ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः प्रथमः पादः
भामतीव्याख्या
 
तमेतमेवंलक्षणमध्यासं पण्डिता अविद्येति मन्यन्तेतद्विवेकेन वस्तुस्वरूपावधारणं विद्यामाहुःत्रैवं सति, यत्र यदध्यासः, तत्कृतेन दोषेण गुणेन वा अणुमात्रेणापि सम्बध्यतेमेतमविद्याख्यमात्मानात्मनोरितरेतराध्यासं पुरस्कृत्य सर्वे प्रमाणप्रमेयव्यवहारा लौकिका वैदिकाश्च प्रवृत्ताः, सर्वाणि शास्त्राणि विधिप्रतिषेधमोक्षपराणिकथं पुनरविद्यावद्विषयाणि प्रत्यक्षादीनि प्रमाणानि शास्त्राणि चेति ? उच्यतेदेहेन्द्रियादिषु अहंममाभिमानरहितस्य प्रमातृत्वानुपपत्तौ प्रमाणप्रवृत्त्यनुपपत्तेः हीन्द्रियाण्यनुपादाय प्रत्यक्षादिव्यवहारः सम्भवति चाधिष्ठानमन्तरेण इन्द्रियाणां व्यवहारः सम्भवति चानध्यस्तात्मभावेन देहेन कश्चिद्व्याप्रियते चैतस्मिन् सर्वस्मिन्नसति असङ्गस्यात्मनः प्रमातृत्वमुपपद्यते प्रमातृत्वमन्तरेण प्रमाणप्रवृत्तिरस्तितस्मादविद्यावद्विषयाण्येव प्रत्यक्षादीनि प्रमाणानि शास्त्राणि चेतिपश्वादिभिश्चाविशेषात्यथा हि पश्वादयः शब्दादिभिः श्रोत्रादीनां सम्बन्धे सति शब्दादिविज्ञाने प्रतिकूले जाते ततो निवर्तन्ते, अनुकूले प्रवर्तन्ते; यथा ण्डोद्यतकरं पुरुषमभिमुखमुपलभ्यमां हन्तुमयमिच्छतिइति पलायितुमारभन्ते, हरिततृणपूर्णपाणिमुपलभ्य तं प्रति अभिमुखीभवन्ति; एवं पुरुषा अपि व्युत्पन्नचित्ताः क्रूरदृष्टीनाक्रोशतः खड्गोद्यतकरान्बलवत उपलभ्य ततो निवर्तन्ते, तद्विपरीतान्प्रति प्रवर्तन्तेअतः समानः पश्वादिभिः पुरुषाणां प्रमाणप्रमेयव्यवहारःपश्वादीनां प्रसिद्धः अविवेकपुरस्सरः प्रत्यक्षादिव्यवहारःतत्सामान्यदर्शनाद्व्युत्पत्तिमतामपि पुरुषाणां प्रत्यक्षादिव्यवहारस्तत्कालः समान इति निश्चीयतेशास्त्रीये तु व्यवहारे यद्यपि बुद्धिपूर्वकारी नाविदित्वा आत्मनः परलोकसम्बन्धमधिक्रियते, तथापि वेदान्तवेद्यमशनायाद्यतीतमपेतब्रह्मक्षत्रादिभेदमसंसार्यात्मतत्त्वमधिकारेऽपेक्ष्यते, अनुपयोगात् अधिकारविरोधाच्चप्राक् तथाभूतात्मविज्ञानात् प्रवर्तमानं शास्त्रमविद्यावद्विषयत्वं नातिवर्ततेतथा हि — ‘ब्राह्मणो यजेतइत्यादीनि शास्त्राण्यात्मनि वर्णाश्रमवयोऽवस्थादिविशेषाध्यासमाश्रित्य प्रवर्तन्तेअध्यासो नाम अतस्मिंस्तद्बुद्धिरित्यवोचामतद्यथापुत्रभार्यादिषु विकलेषु सकलेषु वा अहमेव विकलः सकलो वेति बाह्यधर्मानात्मन्यध्यस्यतितथा देहधर्मान्स्थूलोऽहं कृशोऽहं गौरोऽहं तिष्ठामि गच्छामि लङ्घयामि इतिथेन्द्रियधर्मान्मूकः काणः क्लीबो बधिरोऽन्धोऽहम्इति; तथान्तःकरणधर्मान् कामसङ्कल्पविचिकित्साध्यवसायादीन्एवहंप्रत्ययिनमशेषस्वप्रचारसाक्षिणि प्रत्यगात्मन्यध्यस्य तं प्रत्यगात्मानं सर्वसाक्षिणं तद्विपर्ययेणान्तःकरणादिष्वध्यस्यतिएवमयनादिरनन्तो नैसर्गिकोऽध्यासो मिथ्याप्रत्ययरूपः कर्तृत्वभोक्तृत्वप्रवर्तकः सर्वलोकप्रत्यक्षःस्यानर्थहेतोः प्रहाणाय त्मैकत्वविद्याप्रतिपत्तये सर्वे वेदान्ता आरभ्यन्तेयथा चायमर्थः सर्वेषां वेदान्तानाम् , तथा वयमस्यां शारीरकमीमांसायां प्रदर्शयिष्यामःवेदान्तमीमांसाशास्त्रस्य व्याचिख्यासितस्येदमादिमं सूत्रम्
तमेतमेवंलक्षणमध्यासं पण्डिता अविद्येति मन्यन्तेतद्विवेकेन वस्तुस्वरूपावधारणं विद्यामाहुःत्रैवं सति, यत्र यदध्यासः, तत्कृतेन दोषेण गुणेन वा अणुमात्रेणापि सम्बध्यतेमेतमविद्याख्यमात्मानात्मनोरितरेतराध्यासं पुरस्कृत्य सर्वे प्रमाणप्रमेयव्यवहारा लौकिका वैदिकाश्च प्रवृत्ताः, सर्वाणि शास्त्राणि विधिप्रतिषेधमोक्षपराणिकथं पुनरविद्यावद्विषयाणि प्रत्यक्षादीनि प्रमाणानि शास्त्राणि चेति ? उच्यतेदेहेन्द्रियादिषु अहंममाभिमानरहितस्य प्रमातृत्वानुपपत्तौ प्रमाणप्रवृत्त्यनुपपत्तेः हीन्द्रियाण्यनुपादाय प्रत्यक्षादिव्यवहारः सम्भवति चाधिष्ठानमन्तरेण इन्द्रियाणां व्यवहारः सम्भवति चानध्यस्तात्मभावेन