ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः प्रथमः पादः
भामतीव्याख्या
 
कथं पुनः प्रत्यगात्मन्यविषये अध्यासो विषयतद्धर्माणाम् ? सर्वो हि पुरोऽवस्थित एव विषये विषयान्तरमध्यस्यति; युष्मत्प्रत्ययापेतस्य प्रत्यगात्मनः अविषयत्वं ब्रवीषिउच्यते तावयमेकान्तेनाविषयः, अस्मत्प्रत्ययविषयत्वात् अपरोक्षत्वाच्च प्रत्यगात्मप्रसिद्धेः चामस्ति नियमःपुरोऽवस्थित एव विषये विषयान्तरमध्यसितव्यमितिअप्रत्यक्षेऽपि ह्याकाशे बालाः तलमलिनतादि अध्यस्यन्तिएवमविरुद्धः प्रत्यगात्मन्यपि अनात्माध्यासः
कथं पुनः प्रत्यगात्मन्यविषये अध्यासो विषयतद्धर्माणाम् ? सर्वो हि पुरोऽवस्थित एव विषये विषयान्तरमध्यस्यति; युष्मत्प्रत्ययापेतस्य प्रत्यगात्मनः अविषयत्वं ब्रवीषिउच्यते तावयमेकान्तेनाविषयः, अस्मत्प्रत्ययविषयत्वात् अपरोक्षत्वाच्च प्रत्यगात्मप्रसिद्धेः चामस्ति नियमःपुरोऽवस्थित एव विषये विषयान्तरमध्यसितव्यमितिअप्रत्यक्षेऽपि ह्याकाशे बालाः तलमलिनतादि अध्यस्यन्तिएवमविरुद्धः प्रत्यगात्मन्यपि अनात्माध्यासः

