ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः प्रथमः पादः
भामतीव्याख्या
 
अथातो ब्रह्मजिज्ञासा ॥ १ ॥
तत्र अथशब्दः आनन्तर्यार्थः परिगृह्यते; नाधिकारार्थः, ब्रह्मजिज्ञासाया अनधिकार्यत्वात्मङ्गलस्य वाक्यार्थे समन्वयाभावात्अर्थान्तरप्रयुक्त एव ह्यथशब्दः श्रुत्या मङ्गलप्रयोजनो भवतिपूर्वप्रकृतापेक्षायाश्च फलत आनन्तर्याव्यतिरेकात्सति आनन्तर्यार्थत्वे, यथा धर्मजिज्ञासा पूर्ववृत्तं वेदाध्ययनं नियमेनापेक्षते, एवं ब्रह्मजिज्ञासापि यत्पूर्ववृत्तं नियमेनापेक्षते तद्वक्तव्यम्स्वाध्यायानन्तर्यं तु समानम्नन्वि कर्मावबोधानन्तर्यं विशेषः; ; धर्मजिज्ञासायाः प्रागपि अधीतवेदान्तस्य ब्रह्मजिज्ञासोपपत्तेःयथा हृदयाद्यवदानानामानन्तर्यनियमः, क्रमस्य विवक्षितत्वात् , तथेह क्रमो विवक्षितःशेषशेषित्वे अधिकृताधिकारे वा प्रमाणाभावात्धर्मब्रह्मजिज्ञासयोः फलजिज्ञास्यभेदाच्चअभ्युदयफलं धर्मज्ञानम् , च्चानुष्ठानापेक्षम्; निःश्रेयसफलं तु ब्रह्मविज्ञानम् , चानुष्ठानान्तरापेक्षम्भव्यश्च धर्मो जिज्ञास्यो ज्ञानकालेऽस्ति, पुरुषव्यापारतन्त्रत्वात्इह तु भूतं ब्रह्म जिज्ञास्यं नित्यत्वान्न पुरुषव्यापारतन्त्रम्चोदनाप्रवृत्तिभेदाच्चया हि चोदना धर्मस्य लक्षणं सा स्वविषये नियुञ्जानैव पुरुषमवबोधयतिब्रह्मचोदना तु पुरुषमवबोधयत्येव केवलम्अवबोधस्य चोदनाजन्यत्वात् , पुरुषोऽवबोधे नियुज्यतेयथा अक्षार्थसन्निकर्षेणार्थावबोधे, तद्वत्तस्मात्किमपि वक्तव्यम् , यदनन्तरं ब्रह्मजिज्ञासोपदिश्यत इतिउच्यतेनित्यानित्यवस्तुविवेकः, इहामुत्रार्थफलभोगविरागः, शमदमादिसाधनसम्पत् , मुमुक्षुत्वं तेषु हि सत्सु, प्रागपि धर्मजिज्ञासाया ऊर्ध्वं , शक्यते ब्रह्म जिज्ञासितुं ज्ञातुं ; विपर्ययेतस्मात् अथशब्देन यथोक्तसाधनसम्पत्त्यानन्तर्यमुपदिश्यते
अथातो ब्रह्मजिज्ञासा ॥ १ ॥
तत्र अथशब्दः आनन्तर्यार्थः परिगृह्यते; नाधिकारार्थः, ब्रह्मजिज्ञासाया अनधिकार्यत्वात्मङ्गलस्य वाक्यार्थे समन्वयाभावात्अर्थान्तरप्रयुक्त एव ह्यथशब्दः श्रुत्या मङ्गलप्रयोजनो भवतिपूर्वप्रकृतापेक्षायाश्च फलत आनन्तर्याव्यतिरेकात्सति आनन्तर्यार्थत्वे, यथा धर्मजिज्ञासा पूर्ववृत्तं वेदाध्ययनं नियमेनापेक्षते, एवं ब्रह्मजिज्ञासापि यत्पूर्ववृत्तं नियमेनापेक्षते तद्वक्तव्यम्स्वाध्यायानन्तर्यं तु समानम्नन्वि कर्मावबोधानन्तर्यं विशेषः; ; धर्मजिज्ञासायाः प्रागपि अधीतवेदान्तस्य ब्रह्मजिज्ञासोपपत्तेःयथा हृदयाद्यवदानानामानन्तर्यनियमः, क्रमस्य विवक्षितत्वात् , तथेह क्रमो विवक्षितःशेषशेषित्वे अधिकृताधिकारे वा प्रमाणाभावात्धर्मब्रह्मजिज्ञासयोः फलजिज्ञास्यभेदाच्चअभ्युदयफलं धर्मज्ञानम् , च्चानुष्ठानापेक्षम्; निःश्रेयसफलं तु ब्रह्मविज्ञानम् , चानुष्ठानान्तरापेक्षम्भव्यश्च धर्मो जिज्ञास्यो ज्ञानकालेऽस्ति, पुरुषव्यापारतन्त्रत्वात्इह तु भूतं ब्रह्म जिज्ञास्यं नित्यत्वान्न पुरुषव्यापारतन्त्रम्चोदनाप्रवृत्तिभेदाच्चया हि चोदना धर्मस्य लक्षणं सा स्वविषये नियुञ्जानैव पुरुषमवबोधयतिब्रह्मचोदना तु पुरुषमवबोधयत्येव केवलम्अवबोधस्य चोदनाजन्यत्वात् , पुरुषोऽवबोधे नियुज्यतेयथा अक्षार्थसन्निकर्षेणार्थावबोधे, तद्वत्तस्मात्किमपि वक्तव्यम् , यदनन्तरं ब्रह्मजिज्ञासोपदिश्यत इतिउच्यतेनित्यानित्यवस्तुविवेकः, इहामुत्रार्थफलभोगविरागः, शमदमादिसाधनसम्पत् , मुमुक्षुत्वं तेषु हि सत्सु, प्रागपि धर्मजिज्ञासाया ऊर्ध्वं , शक्यते ब्रह्म जिज्ञासितुं ज्ञातुं ; विपर्ययेतस्मात् अथशब्देन यथोक्तसाधनसम्पत्त्यानन्तर्यमुपदिश्यते
अथातो ब्रह्मजिज्ञासेति ; वेदान्तमीमांसाशास्त्रस्य व्याचिख्यासितस्य ; इदमादिमं सूत्रम् ; तत्राथशब्द आनन्तर्यार्थः परिगृह्यते ; नाधिकारार्थः ; ब्रह्मजिज्ञासाया अनधिकार्यत्वात् ; मङ्गलस्य च वाक्यार्थे समन्वयाभावात् ; अर्थान्तरप्रयुक्त एव ह्यथशब्दः श्रुत्या मङ्गलप्रयोजनो भवति ; पूर्वप्रकृतापेक्षायाश्च फलत आनन्तर्याव्यतिरेकात् ; सति चानन्तर्यार्थत्व इति ; यत्पूर्ववृत्तं नियमेनापेक्षत इति ; स्वाध्यायानन्तर्यं तु समानं, ; नन्विह कर्मावबोधानन्तर्यं विशेषः, ; ; प्रागप्यधीतवेदान्तस्य ब्रह्मजिज्ञासोपपत्तेः ; प्रागप्यधीतवेदान्तस्य ब्रह्मजिज्ञासोपपत्तेरिति ; यथा च हृदयाद्यवदानानामानन्तर्यनियमः ; शेषशेषित्वे प्रमाणाभावात् ; अधिकृताधिकारे वा प्रमाणाभावात् ; फलजिज्ञास्यभेदाच्च ; अभ्युदयफलं धर्मज्ञानमिति ; तच्चानुष्ठानापेक्षम् ; ब्रह्मज्ञानं च नानुष्ठानान्तरापेक्षम् ; भव्यश्च धर्म इति ; चोदनाप्रवृत्तिभेदाच्च ; या हि चोदना धर्मस्येति ; न पुरुषोऽवबोधे नियुज्यते ; यथाक्षार्थेति ; तद्वदिति ; तस्मात्किमपि वक्तव्यमिति ; उच्यते - नित्यानित्यवस्तुविवेक इत्यादि ; इहामुत्रार्थभोगविरागः ; मुमुक्षुत्वं च ; तेषु हीति ; ज्ञातुं च ; तस्मादिति ;