देहेन कश्चिद्व्याप्रियते चैतस्मिन् सर्वस्मिन्नसति असङ्गस्यात्मनः प्रमातृत्वमुपपद्यते प्रमातृत्वमन्तरेण प्रमाणप्रवृत्तिरस्तितस्मादविद्यावद्विषयाण्येव प्रत्यक्षादीनि प्रमाणानि शास्त्राणि चेतिपश्वादिभिश्चाविशेषात्यथा हि पश्वादयः शब्दादिभिः श्रोत्रादीनां सम्बन्धे सति शब्दादिविज्ञाने प्रतिकूले जाते ततो निवर्तन्ते, अनुकूले प्रवर्तन्ते; यथा ण्डोद्यतकरं पुरुषमभिमुखमुपलभ्यमां हन्तुमयमिच्छतिइति पलायितुमारभन्ते, हरिततृणपूर्णपाणिमुपलभ्य तं प्रति अभिमुखीभवन्ति; एवं पुरुषा अपि व्युत्पन्नचित्ताः क्रूरदृष्टीनाक्रोशतः खड्गोद्यतकरान्बलवत उपलभ्य ततो निवर्तन्ते, तद्विपरीतान्प्रति प्रवर्तन्तेअतः समानः पश्वादिभिः पुरुषाणां प्रमाणप्रमेयव्यवहारःपश्वादीनां प्रसिद्धः अविवेकपुरस्सरः प्रत्यक्षादिव्यवहारःतत्सामान्यदर्शनाद्व्युत्पत्तिमतामपि पुरुषाणां प्रत्यक्षादिव्यवहारस्तत्कालः समान इति निश्चीयतेशास्त्रीये तु व्यवहारे यद्यपि बुद्धिपूर्वकारी नाविदित्वा आत्मनः परलोकसम्बन्धमधिक्रियते, तथापि वेदान्तवेद्यमशनायाद्यतीतमपेतब्रह्मक्षत्रादिभेदमसंसार्यात्मतत्त्वमधिकारेऽपेक्ष्यते, अनुपयोगात् अधिकारविरोधाच्चप्राक् तथाभूतात्मविज्ञानात् प्रवर्तमानं शास्त्रमविद्यावद्विषयत्वं नातिवर्ततेतथा हि — ‘ब्राह्मणो यजेतइत्यादीनि शास्त्राण्यात्मनि वर्णाश्रमवयोऽवस्थादिविशेषाध्यासमाश्रित्य प्रवर्तन्तेअध्यासो नाम अतस्मिंस्तद्बुद्धिरित्यवोचामतद्यथापुत्रभार्यादिषु विकलेषु सकलेषु वा अहमेव विकलः सकलो वेति बाह्यधर्मानात्मन्यध्यस्यतितथा देहधर्मान्स्थूलोऽहं कृशोऽहं गौरोऽहं तिष्ठामि गच्छामि लङ्घयामि इतिथेन्द्रियधर्मान्मूकः काणः क्लीबो बधिरोऽन्धोऽहम्इति; तथान्तःकरणधर्मान् कामसङ्कल्पविचिकित्साध्यवसायादीन्एवहंप्रत्ययिनमशेषस्वप्रचारसाक्षिणि प्रत्यगात्मन्यध्यस्य तं प्रत्यगात्मानं सर्वसाक्षिणं तद्विपर्ययेणान्तःकरणादिष्वध्यस्यतिएवमयनादिरनन्तो नैसर्गिकोऽध्यासो मिथ्याप्रत्ययरूपः कर्तृत्वभोक्तृत्वप्रवर्तकः सर्वलोकप्रत्यक्षःस्यानर्थहेतोः प्रहाणाय त्मैकत्वविद्याप्रतिपत्तये सर्वे वेदान्ता आरभ्यन्तेयथा चायमर्थः सर्वेषां वेदान्तानाम् , तथा वयमस्यां शारीरकमीमांसायां प्रदर्शयिष्यामःवेदान्तमीमांसाशास्त्रस्य व्याचिख्यासितस्येदमादिमं सूत्रम्
तमेतमेवंलक्षणमध्यासं पण्डिता अविद्येति मन्यन्ते ; पण्डिता मन्यन्ते ; तद्विवेकेन च वस्तुस्वरूपावधारणम् - ; विद्यामाहुः, ; तत्रैवं सति, - ; यत्र यदध्यासस्तत्कृतेन दोषेण गुणेन वाणुमात्रेणापि स न सम्बध्यते - ; तमेतमविद्याख्यमिति ; कथं पुनरविद्यावद्विषयाणि प्रत्यक्षादीनि प्रमाणानि ; शास्त्राणि चेति ; ; न हीन्द्रियाण्यनुपादाय प्रत्यक्षादिव्यवहारः सम्भवति ; न चाधिष्ठानमन्तरेणेन्द्रियाणां व्यापारः - ; सम्भवति ; न चानध्यस्तात्मभावेन देहेन कश्चिद्व्याप्रियते ; न चैतस्मिन्सर्वस्मिन् - ; असति, आत्मनोऽसङ्गस्य - ; प्रमातृत्वमुपपद्यते ; न च प्रमातृत्वमन्तरेण प्रमाणप्रवृत्तिरस्ति ; तस्मादविद्यावद्विषयाण्येव प्रत्यक्षादीनि प्रमाणानि ; पश्वादिभिश्चाविशेषादिति ; यथा हि पश्वादय इति ; शब्दादिभिः श्रोत्रादीनां सम्बन्धे सति ; शब्दादिविज्ञाने ; प्रतिकूले ; यथा दण्डेति ; शास्त्रीये त्विति ; प्राक्च तथाभूतात्मेति ; तथा हिति ; अध्यासो नाम अतस्मिंस्तद्बुद्धिरित्यवोचाम ; तद्यथा पुत्रभार्यादिष्विति ; तथा देहधर्मानिति ; एवमहंप्रत्ययिनम् - ; स्वप्रचारसाक्षिणि - ; प्रत्यगात्मन्यध्यस्य ; तं च प्रत्यगात्मानं सर्वसाक्षिणं तद्विपर्ययेण - ; अन्तःकरणादिष्वध्यस्यति ; एवमयमनादिरनन्तः - ; नैसर्गिक इति मिथ्याप्रत्ययरूपः - ; अस्यानर्थहेतोः प्रहाणाय ; आत्मैकत्वविद्याप्रतिपत्तये इति ; यथा चायमर्थः सर्वेषां वेदान्तानां तथा वयमस्यां शारीरकमीमांसायां प्रदर्शयिष्यामः ;