पुनरपि चिदात्मन्यध्यासमाक्षिपति -

कथं पुनः प्रत्यगात्मन्यविषयेऽध्यासो विषयतद्धर्माणाम् ।

अयमर्थः - चिदात्मा प्रकाशते न वान चेत्प्रकाशते, कथमस्मिन्नध्यासो विषयतद्धर्माणाम् । न खल्वप्रतिभासमाने पुरोवर्तिनि द्रव्ये रजतस्य वा तद्धर्माणां वा समारोपः सम्भवतीति । प्रतिभासे वा (न)तावदयमात्मा जडो घटादिवत्पराधीनप्रकाश इति युक्तम् । न खलु स एव कर्ता च कर्म च भवति, विरोधात् । परसमवेतक्रियाफलशालि हि कर्म, न च ज्ञानक्रिया परसमवायिनीति कथमस्यां कर्म, न च तदेव स्वं च परं च, विरोधात् । आत्मान्तरसमवायाभ्युपगमे तु ज्ञेयस्यात्मनोऽनात्मत्वप्रसङ्गः । एवं तस्य तस्येत्यनवस्थाप्रसङ्गः । स्यादेतत् । आत्मा जडोऽपि सर्वार्थज्ञानेषु भासमानोऽपि कर्तैव न कर्म, परसमवेतक्रियाफलशालित्वाभावात् , चैत्रवत् । यथा हि चैत्रसमवेतक्रियया चैत्रनगरप्राप्तावुभयसमवेतायामपि क्रियमाणायां नगरस्यैव कर्मता, परसमवेतक्रियाफलशालित्वात् , न तु चैत्रस्य क्रियाफलशालिनोऽपि, चैत्रसमवायाद्गमनक्रियाया इति, तन्न । श्रुतिविरोधात् । श्रूयते हि “सत्यं ज्ञानमनन्तं ब्रह्म” (तै. उ. २ । १ । १) इति उपपद्यते च, तथा हि - योऽयमर्थप्रकाशः फलं यस्मिन्नर्थश्च आत्मा च प्रथेते स किं जडः स्वयम्प्रकाशो वा । जडश्चेद्विषयात्मानावपि जडाविति कस्मिन्किं प्रकाशेताविशेषात् , इति प्राप्तमान्ध्यमशेषस्य जगतः । तथा चाभाणकः - “अन्धस्येवान्धलग्नस्य विनिपातः पदे पदे” । न च निलीनमेव विज्ञानमर्थात्मानौ ज्ञापयति, चक्षुरादिवदिति वाच्यम् । ज्ञापनं हि ज्ञानजननम् , जनितं च ज्ञानं जडं सन्नोक्तदूषणमतिवर्तेतेति । एवमुत्तरोत्तराण्यपि ज्ञानानि जडानीत्यनवस्था । तस्मादपराधीनप्रकाशा संविदुपेतव्या । तथापि किमायातं विषयात्मनोः स्वभावजडयोः । एतदायातं यत्तयोः संविदजडेति । तत्किं पुत्रः पण्डित इति पितापि पण्डितोऽस्तु । स्वभाव एष संविदः स्वयम्प्रकाशाया यदर्थात्मसम्बन्धितेति चेत् , हन्त पुत्रस्यापि पण्डितस्य स्वभाव एष यत्पितृसम्बन्धितेति समानम् । सहार्थात्मप्रकाशेन संवित्प्रकाशो न त्वर्थात्मप्रकाशं विनेति तस्याः स्वभाव इति चेत् , तत्किं संविदो भिन्नौ संविदर्थात्मप्रकाशौ । तथा च न स्वयम्प्रकाशा संवित् , न च संविदर्थात्मप्रकाश इति । अथ ‘संविदर्थात्मप्रकाशो न संविदो भिद्येते’ , संविदेव तौ । एवं चेत् यावदुक्तं भवति संवितात्मार्थौ सहेति तावदुक्तं भवति संविदर्थात्मप्रकाशौ सहेति, तथा च न विवक्षितार्थसिद्धिः । न चातीतानागतार्थगोचरायाः संविदोऽर्थसहभावोऽपि । तद्विषयहानोपादानोपेक्षाबुद्धिजननादर्थसहभाव इति चेन्न, अर्थसंविद इव हानादिबुद्धीनामपि तद्विषयत्वानुपपत्तेः । हानादिजननाद्धानादिबुद्धीनामर्थविषयत्वम् , अर्थविषयहानादिबुद्धिजननाच्च अर्थसंविदस्तद्विषयत्वमिति चेत् , तत्किं देहस्य प्रयत्नवदात्मसंयोगो देहप्रवृत्तिनिवृत्तिहेतुरर्थे इत्यर्थप्रकाशोऽस्तु । जाड्याद्देहात्मसंयोगो नार्थप्रकाश इति चेत् , नन्वयं स्वयम्प्रकाशोऽपि स्वात्मन्येव खद्योतवत्प्रकाशः, अर्थे तु जड इत्युपपादितम् । न च प्रकाशस्यात्मानो विषयाः ते हि विच्छिन्नदीर्घस्थूलतयानुभूयन्ते, प्रकाशश्चायमान्तरोऽस्थूलोऽनणुरह्रस्वोऽदीर्धश्चेति प्रकाशते, तस्माच्चन्द्रेऽनुभूयमान इव द्वितीयश्चन्द्रमाः स्वप्रकाशादन्योऽर्थः अनिर्वचनीय एवेति युक्तमुत्पश्यामः । न चास्य प्रकाशस्याजानतः स्वलक्षणभेदोऽनुभूयते । न च अनिर्वाच्यार्थभेदः प्रकाशं निर्वाच्यं भेत्तुमर्हति, अतिप्रसङ्गात् । न च अर्थानामपि परस्परं भेदः समीचीनज्ञानपद्धतिमध्यास्ते इत्युपरिष्टादुपपादयिष्यते । तदयं प्रकाश एव स्वयम्प्रकाश एकः कूटस्थनित्यो निरंशः प्रत्यगात्माशक्यनिर्वचनीयेभ्यो देहेन्द्रियादिभ्य आत्मानं प्रतीपं निर्वचनीयमञ्चति जानातीति प्रत्यङ्स चात्मेति प्रत्यगात्मा, स चापराधीनप्रकाशत्वात् , अनंशत्वाच्च, अविषयः, तस्मिन्नध्यासो विषयधर्माणाम् , देहेन्द्रियादिधर्माणां कथम् , किमाक्षेपे । अयुक्तोऽयमध्यास इत्याक्षेपः ।