जिज्ञासाधिकरणविषयाः

तस्य च वक्ष्यमाणेन क्रमेण सन्दिग्धत्वात् प्रयोजनवत्वाच्च युक्ता जिज्ञासा, इत्याशयवान्सूत्रकारः तज्जिज्ञासामसूत्रयत् -

अथातो ब्रह्मजिज्ञासेति ।

जिज्ञासया सन्देहप्रयोजने सूचयति । तत्र साक्षादिच्छाव्याप्यत्वाद्ब्रह्मज्ञानं कण्ठोक्तं प्रयोजनम् । न च कर्मज्ञानात्पराचीनमनुष्ठानमिव ब्रह्मज्ञानात्पराचीनं किञ्चिदस्ति, येनैतदवान्तरप्रयोजनं भवेत् । किन्तु ब्रह्ममीमांसाख्यतर्केतिकर्तव्यतानुज्ञातविषयैर्वेदान्तैराहितं निर्विचिकित्सं ब्रह्मज्ञानमेव समस्तदुःखोपशमरूपमानन्दैकरसं परमं नः प्रयोजनम् । तमर्थमधिकृत्य हि प्रेक्षावन्तः प्रवर्तन्तेतराम् । तच्च प्राप्तमप्यनाद्यविद्यावशादप्राप्तमिवेति प्रेप्सितं भवति । यथा स्वग्रीवागतमपि ग्रैवेयकं कुतश्चिद्भ्रमान्नास्तीति मन्यमानः परेण प्रतिपादितमप्राप्तमिव प्राप्नोति । जिज्ञासा तु संशयस्य कार्यमिति स्वकारणं संशयं सूचयति । संशयश्च मीमांसारम्भं प्रयोजयति ।

तथा च शास्त्रे प्रेक्षावत्प्रवृत्तिहेतुसंशयप्रयोजनसूचनात्, युक्तमस्य सूत्रस्य शास्त्रादित्वमित्याह भगवान्भाष्यकारः -

वेदान्तमीमांसाशास्त्रस्य व्याचिख्यासितस्य

अस्माभिः,

इदमादिमं सूत्रम् ।

पूजितविचारवचनो मीमांसाशब्दः । परमपुरुषार्थहेतुभूतसूक्ष्मतमार्थनिर्णयफलता विचारस्य पूजितता । तस्या मीमांसायाः शास्त्रम् , सा ह्यनेन शिष्यते शिष्येभ्यो यथावत्प्रतिपाद्यत इति । सूत्रं च बह्वर्थसूचनात् भवति । यथाहुः - “लघूनि सूचितार्थानि स्वल्पाक्षरपदानि च । सर्वतः सारभूतानि सूत्राण्याहुर्मनीषिणः” ॥ इति ।

तदेवं सूत्रतात्पर्यं व्याख्याय तस्य प्रथमपदमथेति व्याचष्टे -

तत्राथशब्द आनन्तर्यार्थः परिगृह्यते ।

तेषु सूत्रपदेषु मध्ये योऽयमथशब्दः स आनन्तर्यार्थ इति योजना ।

नन्वाधिकारार्थोऽप्यथशब्दो दृश्यते, यथा ‘अथैष ज्योतिः’ इति वेदे । यथा वा लोके ‘अथ शब्दानुशासनम्’ , ‘अथ योगानुशासनम्’ इति । तत्किमत्राधिकारार्थो न गृह्यत इत्यत आह -

नाधिकारार्थः ।

कुतः,

ब्रह्मजिज्ञासाया अनधिकार्यत्वात् ।

जिज्ञासा तावदिह सूत्रे ब्रह्मणश्च तत्प्रज्ज्ञानाच्च शब्दतः प्रधानं प्रतीयते । न च यथा ‘दण्डी प्रैषानन्वाह’ इत्यत्राप्रधानमपि दण्डशब्दार्थो विवक्ष्यते, एवमिहापि ब्रह्मतज्ज्ञाने इति युक्तम्; ब्रह्ममीमांसाशास्त्रप्रवृत्त्यङ्गसंशयप्रयोजनसूचनार्थत्वेन जिज्ञासाया एव विवक्षितत्वात् । तदविवक्षायां तदसूचनेन काकदन्तपरीक्षायामिव ब्रह्ममीमांसायां, न प्रेक्षावन्तः प्रवर्तेरन् । न हि तदानीं ब्रह्म वा तज्ज्ञानं वाभिधेयप्रयोजने भवितुमर्हतः, अनध्यस्ताहंप्रत्ययविरोधेन वेदान्तानामेवंविधेऽर्थे प्रामाण्यानुपपत्तेः । कर्मप्रवृत्त्युपयोगितयोपचरितार्थानां वा जपोपयोगिनां वा ‘हुं फड्’ इत्येवमादीनामिवाविवक्षितार्थानामपि स्वाध्यायाध्ययनविध्यधीनग्रहणत्वस्य सम्भवात् । तस्मात्सन्देहप्रयोजनसूचनी जिज्ञासा इह पदतो वाक्यतश्च प्रधानं विवक्षितव्या । न च तस्या अधिकार्यत्वम् , अप्रस्तूयमानत्वात् , येन तत्समभिव्याहृतोऽथशब्दोऽधिकारार्थः स्यात् । जिज्ञासाविशेषणं तु ब्रह्मतज्ज्ञानमधिकार्यं भवेत् । न च तदप्यथशब्देन सम्बध्यते, प्राधान्याभावात् । न च जिज्ञासा मीमांसा, येन योगानुशासनवदधिक्रियेत, नान्तत्वं निपात्य ‘माङ्माने’ इत्यस्माद्वा ‘मानपूजायाम्’ इत्यस्माद्वा धातोः ‘मान्बध’ इत्यादिनानिच्छार्थे सनि व्युत्पादितस्य मीमांसाशब्दस्य पूजितविचारवचनत्वात् । ज्ञानेच्छावाचकत्वात्तु जिज्ञासापदस्य, प्रवर्तिका हि मीमांसायां जिज्ञासा स्यात् । न च प्रवर्त्यप्रवर्तकयोरैक्यम् , एकत्वे तद्भावानुपपत्तेः । न च स्वार्थपरत्वस्योपपत्तौ सत्यामन्यार्थपरत्वकल्पना युक्ता, अतिप्रसङ्गात् । तस्मात्सुष्ठूक्तम् “जिज्ञासाया अनधिकार्यत्वात्” इति ।