ननु सन्ति च सहस्रमध्यासाः, तत्किमर्थमयमेवाध्यास आक्षेपसमाधानाभ्यां व्युत्पादितः नाध्यासमात्रमित्यत आह -

तमेतमेवंलक्षणमध्यासं पण्डिता अविद्येति मन्यन्ते ।

अविद्या हि सर्वानर्थबीजमिति श्रुतिस्मृतीतिहासपुराणादिषु प्रसिद्धम् । तदुच्छेदाय वेदान्ताः प्रवृत्ता इति वक्ष्यति । प्रत्यगात्मन्यनात्माध्यास एव सर्वानर्थहेतुः न पुना रजतादिविभ्रमा इति स एवाविद्या, तत्स्वरूपं चाविज्ञातं न शक्यमुच्छेत्तुमिति तदेव व्युत्पाद्यं नाध्यासमात्रम् । अत्र च ‘एवं लक्षणम्’ इत्येवंरूपतयानर्थहेतुतोक्ता । यस्मात्प्रत्यगात्मन्यशनायादिरहितेऽशनायाद्युपेतान्तःकरणाद्यहितारोपणे प्रत्यगात्मानमदुःखं दुःखाकरोति, तस्मादनर्थहेतुः ।

न चैवं पृथग्जना अपि मन्यन्तेऽध्यासम् , येन न व्युत्पाद्येतेत्यत उक्तम् -

पण्डिता मन्यन्ते ।

नन्वियमनादिरतिनिरूढनिबिडवासनानुबद्धाविद्या न शक्या निरोद्धुम् , उपायाभावादिति यो मन्यते तं प्रति तन्निरोधोपायमाह -

