्पदे प्रवर्तेत यदि न तदिच्छेत् । अन्यदिच्छत्यन्यत्करोतीति व्याहतम् । न चेदिदङ्कारास्पदं रजतमिति जानीयात्कथं रजतार्थी तदिच्छेत् । यद्यतथात्वेनाग्रहणादिति ब्रूयात्स प्रतिवक्तव्योऽथ तथात्वेनाग्रहणात्कस्मादयं नोपेक्षेतेति । सोऽयमुपादानोपेक्षाभ्यामभित आकृष्यमाणश्चेतनोऽव्यवस्थित इतीदङ्कारास्पदे रजतसमारोपेणोपादान एव व्यवस्थाप्यत इति भेदाग्रहः समारोपोत्पादक्रमेण चेतनप्रवृत्तिहेतुः । तथाहि - भेदाग्रहादिदङ्कारास्पदे रजतत्वं समारोप्य, तज्जातीयस्योपकारहेतुभावमनुचिन्त्य, तज्जातीयतयेदङ्कारास्पदे रजते तमनुमाय, तदर्थी प्रवर्तत इत्यानुपूर्व्यं सिद्धम् । न च तटस्थरजतस्मृतिरिदङ्कारास्पदस्योपकारहेतुभावमनुमापयितुमर्हति, रजतत्वस्य हेतोरपक्षधर्मत्वात् । एकदेशदर्शनं खल्वनुमापकं न त्वनेकदेशदर्शनम् । यथाहुः - ज्ञातसम्बन्धस्यैकदेशदर्शनादिति । समारोपे त्वेकदेशदर्शनमस्ति । तत्सिद्धमेतद्विवादाध्यासितं रजतादिज्ञानं, पुरोवर्तिवस्तुविषयम् , रजताद्यर्थिनस्तत्र नियमेन प्रवर्तकत्वात् , यद्यदर्थिनं यत्र नियमेन प्रवर्तयति तज्ज्ञानं तद्विषयं यथोभयसिद्धसमीचीनरजतज्ञानम् , तथा चेदम् , तस्मात्तथेति । यच्चोक्तमनवभासमानतया न शुक्तिरालम्बनमिति, तत्र भवान् पृष्टो व्याचष्टाम् , किं शुक्तिकात्वस्य इदं रजतमिति ज्ञानं प्रत्यनालम्बनत्वमाहोस्विद्द्रव्यमात्रस्य पुरःस्थितस्य सितभास्वरस्य । यदि शुक्तिकात्वस्यानालम्बनत्वम् , अद्धा । उत्तरस्यानालम्बनत्वं ब्रुवाणस्य तवैवानुभवविरोधः । तथा हि - रजतमिदमित्यनुभवन्ननुभविता पुरोवर्ति वस्त्वङ्गुल्यादिना निर्दिशति । दृष्टं च दुष्टानां कारणानामौत्सर्गिककार्यप्रतिबन्धेन कार्यान्तरोपजननसामर्थ्यम् , यथा दावाग्निदग्धानां वेत्रबीजानां कदलीकाण्डजनकत्वम् । भस्मकदुष्टस्य चोदर्यस्य तेजसो बह्वन्नपचनमिति । प्रत्यक्षबाधकापहृतविषयं च विभ्रमाणां यथार्थत्वानुमानमाभासः, हुतवहानुष्णत्वानुमानवत् । यच्चोक्तं मिथ्याप्रत्ययस्य व्यभिचारे सर्वप्रमाणेष्वनाश्वास इति, तत् बोधकत्वेन स्वतःप्रामाण्यं नाव्यभिचारेणेति व्युत्पादयद्भिरस्माभिः परिहृतं न्यायकणिकायामिति नेह प्रतन्यते । दिङ्मात्रं चास्य स्मृतिप्रमोषभङ्गस्योक्तम् । विस्तरस्तु ब्रह्मतत्त्वसमीक्षायामवगन्तव्य इति, तदिदमुक्तम् - “अन्ये तु यत्र यदध्यासस्तस्यैव विपरीतधर्मत्वकल्पनामाचक्षते” इति । यत्र शुक्तिकादौ यस्य रजतादेरध्यासस्तस्यैव शुक्तिकादेर्विपरीतधर्मकल्पनां रजतत्वधर्मकल्पनामिति योजना ।
ननु सन्तु नाम परीक्षकाणां विप्रतिपत्तयः, प्रकृते तु किमायातमित्यत आह -
सर्वथापि त्वन्यस्यान्यधर्मकल्पनां न व्यभिचरति ।
अन्यस्यान्यधर्मकल्पनानृतता, सा चानिर्वचनीयतेत्यधस्तादुपपादितम् । तेन सर्वेषामेव परीक्षकाणां मतेऽन्यस्यान्यधर्मकल्पनानिर्वचनीयतावश्यम्भाविनीत्यनिर्वचनीयता सर्वतन्त्रसिद्धान्त इत्यर्थः । अख्यातिवादिभिरकामैरपि सामानाधिकरण्यव्यपदेशप्रवृत्तिनियमस्नेहादिदमभ्युपेयमिति भावः ।
न केवलमियमनृतता परीक्षकाणां सिद्धा, अपि तु लौकिकानामपीत्याह -
तथा च लोकेऽनुभवः - शुक्तिका हि रजतवदवभासत इति ।
न पुना रजतमिदमिति शेषः ।
स्यादेतत् । अन्यस्यान्यात्मताविभ्रमो लोकसिद्धः, एकस्य त्वभिन्नस्य भेदभ्रमो न दृष्ट इति कुतश्चिदात्मनोऽभिन्नानां जीवानां भेदविभ्रम इत्यताह -
एकश्चन्द्रः सद्वितीयवदिति ।