अथ मङ्गलार्थोऽथशब्दः कस्मान्न भवति । तथा च मङ्गलहेतुत्वात्प्रत्यहं ब्रह्मजिज्ञासा कर्तव्येति सूत्रार्थः सम्पद्यत इत्यत आह -

मङ्गलस्य च वाक्यार्थे समन्वयाभावात् ।

पदार्थ एव हि वाक्यार्थे समन्वीयते, स च वाच्यो वा लक्ष्यो वा । न चेह मङ्गलमथशब्दस्य वाच्यं वा लक्ष्यं वा, किं तु मृदङ्गशङ्खध्वनिवदथशब्दश्रवणमात्रकार्यम् । न च कार्यज्ञाप्ययोर्वाक्यार्थे समन्वयः शब्दव्यवहारे दृष्ट इत्यर्थः ।

तत्किमिदानीं मङ्गलार्थोऽथशब्दः तेषु तेषु न प्रयोक्तव्यः । तथा च “ओङ्कारश्चाथशब्दश्च द्वावेतौ ब्रह्मणः पुरा । कण्ठं भित्त्वा विनिर्यातौ तस्मान्माङ्गलिकावुभौ” ॥ इति स्मृतिव्याकोप इत्यत आह -

अर्थान्तरप्रयुक्त एव ह्यथशब्दः श्रुत्या मङ्गलप्रयोजनो भवति ।

अर्थान्तरेष्वानन्तर्यादिषु प्रयुक्तोऽथशब्दः श्रुत्या श्रवणमात्रेण वेणुवीणाध्वनिवन्मङ्गलं कुर्वन् , मङ्गलप्रयोजनो भवति, अन्यार्थमानीयमानोदकुम्भदर्शनवत् । तेन न स्मृतिव्याकोपः । न चेहानन्तर्यार्थस्य सतो न श्रवणमात्रेण मङ्गलार्थतेत्यर्थः ।

स्यादेतत् । पूर्वप्रकृतापेक्षोऽथशब्दो भविष्यति विनैवानन्तर्यार्थत्वम् । तद्यथेममेवाथशब्दं प्रकृत्य विमृश्यते किमयमथशब्द आनन्तर्ये अथाधिकार इति । अत्र विमर्शवाक्येऽथशब्दः पूर्वप्रकृतमथशब्दमपेक्ष्य प्रथमपक्षोपन्यासपूर्वकं पक्षान्तरोपन्यासे । न चास्यानन्तर्यमर्थः, पूर्वप्रकृतस्य प्रथमपक्षोपन्यासेन व्यवायात् । न च प्रकृतानपेक्षा, तदनपेक्षस्य तद्विषयत्वाभावेनासमानविषयतया विकल्पानुपपत्तेः । न हि जातु भवति किं नित्य आत्मा, अथ अनित्या बुद्धिरिति । तस्मादानन्तर्यं विना पूर्वप्रकृतापेक्ष इहाथशब्दः कस्मान्न भवतीत्यत आह -

पूर्वप्रकृतापेक्षायाश्च फलत आनन्तर्याव्यतिरेकात् ।

अस्यार्थः - न वयमानन्तर्यार्थतां व्यसनितया रोचयामहे, किं तु ब्रह्मजिज्ञासाहेतुभूतपूर्वप्रकृतसिद्धये, सा च पूर्वप्रकृतार्थापेक्षत्वेऽप्यथशब्दस्य सिध्यतीति व्यर्थमानन्तर्यार्थत्वावधारणाग्रहोऽस्माकमिति । तदिदमुक्तम् ‘फलतः’ इति । परमार्थतस्तु कल्पान्तरोपन्यासे पूर्वप्रकृतापेक्षा । न चेह कल्पान्तरोपन्यास इति पारिशेष्यादानन्तर्यार्थ एवेति युक्तम् ।

भवत्वानन्तर्यार्थः, किमेवं सतीत्यत आह -

सति चानन्तर्यार्थत्व इति ।

न तावद्यस्य कस्यचिदत्रानन्तर्यमिति वक्तव्यम् , तस्याभिधानमन्तरेणापि प्राप्तत्वात् । अवश्यं हि पुरुषः किञ्चित्कृत्वा किञ्चित्करोति । न चानन्तर्यमात्रस्य दृष्टमदृष्टं वा प्रयोजनं पश्यामः । तस्मात्तस्यात्रानन्तर्यं वक्तव्यं यद्विना ब्रह्मजिज्ञासा न भवति, यस्मिन्सति तु भवन्ती भवत्येव ।

तदिदमुक्तम् -

यत्पूर्ववृत्तं नियमेनापेक्षत इति ।

स्यादेतत् । धर्मजिज्ञासाया इव ब्रह्मजिज्ञासाया अपि योग्यत्वात्स्वाध्यायाध्ययनानन्तर्यम् , धर्मवद्ब्रह्मणोऽप्याम्नायैकप्रमाणगम्यत्वात् । तस्य चागृहीतस्य स्वविषये विज्ञानाजननात् , ग्रहणस्य च स्वाध्यायोऽध्येतव्य इत्यध्ययनेनैव नियतत्वात् ।