तद्विवेकेन च वस्तुस्वरूपावधारणम् -

निर्विचिकित्सं ज्ञानम्

विद्यामाहुः,

पण्डिताः । प्रत्यगात्मनि खल्वत्यन्तविविक्ते बुद्ध्यादिभ्यः बुद्ध्यादिभेदाग्रहनिमित्तो बुद्ध्याद्यात्मत्वतद्धर्माध्यासः । तत्र श्रवणमननादिभिर्यद्विवेकविज्ञानं तेन विवेकाग्रहे निवर्तिते, अध्यासापबाधात्मकं वस्तुस्वरूपावधारणं विद्या चिदात्मरूपं स्वरूपे व्यवतिष्ठत इत्यर्थः ।

स्यादेतत् । अतिनिरूढनिबिढवासनानुविद्धाविद्या विद्ययापबाधितापि स्ववासनावशात्पुनरुद्भविष्यति प्रवर्तयिष्यति च वासनादि कार्यं स्वोचितमित्यत आह -

तत्रैवं सति, -

एवंभूतवस्तुतत्त्वावधारणे सति,

यत्र यदध्यासस्तत्कृतेन दोषेण गुणेन वाणुमात्रेणापि स न सम्बध्यते -

अन्तःकरणादिदोषेणाशनायादिना चिदात्मा, चिदात्मनो गुणेन चैतन्यानन्दादिनान्तःकरणादि न सम्बध्यते । एतदुक्तं भवति - तत्त्वावधारणाभ्यासस्य हि स्वभाव एव स तादृशः, यदनादिमपि निरूढनिबिडवासनमपि मिथ्याप्रत्ययमपनयति । तत्त्वपक्षपातो हि स्वभावो धियाम् , यथाहुर्बाह्या अपि - “निरुपद्रवभूतार्थस्वभावस्य विपर्ययैः । न बाधोयत्नवत्त्वेऽपि बुद्धेस्तत्पक्षपाततः ॥”(प्रमाणवार्तिकम्-२१२) इति । विशेषतस्तु चिदात्मस्वभावस्य तत्त्वज्ञानस्यात्यन्तान्तरङ्गस्य कुतोऽनिर्वाच्ययाविद्यया बाध इति । यदुक्तम् , सत्यानृते मिथुनीकृत्य, विवेकाग्रहादध्यस्याहमिदंममेदमिति लोकव्यवहार इति तत्र व्यपदेशलक्षणो व्यवहारः कण्ठोक्तः ।

इतिशब्दसूचितं लोकव्यवहारमादर्शयति -

तमेतमविद्याख्यमिति ।

निगदव्याख्यातम् ।

आक्षिपति -

कथं पुनरविद्यावद्विषयाणि प्रत्यक्षादीनि प्रमाणानि ।

तत्त्वपरिच्छेदो हि प्रमा विद्या, तत्साधनानि प्रमाणानि कथमविद्यावद्विषयाणि । नाविद्यावन्तं प्रमाणान्याश्रयन्ति, तत्कार्यस्य विद्याया अविद्याविरोधित्वादिति भावः ।

सन्तु वा प्रत्यक्षादीनि संवृत्यापि यथा तथा, शास्त्राणि तु पुरुषहितानुशासनपराण्यविद्याप्रतिपक्षतया नाविद्यावद्विषयाणि भवितुमर्हन्तीत्याह -

शास्त्राणि चेति ।

समाधत्ते - उच्यते - देहेन्द्रियादिष्वहंममाभिमानहीनस्य, तादात्म्यतद्धर्माध्यासहीनस्य प्रमातृत्वानुपपत्तौ सत्यां प्रमाणप्रवृत्त्यनुपपत्तेः । अयमर्थः - प्रमातृत्वं हि प्रमां प्रति कर्तृत्वं तच्च स्वातन्त्र्यम् । स्वातन्त्र्यं च प्रमातुरितरकारकाप्रयोज्यस्य समस्तकारकप्रयोक्तृत्वम् । तदनेन प्रमाकरणं प्रमाणं प्रयोजनीयम् । न च स्वव्यापारमन्तरेण करणं प्रयोक्तुमर्हति । न च कूटस्थनित्यश्चिदात्मापरिणामी स्वतो व्यापारवान् । तस्माद्व्यापारवद्बुद्ध्यादितादात्म्याध्यासात् , व्यापारवत्तया प्रमाणमधिष्ठातुमर्हतीति भवत्यविद्यावत्पुरुषविषयत्वमविद्यावत्पुरुषाश्रयत्वं प्रमाणानामिति ।