कस्मादयमयुक्त इत्यत आह -

सर्वो हि पुरोऽवस्थिते विषये विषयान्तरमध्यस्यति ।

एतदुक्तं भवति - यत्पराधीनप्रकाशमंशवच्च तत्सामान्यांशग्रहे कारणदोषवशाच्च विशेषाग्रहेऽन्यथा प्रकाशते । प्रत्यगात्मा त्वपराधीनप्रकाशतया न स्वज्ञाने कारणान्यपेक्षते, येन तदाश्रयैर्दोषैर्दुष्येत । न चांशवान् , येन कश्चिदस्यांशो गृह्येत, कश्चिन्न गृह्येत । नहि तदेव तदानीमेव तेनैव गृहीतमगृहीतं च सम्भवतीति न स्वयम्प्रकाशपक्षेऽध्यासः । सदातनेऽप्यप्रकाशे पुरोऽवस्थितत्वस्यापरोक्षत्वस्याभावान्नाध्यासः । न हि शुक्तौ अपुरःस्थितायां रजतमध्यस्यतीदं रजतमिति । तस्मादत्यन्तग्रहे अत्यन्ताग्रहे च नाध्यास इति सिद्धम् ।

स्यादेतत् । अविषयत्वे हि चिदात्मनो नाध्यासः, विषय एव तु चिदात्मास्मत्प्रत्ययस्य, तत्कथं नाध्यास इत्यत आह -

युष्मत्प्रत्ययापेतस्य च प्रत्यगात्मनोऽविषयत्वं ब्रवीषि ।

विषयत्वे हि चिदात्मनोऽन्यो विषयी भवेत् । तथा च यो विषयी स एव चिदात्मा । विषयस्तु ततोऽन्यो युष्मत्प्रत्ययगोचरोऽभ्युपेयः । तस्मादनात्मत्वप्रसङ्गादनवस्थापरिहाराय युष्मत्प्रत्ययापेतत्वम्, अत एवाविषयत्वमात्मनो वक्तव्यम् , तथा च नाध्यास इत्यर्थः ।

परिहरति -

उच्यते - न तावदयमेकान्तेनाविषयः ।

कुतः,

अस्मत्प्रत्ययविषयत्वात् ।

अयमर्थः - सत्यं प्रत्यगात्मा स्वयम्प्रकाशत्वादविषयोऽनंशश्च, तथापि अनिर्वचनीयानाद्यविद्यापरिकल्पितबुद्धिमनः सूक्ष्मस्थूलशरीरेन्द्रियावच्छेदेनानवच्छिन्नोऽपि वस्तुतोऽवच्छिन्न इव अभिन्नोऽपि भिन्न इव, अकर्तापि कर्तेव, अभोक्तापि भोक्तेव, अविषयोऽप्यस्मत्प्रत्ययविषय इव, जीवभावमापन्नोऽवभासते, नभ इव घटमणिकमल्लिकाद्यवच्छेदभेदेन भिन्नमिवानेकविधधर्मकमिवेति । न हि चिदेकरसस्यात्मनः चिदंशे गृहीते अगृहीतं किञ्चिदस्ति । न खल्वानन्दनित्यत्वविभुत्वादयोऽस्य चिद्रूपाद्वस्तुतो भिद्यन्ते, येन तद्ग्रहे न गृह्येरन् । गृहीता एव तु कल्पितेन भेदेन न विवेचिता इत्यगृहीता इवाभान्ति । न च आत्मनो बुद्ध्यादिभ्यो भेदस्तात्त्विकः, येन चिदात्मनि गृह्यमाणे सोऽपि गृहीतो भवेत् , बुद्ध्यादीनामनिर्वाच्यत्वेन तद्भेदस्याप्यनिर्वचनीयत्वात् । तस्माच्चिदात्मनः स्वयम्प्रकाशस्यैव अनवच्छिन्नस्य अवच्छिन्नेभ्यो बुद्ध्यादिभ्यो भेदाग्रहात्, तदध्यासेन जीवभाव इति । तस्य चानिदमिदमात्मनोऽस्मत्प्रत्ययविषयत्वमुपपद्यते । तथा हि - कर्ता भोक्ता चिदात्मा अहंप्रत्यये प्रत्यवभासते । न चोदासीनस्य तस्य क्रियाशक्तिर्भोगशक्तिर्वा सम्भवति । यस्य च बुद्ध्यादेः कार्यकारणसङ्घातस्य क्रियाभोगशक्ती न तस्य चैतन्यम् । तस्माच्चिदात्मैव कार्यकरणसङ्घातेन ग्रथितो लब्धक्रियाभोगशक्तिः स्वयम्प्रकाशोऽपि बुद्ध्यादिविषयविच्छुरणात्, कथञ्चिदस्मत्प्रत्ययविषयोऽहङ्कारास्पदं जीव इति च, जन्तुरिति च क्षेत्रज्ञ इति च आख्यायते । न खलु जीवश्चिदात्मनो भिद्यते । तथा च श्रुतिः - “अनेन जीवेनात्मना”(छा. उ. ६ । ३ । २) इति । तस्माच्चिदात्मनोऽव्यतिरेकाज्जीवः स्वयम्प्रकाशोऽप्यहंप्रत्ययेन कर्तृभोक्तृतया व्यवहारयोग्यः क्रियत इत्यहंप्रत्ययालम्बनमुच्यते । न च अध्यासे सति विषयत्वं विषयत्वे च अध्यासः इत्यन्योन्याश्रयत्वमिति साम्प्रतम् , बीजाङ्कुरवदनादित्वात् , पूर्वपूर्वाध्यासतद्वासनाविषयीकृतस्योत्तरोत्तराध्यासविषयत्वाविरोधादित्युक्तम् “नैसर्गिकोऽयं लोकव्यवहारः” इति भाष्यग्रन्थेन ।