तस्माद्वेदाध्ययनानन्तर्यमेव ब्रह्मजिज्ञासाया अप्यथशब्दार्थ इत्यत आह -

स्वाध्यायानन्तर्यं तु समानं,

धर्मब्रह्मजिज्ञासयोः । अत्र च स्वाध्यायेन विषयेण तद्विषयमध्ययनं लक्षयति । तथा च “अथातो धर्मजिज्ञासा”(जै.सू. १-१-१) इत्यनेनैव गतमिति नेदं सूत्रमारब्धव्यम् । धर्मशब्दस्य वेदार्थमात्रोपलक्षणतया धर्मवद्ब्रह्मणोऽपि वेदार्थत्वाविशेषेण वेदाध्ययनानन्तर्योपदेशसाम्यादित्यर्थः ।

चोदयति -

नन्विह कर्मावबोधानन्तर्यं विशेषः,

धर्मजिज्ञासातो ब्रह्मजिज्ञासायाः । अस्यार्थः - “विविदिषन्ति यज्ञेन” (बृ. उ. ४ । ४ । २२) इति तृतीयाश्रुत्या यज्ञादीनामङ्गत्वेन ब्रह्मज्ञाने विनियोगात् , ज्ञानस्यैव कर्मतयेच्छां प्रति प्राधान्यात् , प्रधानसम्बन्धाच्चाप्रधानानां पदार्थान्तराणाम् । तत्रापि च न वाक्यार्थज्ञानोत्पत्तावङ्गभावो यज्ञादीनाम् , वाक्यार्थज्ञानस्य वाक्यादेवोत्पत्तेः । न च वाक्यं सहकारितया कर्माण्यपेक्षत इति युक्तम् , अकृतकर्मणामपि विदितपदपदार्थसम्बन्धानां समधिगतशाब्दन्यायतत्त्वानां गुणप्रधानभूतपूर्वापरपदार्थाकाङ्क्षासंनिधियोग्यतानुसन्धानवतामप्रत्यूहं वाक्यार्थप्रत्ययोत्पत्तेः । अनुत्पत्तौ वा विधिनिषेधवाक्यार्थप्रत्ययाभावेन तदर्थानुष्ठानपरिवर्जनाभावप्रसङ्गः । तद्बोधतस्तु तदर्थानुष्ठानपरिवर्जने परस्पराश्रयः, तस्मिन् सति तदर्थानुष्ठानपरिवर्जनं ततश्च तद्बोध इति । न च वेदान्तवाक्यानामेव स्वार्थप्रत्यायने कर्मापेक्षा, न वाक्यान्तराणामिति साम्प्रतम् , विशेषहेतोरभावात् । ननु “तत्त्वमसि”(छा. उ. ६ । ८ । ७) इति वाक्यात्, त्वम्पदार्थस्य, कर्तृभोक्तृरूपस्य जीवात्मनो नित्यशुद्धबुद्धोदासीनस्वभावेन तत्पदार्थेन परमात्मनैक्यमशक्यं द्रागित्येव प्रतिपत्तुम् आपाततोऽशुद्धसत्त्वैर्योग्यताविरहविनिश्चयात् । यज्ञदानतपोऽनाशकतनूकृतान्तर्मलास्तु विशुद्धसत्त्वाः श्रद्दधानायोग्यतावगमपुरःसरं तादात्म्यमवगमिष्यन्तीति चेत् , तत्किमिदानीं प्रमाणकारणं योग्यतावधारणमप्रमाणात्कर्मणो वक्तुमध्यवसितोऽसि, प्रत्यक्षाद्यतिरिक्तं वा कर्मापि प्रमाणम् । वेदान्ताविरुद्धतन्मूलन्यायबलेन तु योग्यतावधारणे कृतं कर्मभिः । तस्मात् “तत्त्वमसि”(छा. उ. ६ । ८ । ७) इत्यादेः श्रुतमयेन ज्ञानेन जीवात्मनः परमात्मभावं गृहीत्वा, तन्मूलया चोपपत्त्या व्यवस्थाप्य, तदुपासनायां भावनापराभिधानायां दीर्घकालनैरन्तर्यवत्यां ब्रह्मसाक्षात्कारफलायां यज्ञादीनामुपयोगः । यथाहुः - “स तु दीर्धकालनैरन्तर्यसत्कारासेवितो दृढभूमिः”(यो.सू.१-१४) इति ब्रह्मचर्यतपःश्रद्धायज्ञादयश्च सत्काराः । अत एव श्रुतिः - “तमेव धीरो विज्ञाय प्रज्ञां कुर्वीत ब्राह्मणः”(बृ. उ. ४ । ४ । २१) । इति । विज्ञाय तर्कोपकरणेन शब्देन प्रज्ञां भावनां कुर्वीतेत्यर्थः । अत्र च यज्ञादीनां श्रेयःपरिपन्थिकल्मषनिबर्हणद्वारेणोपयोग इति केचित् । पुरुषसंस्कारद्वारेणेत्यन्ये । यज्ञादिसंस्कृतो हि पुरुषः आदरनैरन्तर्यदीर्घकालैरासेवमानो ब्रह्मभावनामनाद्यविद्यावासनां समूलकाषं कषति, ततोऽस्य प्रत्यगात्मा सुप्रसन्नः केवलो विशदीभवति । अत एव स्मृतिः - “महायज्ञैश्च यज्ञैश्च ब्राह्मीयं क्रियते तनुः” । (मनु. २ । २८) “यस्यैतेऽष्टाचत्वारिंशत्संस्काराः”(दत्तपुराण) इति च । अपरे तु ऋणत्रयापाकरणे ब्रह्मज्ञानोपयोगं कर्मणामाहुः । अस्ति हि स्मृतिः - “ऋणानि त्रीण्यपाकृत्य मनो मोक्षे निवेशयेत्” (मनु. ६। ३५) इति । अन्ये तु “तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन”(बृ. उ. ४ । ४ । २२) इत्यादिश्रुतिभ्यस्तत्तत्फलाय चोदितानामपि कर्मणां संयोगपृथक्त्वेन ब्रह्मभावनां प्रत्यङ्गभावमाचक्षते, क्रत्वर्थस्येव खादिरत्वस्य वीर्यार्थताम् , ‘एकस्य तूभयार्थत्वे संयोगपृथक्त्वम्’ इति न्यायात् । अत्र च पारमर्षं सूत्रम् - “सर्वापेक्षा च यज्ञादिश्रुतेरश्ववत्” (ब्र . अ. ३. पा. ४ सू. २६) इति । यज्ञतपोदानादि सर्वम् , तदपेक्षा ब्रह्मभावनेत्यर्थः । तस्माद्यदि श्रुत्यादयः प्रमाणं यदि वा पारमर्षं सूत्रं सर्वथा यज्ञादिकर्मसमुच्चिता ब्रह्मोपासना विशेषणत्रयवती अनाद्यविद्यातद्वासनासमुच्छेदक्रमेण ब्रह्मसाक्षात्काराय मोक्षापरनाम्ने कल्पत इति तदर्थं कर्माण्यनुष्ठेयानि । न चैतानि दृष्टादृष्टसामवायिकारादुपकारहेतुभूतौपदेशिकातिदेशिकक्रमपर्यन्ताङ्गग्रामसहितपरस्परविभिन्नकर्मस्वरूपतदधिकारिभेदपरिज्ञानं विना शक्यान्यनुष्ठातुम् । न च धर्ममीमांसापरिशीलनं विना तत्परिज्ञानम् । तस्मात्साधूक्तम् ‘कर्मावबोधानन्तर्यं विशेषः’ इति कर्मावबोधेन हि कर्मानुष्ठानसाहित्यं भवति ब्रह्मोपासनाया इत्यर्थः ।