अथ मा प्रवर्तिषत प्रमाणानि किं नश्छिन्नमित्यत आह -

न हीन्द्रियाण्यनुपादाय प्रत्यक्षादिव्यवहारः सम्भवति ।

व्यवह्रियते अनेनेति व्यवहारः फलम् , प्रत्यक्षादीनां प्रमाणानां फलमित्यर्थः । ‘इन्द्रियाणि’ इति, इन्द्रियलिङ्गादीनीति द्रष्टव्यम् , दण्डिनो गच्छन्तीतिवत् । एवं हि ‘प्रत्यक्षादि’ इत्युपपद्यते । व्यवहारक्रियया च व्यवहार्याक्षेपात्समानकर्तृकता । अनुपादाय यो व्यवहार इति योजना ।

किमिति पुनः प्रमातोपादत्ते प्रमाणानि, अथ स्वयमेव कस्मान्न प्रवर्तत इत्यत आह -

न चाधिष्ठानमन्तरेणेन्द्रियाणां व्यापारः -

प्रमाणानां व्यापारः

सम्भवति ।

न जातु करणान्यनधिष्ठितानि कर्त्रा स्वकार्ये व्याप्रियन्ते, मा भूत्कुविन्दरहितेभ्यो वेमादिभ्यः पटोत्पत्तिरिति ।

अथ देह एवाधिष्ठाता कस्मान्न भवति, कृतमत्रात्माध्यासेनेत्यत आह -

न चानध्यस्तात्मभावेन देहेन कश्चिद्व्याप्रियते ।

सुषुप्तेऽपि व्यापारप्रसङ्गादि भावः ।

स्यादेतत् । यथानध्यस्तात्मभावं वेमादिकं कुविन्दो व्यापारयन्पटस्य कर्ता, एवमनध्यस्तात्मभावं देहेन्द्रियादिति व्यापारयन् भविष्यति तदभिज्ञः प्रमातेत्यत आह -

न चैतस्मिन्सर्वस्मिन् -

इतरेतराध्यासे इतरेतरधर्माध्यासे च,

असति, आत्मनोऽसङ्गस्य -

सर्वथा सर्वदा सर्वधर्मवियुक्तस्य

प्रमातृत्वमुपपद्यते ।

व्यापारवन्तो हिकुविन्दादयो वेमादीनधिष्ठाय व्यापारयन्ति, अनध्यस्तात्मभावस्य तु देहादिष्वात्मनो न व्यापारयोगोऽसङ्गत्वादित्यर्थः ।

आतश्चाध्यासाश्रयाणि प्रमाणानीत्याह -

न च प्रमातृत्वमन्तरेण प्रमाणप्रवृत्तिरस्ति ।

प्रमायां खलु फले स्वतन्त्रः प्रमाता भवति । अन्तःकरणपरिणामभेदश्च प्रमेयप्रवणः कर्तृस्थश्चित्स्वभावः प्रमा । कथं च जडस्यान्तःकरणस्य परिणामश्चिद्रूपो भवेत् , यदि चिदात्मा तत्र नाध्यस्येत । कथं चैष चिदात्मकर्तृको भवेत् , यद्यन्तःकरणं व्यापारवच्चिदात्मनि नाध्यस्येत् । तस्मादितरेतराध्यासाच्चिदात्मकर्तृस्थं प्रमाफलं सिध्यति । तत्सिद्धौ च प्रमातृत्वम् , तामेव च प्रमामुररीकृत्य प्रमाणस्य प्रवृत्तिः । प्रमातृत्वेन च प्रमोपलक्ष्यते । प्रमायाः फलस्याभावे प्रमाणं न प्रवर्तेत । तथा च प्रमाणमप्रमाणं स्यादित्यर्थः ।

उपसंहरति -

तस्मादविद्यावद्विषयाण्येव प्रत्यक्षादीनि प्रमाणानि ।

स्यादेतत् । भवतु पृथग्जनानामेवम् । आगमोपपत्तिप्रतिपन्नप्रत्यगात्मतत्त्वानां व्युत्पन्नानामपि पुंसां प्रमाणप्रमेयव्यवहारा दृश्यन्त इति कथमविद्यावद्विषयाण्येव प्रमाणानीत्यत आह -

पश्वादिभिश्चाविशेषादिति ।

विदन्तु नामागमोपपत्तिभ्यां देहेन्द्रियादिभ्यो भिन्नं प्रत्यगात्मानम् । प्रमाणप्रमेयव्यवहारे तु प्राणभृन्मात्रधर्मान्नातिवर्तन्ते । यादृशो हि पशुशकुन्तादीनामविप्रतिपन्नमुग्धभावानां व्यवहारस्तादृशो व्युत्पन्नानामपि पुंसां दृश्यते । तेन तत्सामान्यात्तेषामपि व्यवहारसमये अविद्यावत्त्वमनुमेयम् । चशब्दः समुच्चये । उक्तशङ्कानिवर्तनसहितपूर्वोक्तोपपत्तिः अविद्यावत्पुरुषविषयत्वं प्रमाणानां साधयतीत्यर्थः ।