तस्मात्सुष्टूक्तम् -

न तावदयमेकान्तेनाविषय इति ।

जीवो हि चिदात्मतया स्वयम्प्रकाशतयाविषयोऽप्यौपाधिकेन रूपेण विषय इति भावः । स्यादेतत् । न वयमपराधीनप्रकाशतयाविषयत्वेनाध्यासमपाकुर्मः, किन्तु प्रत्यगात्मा न स्वतो नापि परतः प्रथत इत्यविषयः इति ब्रूमः ।

तथा च सर्वथाप्रथमाने प्रत्यगात्मनि कुतोऽध्यास इत्यत आह -

अपरोक्षत्वाच्च प्रत्यगात्मप्रसिद्धेः ।

प्रतीच आत्मनः प्रसिद्धिः प्रथा, तस्या अपरोक्षत्वात् । यद्यपि प्रत्यगात्मनि नान्या प्रथास्ति, तथापि भेदोपचारः । यथा पुरुषस्य चैतन्यमिति । एतदुक्तं भवति - अवश्यं चिदात्मापरोक्षोऽभ्युपेतव्यः तदप्रथायां सर्वस्याप्रथनेन जगदान्ध्यप्रसङ्गादित्युक्तम् । श्रुतिश्चात्र भवति “तमेव भान्तमनु भाति सर्वं तस्य भासा सर्वमिदं विभाति”(क.उ.२-२-१५) इति ।

तदेवं परमार्थपरिहारमुक्त्वाभ्युपेत्यापि चिदात्मनः परोक्षतां प्रौढवादितया परिहारान्तरमाह -

न चायमस्ति नियमः पुरोऽवस्थित एव,

अपरोक्ष एव,

विषये विषयान्तरमध्यसितव्यम् ।

कस्मादयं न नियम इत्यत आह -

अप्रत्यक्षेऽपि ह्याकाशे बालास्तलमलिनताद्यध्यस्यन्ति ।

हिर्यस्मादर्थे । नभो हि द्रव्यं सत् रूपस्पर्शविरहान्न बाह्येन्द्रियप्रत्यक्षम् । नापि मानसम् , मनसोऽसहायस्य बाह्येऽप्रवृत्तेः, तस्मादप्रत्यक्षम् । अथ च तत्र बाला अविवेकिनः परदर्शितदर्शिनः कदाचित्पार्थिवच्छायां श्यामतामारोप्य, कदाचित्तैजसं शुक्लत्वमारोप्य, नीलोत्पलपलाशश्याममिति वा राजहंसमालाधवलमिति वा निर्वर्णयन्ति । तत्रापि पूर्वदृष्टस्य तैजसस्य वा तामसस्य रूपस्य परत्र नभसि स्मृतिरूपोऽवभास इति । एवं तदेव तलमध्यस्यन्ति अवाङ्मुखीभूतम् महेन्द्रनीलमणिमयमहाकटाहकल्पमित्यर्थः ।

उपसंहरति -

एवम् -

उक्तेन प्रकारेण सर्वाक्षेपपरिहारात् ,

अविरुद्धः प्रत्यगात्मन्यप्यनात्मनाम् -

बुद्ध्यादीनामध्यासः ।