तदेतन्निराकरोति -

न ।

कुतः, कर्मावबोधात्

प्रागप्यधीतवेदान्तस्य ब्रह्मजिज्ञासोपपत्तेः ।

इदमत्राकूतम् - ब्रह्मोपासनया भावनापराभिधानया कर्माण्यपेक्ष्यन्त इत्युक्तम् , तत्र ब्रूमः - क्व पुनरस्याः कर्मापेक्षा, किं कार्ये, यथाग्नेयादीनां परमापूर्वे चिरभाविफलानुकूले जनयितव्ये समिदाद्यपेक्षा । स्वरूपे वा, यथा तेषामेव द्विरवत्तपुरोडाशादिद्रव्याग्निदेवताद्यपेक्षा । न तावत्कार्ये, तस्य विकल्पासहत्वात् । तथा हि - ब्रह्मोपासनाया ब्रह्मस्वरूपसाक्षात्कारः कार्यमभ्युपेयः, स चोत्पाद्यो वा स्यात् , यथा संयवनस्य पिण्डः । विकार्यो वा, यथावघातस्य व्रीहयः । संस्कार्यो वा, यथा प्रोक्षणस्योलूखलादयः । प्राप्यो वा, यथा दोहनस्य पयः । न तावदुत्पाद्यः । न खलु घटादिसाक्षात्कार इव जडस्वभावेभ्यो घटादिभ्यो भिन्न इन्द्रियाद्याधेयो ब्रह्मसाक्षात्कारो भावनाधेयः सम्भवति, ब्रह्मणोऽपराधीनप्रकाशतया तत्साक्षात्कारस्य तत्स्वाभाव्येन नित्यतयोत्पाद्यत्वानुपपत्तेः, ततो भिन्नस्य वा भावनाधेयस्य साक्षात्कारस्य प्रतिभाप्रत्ययवत्संशयाक्रान्ततया प्रामाण्यायोगात् , तद्विधस्य तत्सामग्रीकस्यैव बहुलं व्यभिचारोपलब्धेः । न खल्वनुमानविबुद्धं वह्निं भावयतः शीतातुरस्य शिशिरभरमन्थरतरकायकाण्डस्य स्फुरज्ज्वालाजटिलानलसाक्षात्कारः प्रमाणान्तरेण संवाद्यते, विसंवादस्य बहुलमुपलम्भात् , तस्मात्प्रामाणिकसाक्षात्कारलक्षणकार्याभावान्नोपासनाया उत्पाद्ये कर्मापेक्षा । न च कूटस्थनित्यस्य सर्वव्यापिनो ब्रह्मण उपासनातो विकारसंस्कारप्राप्तयः सम्भवन्ति । स्यादेतत् । मा भूद्ब्रह्मसाक्षात्कार उत्पाद्यादिरूप उपासनायाः, संस्कार्यस्तु अनिर्वचनीया नाद्यविद्याद्वयपिधानापनयनेन भविष्यति, प्रतिसीरापिहिता नर्तकीव प्रतिसीरापनयद्वारा रङ्गव्यापृतेन । तत्र च कर्मणामुपयोगः । एतावांस्तु विशेषः - प्रतिसीरापनये पारिषदानां नर्तकीविषयः साक्षात्कारो भवति । इह तु अविद्यापिधानापनयमात्रमेव नापरमुत्पाद्यमस्ति, ब्रह्मसाक्षात्कारस्य ब्रह्मस्वभावस्य नित्यत्वेन अनुत्पाद्यत्वात् । अत्रोच्यते - का पुनरियं ब्रह्मोपासना । किं शाब्दज्ञानमात्रसन्ततिः, आहो निर्विचिकित्सशाब्दज्ञानसन्ततिः । यदि शाब्दज्ञानमात्रसन्ततिः, किमियमभ्यस्यमानाप्यविद्यां समुच्छेत्तुमर्हति । तत्त्वविनिश्चयस्तदभ्यासो वा सवासनं विपर्यासमुन्मूलयेत् , न संशयाभ्यासः, सामान्यमात्रदर्शनाभ्यासो वा । न हि स्थाणुर्वा पुरुषो वेति वा, आरोहपरिणाहवत् द्रव्यमिति वा शतशोऽपि ज्ञानमभ्यस्यमानं पुरुष एवेति निश्चयाय पर्याप्तम् , ऋते विशेषदर्शनात् । ननूक्तं श्रुतमयेन ज्ञानेन जीवात्मनः परमात्मभावं गृहीत्वा युक्तिमयेन च व्यवस्थाप्यत इति । तस्मान्निर्विचिकत्सशाब्दज्ञानसन्ततिरूपोपासना कर्मसहकारिण्यविद्याद्वयोच्छेदहेतुः । न चासावनुत्पादितब्रह्मानुभवा तदुच्छेदाय पर्याप्ता । साक्षात्काररूपो हि विपर्यासः साक्षात्काररूपेणैव तत्त्वज्ञानेनोच्छिद्यते, न तु परोक्षावभासेन, दिङ्मोहालातचक्रचलद्वृक्षमरुमरीचिसलिलादिविभ्रमेष्वपरोक्षावभासिषु अपरोक्षावभासिभिरेव दिगादितत्त्वप्रत्ययैर्निवृत्तिदर्शनात् । नो खल्वाप्तवचनलिङ्गादिनिश्चितदिगादितत्त्वानां दिङ्मोहादयो निवर्तन्ते । तस्मात्त्वम्पदार्थस्य तत्पदार्थत्वेन साक्षात्कार एषितव्यः । एतावता हि त्वम्पदार्थस्य दुःखिशोकित्वादिसाक्षात्कारनिवृत्तिः, नान्यथा । न चैष साक्षात्कारो मीमांसासहितस्यापि शब्दप्रमाणस्य फलम् , अपि तु प्रत्यक्षस्य, तस्यैव तत्फलत्वनियमात् । अन्यथा कुटजबीजादपि वटाङ्कुरोत्पत्तिप्रसङ्गात् । तस्मान्निर्विचिकित्सावाक्यार्थभावनापरिपाकसहितमन्तःकरणं त्वम्पदार्थस्यापरोक्षस्य तत्तदुपाध्याकारनिषेधेन तत्पदार्थतामनुभावयतीति युक्तम् । न चायमनुभवो ब्रह्मस्वभावो येन न जन्येत, अपि तु अन्तःकरणस्यैव वृत्तिभेदो ब्रह्मविषयः । न चैतावता ब्रह्मणो नापराधीनप्रकाशता । न हि शाब्दज्ञानप्रकाश्यं ब्रह्म स्वयं प्रकाशं न भवति । सर्वोपाधिरहितं हि स्वयञ्ज्योतिरिति