एतदेव विभजते -

यथा हि पश्वादय इति ।

अत्र च

शब्दादिभिः श्रोत्रादीनां सम्बन्धे सति

इति प्रत्यक्षं प्रमाणं दर्शितम् ।

शब्दादिविज्ञाने

इति तत्फलमुक्तम् ।

प्रतिकूले

इति च अनुमानफलम् । तथा हि - शब्दादिस्वरूपमुपलभ्य तज्जातीयस्य प्रतिकूलतामनुस्मृत्य तज्जातीयतयोपलभ्यमानस्य प्रतिकूलतामनुमिमीत इति ।

उदाहरति -

यथा दण्डेति ।

शेषमतिरोहितार्थम् । स्यादेतत् । भवन्तु प्रत्यक्षादीन्यविद्यावद्विषयाणि । शास्त्रं तु ‘ज्योतिष्टोमेन स्वर्गकामो यजेत’ इत्यादि न देहात्माध्यासेन प्रवर्तितुमर्हति । अत्र खल्वामुष्मिकफलोपभोगयोग्योऽधिकारी प्रतीयते । तथा च पारमर्षं सूत्रम् - “शास्त्रफलं प्रयोक्तरि तल्लक्षणत्वात्तस्मात्स्वयं प्रयोगे स्यात्” (अ. ३ पा. ७ सू. १८) इति ।

न च देहादि भस्मीभूतं पारलौकिकाय फलाय कल्पत इति देहाद्यतिरिक्तं कञ्चिदात्मानमधिकारिणमाक्षिपति शास्त्रम् , तदवगमश्च विद्येति कथमविद्यावद्विषयं शास्त्रमित्याशङ्क्याह -

शास्त्रीये त्विति ।

तु शब्दः प्रत्यक्षादिव्यवहाराद्भिनत्ति शास्त्रीयम् । अधिकारशास्त्रं हि स्वर्गकामस्य पुंसः परलोकसम्बन्धं विना न निर्वहतीति तावन्मात्रमाक्षिपेत् , न त्वस्यासंसारित्वमपि, तस्याधिकारेऽनुपयोगात् । प्रत्युत औपनिषदस्य पुरुषस्याकर्तुरभोक्तुरधिकारविरोधात् । प्रयोक्ता हि कर्मणः कर्मजनितफलभोगभागी कर्मण्यधिकारी स्वामी भवति । तत्र कथमकर्ता प्रयोक्ता, कथं वाऽभोक्ता कर्मजनितफलभोगभागी । तस्मादनाद्यविद्यालब्धकर्तृत्वभोक्तृत्वब्राह्मणत्वाद्यभिमानिनं नरमधिकृत्य विधिनिषेधशास्त्रं प्रवर्तते । एवं वेदान्ता अप्यविद्यावत्पुरुषविषया एव । न हि प्रमात्रादिविभागादृते तदर्थाधिगमः । ते त्वविद्यावन्तमनुशासन्तो निर्मृष्टनिखिलाविद्यमनुशिष्टं स्वरूपे व्यवस्थापयन्तीत्येतावानेषां विशेषः । तस्मादविद्यावत्पुरुषविषयाण्येव शास्त्राणीति सिद्धम् ।

स्यादेतत् । यद्यपि विरोधानुपयोगाभ्यामौपनिषदः पुरुषोऽधिकारे नापेक्ष्यते, तथाप्युपनिषद्भ्योऽवगम्यमानः शक्नोत्यधिकारं निरोद्धुम् । तथा च परस्परापहतार्थत्वेन कृत्स्न एव वेदः प्रामाण्यमपजह्यादित्यत आह -

प्राक्च तथाभूतात्मेति ।

सत्यमौपनिषदपुरुषाधिगमोऽधिकारविरोधी, तस्मात्तु पुरस्तात्कर्मविधयः स्वोचितं व्यवहारं निर्वर्तयन्तो नानुपजातेन ब्रह्मज्ञानेन शक्या निरोद्धुम् । न च परस्परापहतिः, विद्याविद्यावत्पुरुषभेदेन व्यवस्थोपपत्तेः । यथा “न हिंस्यात्सर्वा भूतानि” इति साध्यांशनिषेधेऽपि ‘श्येनेनाभिचरन् यजेत’ इति शास्त्रं प्रवर्तमानं न हिंस्यादित्यनेन न विरुध्यते, तत्कस्य हेतोः, पुरुषभेदादिति ।

अवजितक्रोधारातयः पुरुषा निषेधेऽधिक्रियन्ते, क्रोधारातिवशीकृतास्तु श्येनादिशास्त्र इति अविद्यावत्पुरुषविषयत्वं नातिवर्तत इति यदुक्तं तदेव स्फोरयति -