गीयते, न तूपहितमपि । यथाह स्म भगवान् भाष्यकारः - “नायमेकान्तेनाविषयः” इति । न चान्तःकरणवृत्तावप्यस्य साक्षात्कारे सर्वोपाधिविनिर्मोकः, तस्यैव तदुपाधेर्विनश्यदवस्थस्य स्वपररूपोपाधिविरोधिनो विद्यमानत्वात् । अन्यथा चैतन्यच्छायापत्तिं विनान्तःकरणवृत्तेः स्वयमचेतनायाः स्वप्रकाशत्वानुपपत्तौ साक्षात्कारत्वायोगात् । न चानुमितभावितवह्निसाक्षात्कारवत् प्रतिभात्वेनास्याप्रामाण्यम् , तत्र वह्निस्वलक्षणस्य परोक्षत्वात् । इह तु ब्रह्मस्वरूपस्योपाधिकलुषितस्य जीवस्य प्रागप्यपरोक्षतेति । नहि शुद्धबुद्धत्वादयो वस्तुतस्ततोऽतिरिच्यन्ते । जीव एव तु तत्तदुपाधिरहितः शुद्धबुद्धत्वादिस्वभावो ब्रह्मेति गीयते । न च तत्तदुपाधिविरहोऽपि ततोऽतिरिच्यते । तस्मात्यथा गान्धर्वशास्त्रार्थज्ञानाभ्यासाहितसंस्कारसचिवश्रोत्रेन्द्रियेण षड्जादिस्वरग्राममूर्छनाभेदमध्यक्षमनुभवति, एवं वेदान्तार्थज्ञानाभ्यासाहितसंस्कारो जीवः स्वस्य ब्रह्मभावमन्तःकरणेनेति । अन्तःकरणवृत्तौ ब्रह्मसाक्षात्कारे जनयितव्ये अस्ति तदुपासनायाः कर्मापेक्षेति चेत् न, तस्याः कर्मानुष्ठानसहभावाभावेन तत्सहकारित्वानुपपत्तेः । न खलु “तत्त्वमसि”(छा. उ. ६ । ८ । ७) इत्यादेर्वाक्यान्निर्विचिकित्सं शुद्धबुद्धोदासीनस्वभावमकर्तृत्वाद्युपेतमपेतब्राह्मणत्वादिजातिं देहाद्यतिरिक्तमेकमात्मानं प्रतिपद्यमानः कर्मस्वधिकारमवबोद्धुमर्हति । अनर्हश्च कथं कर्ता वाधिकृतो वा । यद्युच्येत निश्चितेऽपि तत्त्वे विपर्यासनिबन्धनो व्यवहारोऽनुवर्तमानो दृश्यते, यथा गुडस्य माधुर्यविनिश्चये अपि पित्तोपहतेन्द्रियाणां तिक्ततावभासानुवृत्तिः, आस्वाद्य थूत्कृत्य त्यागात् । तस्मादविद्यासंस्कारानुवृत्त्या कर्मानुष्ठानम् , तेन च विद्यासहकारिणा तत्समुच्छेद उपपत्स्यते । न च कर्माविद्यात्मकं कथमविद्यामुच्छिनत्ति, कर्मणो वा तदुच्छेदकस्य कुत उच्छेदः इति वाच्यम् , सजातीयस्वपरविरोधिनां भावानां बहुलमुपलब्धेः । यथा पयः पयोऽन्तरं जरयति, स्वयं च जीर्यति, यथा विषं विषान्तरं शमयति, स्वयं च शाम्यति, यथा वा कतकरजो रजोऽन्तराविले पाथसि प्रक्षिप्तं रजोऽन्तराणि भिन्दत्स्वयमपि भिद्यमानमनाविलं पाथः करोति । एवं कर्माविद्यात्मकमपि अविद्यान्तराण्यपगमयत्स्वयमप्यपगच्छतीति । अत्रोच्यते - सत्यम् , “सदेव सोम्येदमग्र आसीत्” (छा. उ. ६ । २ । १) इत्युपक्रमात् “तत्त्वमसि”(छा. उ. ६ । ८ । ७) इत्यन्ताच्छब्दात् ब्रह्ममीमांसोपकरणादसकृदभ्यस्तात् , निर्विचिकित्सेऽनाद्यविद्योपादानदेहाद्यतिरिक्तप्रत्यगात्मतत्त्वावबोधे जातेऽपि अविद्यासंस्कारानुवृत्तानुवर्तन्ते सांसारिकाः प्रत्ययास्तद्व्यवहाराश्च, तथाविधानाप्ययं व्यवहारप्रत्ययान्मिथ्येति मन्यमानो विद्वान्न श्रद्धत्ते, पित्तोपहतेन्द्रिय इव गुडं थूत्कृत्य त्यजन्नपि तस्य तिक्तताम् । तथा चायं क्रियाकर्तृकरणेतिकर्तव्यताफलाप्रपञ्चमतात्त्विकं विनिश्चिन्वन् कथमधिकृतो नाम, विदुषो ह्यधिकारः, अन्यथा पशुशूद्रादीनामप्यधिकारो दुर्वारः स्यात् । क्रियाकर्त्रादिस्वरूपविभागं च विद्वस्यमान इह विद्वानभिमतः कर्मकाण्डे । अत एव भगवान् विद्वद्विषयत्वं शास्त्रस्य वर्णयाम्बभूव भाष्यकारः । तस्माद्यथा राजजातीयाभिमानकर्तृके राजसूये न विप्रवैश्यजातीयाभिमानिनोरधिकारः । एवं द्विजातिकर्तृक्रियाकरणादिविभागाभिमानिकर्तृके कर्मणि न तदनभिमानिनोऽधिकारः । न चानधिकृतेन समर्थेनापि कृतं वैदिकं कर्म फलाय कल्पते, वैश्यस्तोम इव ब्राह्मणराजन्याभ्याम् । तेन दृष्टार्थेषु कर्मसु शक्तः प्रवर्तमानः प्राप्नोतु फलम् , दृष्टत्वात् । अदृष्टार्थेषु तु शास्त्रैकसमधिगम्यं फलमनधिकारिणि न युज्यत इति नोपासनायाः कार्ये कर्मापेक्षा । स्यादेतत् । मनुष्याभिमानवदधिकारिके कर्मणि विहिते यथा तदभिमानरहितस्यानधिकारः, एवं निषेधविधयोऽपि मनुष्याधिकारा इति तदभिमानरहितस्तेष्वपि नाधिक्रियेत, पश्वादिवत् । तथा चायं निषिद्धमनुतिष्ठन्न प्रत्यवेयात् , तिर्यगादिवदिति भिन्नकर्मतापातः । मैवम् । न खल्वयं सर्वथा मनुष्याभिमानरहितः, किं त्वविद्यासंस्कारानुवृत्त्यास्य मात्रया तदभिमानोऽनुवर्तते । अनुवर्तमानं च मिथ्येति मन्यमानो न श्रद्धत्त इत्युक्तम् । किमतो यद्येवम् , एतदतो भवतिविधिषु श्राद्धोऽधिकारी नाश्राद्धः । ततश्च मनुष्याद्यभिमानं नश्रद्धधानो न विधिशास्त्रेष्वधिक्रियते । तथा च स्मृतिः - “अश्रद्धया हुतं दत्तम्”(भ.गी.१७-२८) इत्यादिका । निषेधशास्त्रं तु न श्रद्धामपेक्षते । अपि तु निषिध्यमानक्रियोन्मुखो नर इत्येव प्रवर्तते । तथा च सांसारिक इव शब्दावगतब्रह्मतत्त्वोऽपि निषेधमतिक्रम्य प्रवर्तमानः प्रत्यवैतीति न भिन्नकर्मदर्शनाभ्युपगमः । तस्मान्नोपासनायाः कार्ये कर्मापेक्षा । अत एव नोपासनोत्पत्तावपि, निर्विचिकित्सशाब्दज्ञानोत्पत्त्युत्तरकालमनधिकारः कर्मणीत्युक्तम् । तथा च श्रुतिः - “नकर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वमानशुः ।”(कैवल्योपनिषत्) तत्किमिदानीमनुपयोग एव सर्वथेह कर्मणाम् , तथा च “विविदिषन्ति यज्ञेन”(बृ. उ. ४ । ४ । २२) इत्याद्याः श्रुतयो विरुध्येरन् । न विरुध्यन्ते । आरादुपकारकत्वात्कर्मणां यज्ञादीनाम् । तथा हि - तमेतमात्मानं वेदानुवचनेन-नित्यस्वाध्यायेन, ब्राह्मणा विविदिषन्ति-वेदितुमिच्छन्ति, न तु विदन्ति । वस्तुतः प्रधानस्यापि वेदनस्य प्रकृत्यर्थतया शब्दतो गुणत्वात् , इच्छायाश्च प्रत्ययार्थतया प्राधान्यात् , प्रधानेन च कार्यसंप्रत्ययात् । नहि राजपुरुषमानयेत्युक्ते वस्तुतः प्रधानमपि राजा पुरुषविशेषणतया शब्दत उपसर्जन आनीयतेऽपि तु पुरुष एव, शब्दतस्तस्य प्राधान्यात् । एवं वेदानुवचनस्येव यज्ञस्यापीच्छासाधनतया विधानम् । एवं तपसोऽनाशकस्य । कामानशनमेव तपः, हितमितमेध्याशिनो हि ब्रह्मणि विविदिषा भवति, न तु सर्वथानश्नतो मरणात् । नापि चान्द्रायणादि तपःशीलस्य, धातुवैषम्यापत्तेः । एतानि च नित्यान्युपात्तदुरितनिबर्हणेन पुरुषं संस्कुर्वन्ति । तथा च श्रुतिः - “स ह वा आत्मयाजी यो वेद इदं मेऽनेनाङ्गं संस्क्रियत इदं मेऽनेनाङ्गमुपधीयते” (शत. ब्रा. ११ । २ । ६ । १३) इति । अनेनेति हि प्रकृतं यज्ञादि परामृशति । स्मृतिश्च - “यस्यैतेऽष्टाचत्वारिंशत्संस्काराः”(दत्तपुराण) इति । नित्यनैमित्तिकानुष्ठानप्रक्षीणकल्मषस्य च विशुद्धसत्त्वस्याविदुष एव उत्पन्नविविदिषस्य ज्ञानोत्त्पत्तिं दर्शयत्याथर्वणी श्रुतिः - “विशुद्धसत्त्वस्ततस्तु तं पश्यति निष्कलं ध्यायमानः”(मु. उ. ३ । १ । ८) इति । स्मृतिश्च - “ज्ञानमुत्पद्यते पुंसां क्षयात्पापस्य कर्मणः”(म. भा. शां. २०४ । ८) इत्यादिका । कॢप्तेनैव च नित्यानां कर्मणां नित्येहितेनोपात्तदुरितनिबर्हणद्वारेण पुरुषसंस्कारेण ज्ञानोत्पत्तावङ्गभावोपपत्तौ न संयोग पृथक्त्वेन साक्षादङ्गभावो युक्तः, कल्पनागौरवापत्तेः । तथा हि - नित्यकर्मणामनुष्ठानाद्धर्मोत्पादः, ततः पाप्मा निवर्तते, स हि अनित्याशुचिदुःखरूपे संसारे नित्यशुचिसुखख्यातिलक्षणेन विपर्यासेन चित्तसत्त्वं मलिनयति, ततः पापनिवृत्तौ प्रत्यक्षोपपत्तिप्रवृत्तिद्वारापावरणे सति प्रत्यक्षोपपत्तिभ्यां संसारस्य अनित्याशुचिदुःखरूपतामप्रत्यूहमवबुध्यते, ततोऽस्य अस्मिन्ननभिरतिसंज्ञं वैराग्यमुपजायते, ततस्तज्जिहासोपावर्तते, ततो हानोपायं पर्येषते, पर्येषमाणश्चात्मतत्त्वज्ञानमस्योपाय इत्युपश्रुत्य तज्जिज्ञासते, ततः श्रवणादिक्रमेण तज्ज्ञानातीत्यारादुपकारकत्वं तत्त्वज्ञानोत्पादं प्रति चित्तसत्त्वशुद्ध्या कर्मणां युक्तम् । इममेवार्थमनुवदति भगवद्गीता - “आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते । योगारूढस्य तस्यैव शमः कारणमुच्यते”(भ. गी. ६ । ३) ॥ एवं चाननुष्ठितकर्मापि प्राग्भवीयकर्मवशाद्यो विशुद्धसत्त्वः संसारासारतादर्शनेन निष्पन्नवैराग्यः, कृतं तस्य कर्मानुष्ठानेन वैराग्योत्पादोपयोगिना, प्राग्भवीयकर्मानुष्ठानादेव तत्सिद्धेः, इममेव च पुरुषधौरेयभेदमधिकृत्य प्रववृते श्रुतिः - “यदि वेतरथा ब्रह्मचर्यादेव प्रव्रजेत्”(जा. उ. ४) इति ।