तथा हिति ।

वर्णाध्यासः - ‘राजा राजसूयेन यजेत’ इत्यादिः । आश्रमाध्यासः - ‘गृहस्थः सदृशीं भार्यां विन्देत’ इत्यादिः । वयोऽध्यासः - ‘कृष्णकेशोऽग्नीनादधीत’ इत्यादिः । अवस्थाध्यासः - “अप्रतिसमाधेयव्याधीनां जलादिप्रवेशेन प्राणत्यागः” इति । आदिग्रहणं महापातकोपपातकसङ्करीकरणापात्रीकरणमलिनीकरणाद्यध्यासोपसङ्ग्रहार्थम् । तदेवमात्मानात्मनोः परस्पराध्यासमाक्षेपसमाधानाभ्यामुपपाद्य प्रमाणप्रमेयव्यवहारप्रवर्तनेन च दृढीकृत्य तस्यानर्थहेतुत्वमुदाहरणप्रपञ्चेन प्रतिपादयितुं तत्स्वरुपमुक्तं स्मारयति -

अध्यासो नाम अतस्मिंस्तद्बुद्धिरित्यवोचाम ।

'स्मृतिरूपः परत्र पूर्वदृष्टावभासः” इत्यस्य सङ्क्षेपाभिधानमेतत् । तत्र अहमिति धर्मितादात्म्याध्यासमात्रम् , ममेत्यनुत्पादितधर्माध्यासं नानर्थहेतुरिति धर्माध्यासमेव ममकारं साक्षादशेषानर्थसंसारकारणमुदाहरणप्रपञ्चेनाह -

तद्यथा पुत्रभार्यादिष्विति ।

देहतादात्म्यमात्मन्यध्यस्य देहधर्मं पुत्रकलत्रादिस्वाम्यं च कृशत्वादिवदारोप्य आह - अहमेव विकलः, सकलः इति । स्वस्य खलु साकल्येन स्वाम्यसाकल्यात्स्वामीश्वरः सकलः सम्पूर्णो भवति । तथा स्वस्य वैकल्येन स्वाम्यवैकल्यात् , स्वामीश्वरो विकलोऽसम्पूर्णो भवति । बाह्यधर्मा ये वैकल्यादयः स्वाम्यप्रणालिकया सञ्चरिताः शरीरे तानात्मन्यध्यस्यतीत्यर्थः ।

यदा च परोपाध्यपेक्षे देहधर्मे स्वाम्ये इयं गतिः, तदा कैव कथा अनौपाधिकेषु देहधर्मेषु कृशत्वादिष्वित्याशयवानाह -

तथा देहधर्मानिति ।

देहादेरप्यन्तरङ्गाणामिन्द्रियाणामध्यस्तात्मभावानां धर्मान्मूकत्वादीन् , ततोऽप्यन्तरङ्गस्यान्तःकरणस्य अध्यस्तात्मभावस्य धर्मान् कामसङ्कल्पादीन् आत्मन्यध्यस्यतीति योजना ।

तदनेन प्रपञ्चेन धर्माध्यासमुक्त्वा तस्य मूलं धर्म्यध्यासमाह -

एवमहंप्रत्ययिनम् -

अहंप्रत्ययो वृत्तिर्यस्मिन्नन्तःकरणादौ, सोऽयमहंप्रत्ययीतम् ।

स्वप्रचारसाक्षिणि -

अन्तःकरणप्रचारसाक्षिणि,

चैतन्योदासीनताभ्यां,

प्रत्यगात्मन्यध्यस्य ।

तदनेन कर्तृत्वभोक्तृत्वे उपपादिते ।

चैतन्यमुपपादयति -

तं च प्रत्यगात्मानं सर्वसाक्षिणं तद्विपर्ययेण -

अन्तःकरणादिविपर्ययेण, अन्तःकरणाद्यचेतनम् , तस्य विपर्ययः चैतन्यम् , तेन । इत्थम्भूतलक्षणे तृतीया ।

अन्तःकरणादिष्वध्यस्यति ।

तदनेनान्तःकरणाद्यवच्छिन्नः प्रत्यगात्मा इदमनिदंस्वरूपश्चेतनः कर्ता भोक्ता कार्यकारणाविद्याद्वयाधारोऽहङ्कारास्पदं संसारी सर्वानर्थसम्भारभाजनं जीवात्मा इतरेतराध्यासोपादानः, तदुपादानश्चाध्यास इत्यनादित्वाद् बीजाङ्कुरवन्नेतरेतराश्रयत्वमित्युक्तं भवति ।

प्रमाणप्रमेयव्यवहारदृढीकृतमपि शिष्यहिताय स्वरूपाभिधानपूर्वकं सर्वलोकप्रत्यक्षतयाध्यासं सुदृढीकरोति -

एवमयमनादिरनन्तः -

तत्त्वज्ञानमन्तरेणाशक्यसमुच्छेदः ।

अनाद्यनन्तत्वे हेतुरुक्तः -

नैसर्गिक इति । मिथ्याप्रत्ययरूपः -

मिथ्याप्रत्ययानां रूपमनिर्वचनीयत्वम् तद्यस्य स तथोक्तः । अनिर्वचनीय इत्यर्थः ।

प्रकृतमुपसंहरति -

अस्यानर्थहेतोः प्रहाणाय ।

विरोधिप्रत्ययं विना कुतोऽस्य प्रहाणमित्यत उक्तम् -

आत्मैकत्वविद्याप्रतिपत्तये इति ।

प्रतिपत्तिः प्राप्तिः तस्यै, न तु जपमात्राय, नापि कर्मसु प्रवृत्तये, आत्मैकत्वं विगलितनिखिलप्रपञ्चत्वमानन्दरूपस्य सतः, तत्प्रतिपत्तिं निर्विचिकित्सां भावयन्तो वेदान्ताः समूलघातमध्यासमुपघ्नन्ति । एतदुक्तं भवति - अस्मत्प्रत्ययस्यात्मविषयस्य समीचीनत्वे सति ब्रह्मणो ज्ञातत्वान्निष्प्रयोजनत्वाच्च न जिज्ञासा स्यात् । तदभावे च न ब्रह्मज्ञानाय वेदान्ताः पठ्येरन् । अपि त्वविवक्षितार्था जपमात्रे उपयुज्येरन् । न हि तदौपनिषदात्मप्रत्ययः प्रमाणतामश्नुते । न चासावप्रमाणमभ्यस्तोऽपि वास्तवं कर्तृत्वभोक्तृत्वाद्यात्मनोऽपनोदितुमर्हति । आरोपितं हि रूपं तत्त्वज्ञानेनापोद्यते, न तु वास्तवमतत्त्वज्ञानेन । न हि रज्ज्वा रज्जुत्वं सहस्रमपि सर्पधाराप्रत्यया अपवदितुं समुत्सहन्ते । मिथ्याज्ञानप्रसञ्जितं च स्वरूपं शक्यं तत्त्वज्ञानेनापवदितुम् । मिथ्याज्ञानसंस्कारश्च सुदृढोऽपि तत्त्वज्ञानसंस्कारेणादरनैरन्तर्यदीर्घकालातत्त्वज्ञानाभ्यासजन्मनेति ।

स्यादेतत् । प्राणाद्युपासना अपि वेदान्तेषु बहुलमुपलभ्यन्ते, तत्कथं सर्वेषां वेदान्तानामात्मैकत्वप्रतिपादनमर्थ इत्यत आह -

यथा चायमर्थः सर्वेषां वेदान्तानां तथा वयमस्यां शारीरकमीमांसायां प्रदर्शयिष्यामः ।

शरीरमेव शरीरकम् तत्र निवासी शारीरको जीवात्मा, तस्य त्वम्पदाभिधेयस्य तत्पदाभिधेयपरमात्मरूपतामीमांसा या सा तथोक्ता । एतावानत्रार्थसङ्क्षेपः - यद्यपि स्वाध्यायाध्ययनपरविधिना स्वाध्यायपदवाच्यस्य वेदराशेः फलवदर्थावबोधपरतामापादयता कर्मविधिनिषेधानामिव वेदान्तानामपि स्वाध्यायशब्दवाच्यानां फलवदर्थावबोधपरत्वमापादितम् , यद्यपि च “अविशिष्टस्तु वाक्यार्थः” इति न्यायात् मन्त्राणामिव वेदान्तानामर्थपरत्वमौत्सर्गिकम् , यद्यपि च वेदान्तेभ्यश्चैतन्यानन्दघनः कर्तृत्वभोक्तृत्वरहितो निष्प्रपञ्च एकः प्रत्यगात्मा अवगम्यते, तथापि कर्तृत्वभोक्तृत्वदुःखशोकमोहमयमात्मानमवगाहमानेनाहंप्रत्ययेन सन्देहबाधविरहिणा विरुध्यमाना वेदान्ताः स्वार्थात्प्रच्युता उपचरितार्था वा जपमात्रोपयोगिनो वेत्यविवक्षितस्वार्थाः । तथा च तदर्थविचारात्मिका चतुर्लक्षणी शारीरकमीमांसा नारब्धव्या । न च सर्वजनीनाहमनुभवसिद्ध आत्मा सन्दिग्धो वा सप्रयोजनो वा, येन जिज्ञास्यः सन् विचारं प्रयुञ्जीतेति पूर्वः पक्षः । सिद्धान्तस्तु भवेदेतदेवं यद्यहंप्रत्ययः प्रमाणम् । तस्य तूक्तेन प्रकारेण श्रुत्यादिबाधकत्वानुपपत्तेः, श्रुत्यादिभिश्च समस्ततीर्थकरैश्च प्रामाण्यानभ्युपगमादध्यासत्वम् । एवं च वेदान्ता नाविवक्षितार्थाः, नाप्युपचरितार्थाः, किं तूक्तलक्षणाः । प्रत्यगात्मैव तेषां मुख्योऽर्थः ।