तदिदमुक्तम् - कर्मावबोधात् -

प्रागप्यधीतवेदान्तस्य ब्रह्मजिज्ञासोपपत्तेरिति ।

अत एव न ब्रह्मचारिण ऋणानि सन्ति, येन तदपाकरणार्थं कर्मानुतिष्ठेत् । एतदनुरोधाच्च “जायमानो वै ब्राह्मणस्त्रिभिरृणवा जायते” इति गृहस्थः सम्पद्यमान इति व्याख्येयम् । अन्यथा “यदि वेतरथा ब्रह्मचर्यादेव ”(जा. उ. ४) इति श्रुतिर्विरुध्येत । गृहस्थस्यापि च ऋणापाकरणं सत्त्वशुद्ध्यर्थमेव । जरामर्यवादो भस्मान्ततावादोऽन्त्येष्टयश्च कर्मजडानविदुषः प्रति, न त्वात्मतत्त्वपण्डितान् । तस्मात्तस्यानन्तर्यमथशब्दार्थः, यद्विना ब्रह्मजिज्ञासा न भवति यस्मिंस्तु सति भवन्ती भवत्येव । न चेत्थं कर्मावबोधः तस्मान्न कर्मावबोधानन्तर्यमथशब्दार्थ इति सर्वमवदातम् ।

स्यादेतत् । मा भूदग्निहोत्रयवागूपाकवदार्थः क्रमः, श्रौतस्तु भविष्यति, “गृही भूत्वा वनी भवेत्वनी भूत्वा प्रव्रजेत्”(जा. उ. ४) इति जाबालश्रुतिर्गार्हस्थ्येन हि यज्ञाद्यनुष्ठानं सूचयति । स्मरन्ति च “अधीत्य विधिवद्वेदान्पुत्रांश्चोत्पाद्य धर्मतः । इष्ट्वा च शक्तितो यज्ञैर्मनो मोक्षे निवेशयेत् ॥”(मनु. ६। ३६) निन्दन्ति च - “अनधीत्य द्विजो वेदाननुत्पाद्य तथात्मजान् । अनिष्ट्वा चैव यज्ञैश्च मोक्षमिच्छन्व्रजत्यधः ॥”(मनु. ६। ३७) इत्यत आह -

यथा च हृदयाद्यवदानानामानन्तर्यनियमः ।

कुतः, “हृदयस्याग्रेऽवद्यति अथ जिह्वाया अथ वक्षसः”(आ.श्रौ.सू. ७-२४) इत्यथाग्रशब्दाभ्यां क्रमस्य विवक्षितत्वात् । न तथेह क्रम नियमो विवक्षितः, श्रुत्या तयैवानियमप्रदर्शनात् , “यदि वेतरथा ब्रह्मचर्यादेव प्रव्रजेद्गृहाद्वा वनाद्वा”(जा. उ. ४) इति । एतावता हि वैराग्यमुपलक्षयति । अत एव “यदहरेव विरजेत्तदहरेव प्रव्रजेत्”(जा. उ. ४) इति श्रुतिः । निन्दावचनं च अविशुद्धसत्त्वपुरुषाभिप्रायम् । अविशुद्धसत्त्वो हि मोक्षमिच्छन्नालस्यात्तदुपायेऽप्रवर्तमानो गृहस्थधर्ममपि नित्यनैमित्तिकमनाचरन्प्रतिक्षणमुपचीयमानपाप्माधो गच्छतीत्यर्थः ।

स्यादेतत् । मा भूच्छ्रौत आर्थो वा क्रमः, पाठस्थानमुख्यप्रवृत्तिप्रमाणकस्तु कस्मान्न भवतीत्यत आह -

शेषशेषित्वे प्रमाणाभावात् ।

शेषाणां समिदादीनां शेषिणां चाग्नेयादीनामेकफलवदुपकारोपनिबद्धानामेकफलावच्छिन्नानामेकप्रयोगवचनोपगृहीतानाम् एकाधिकारिकर्तृकाणामेकपौर्णमास्यमावास्याकालसम्बद्धानां युगपदनुष्ठानाशक्तेः, सामर्थ्यात्क्रमप्राप्तौ, तद्विशेषापेक्षायां पाठादयस्तद्भेदनियमाय प्रभवन्ति । यत्र तु न शेषशेषिभावः नाप्येकाधिकारावच्छेदः यथा सौर्यार्यम्णप्राजापत्यादीनाम् , तत्र क्रमभेदापेक्षाभावान्न पाठादिः क्रमविशेषनियमे प्रमाणम् , अवर्जनीयतया तस्य तत्रावगतत्वात् । न चेह धर्मब्रह्मजिज्ञासयोः शेषशेषिभावे श्रुत्यादीनामन्यतमं प्रमाणमस्तीति ।

स्यादेतत् । शेषशेषिभावाभावेऽपि क्रमनियमो दृष्टः, यथा गोदोहनस्य पुरुषार्थस्य दर्शपौर्णमासिकैरङ्गैः सह, यथा वा “दर्शपूर्णमासाभ्यामिष्ट्वा सोमेन यजेत”दर्शपूर्णमासाभ्यामिष्ट्वा सोमेन यजेत। (तै.सं. २.५.६.१) इति दर्शपौर्णमाससोमयोरशेषशेषिणोरित्यत आह -

अधिकृताधिकारे वा प्रमाणाभावात् ।

इति योजना । स्वर्गकामस्य हि दर्शपौर्णमासाधिकृतस्य पशुकामस्य सतो दर्शपौर्णमासक्रत्वर्थाप्प्रणयनाश्रिते गोदोहने अधिकारः । नो खलु गोदोहनद्रव्यमव्याप्रियमाणं साक्षात्पशून् भावयितुमर्हति । न च व्यापारान्तराविष्टं श्रूयते, यतस्तदङ्गक्रममतिपतेत् अप्प्रणयनाश्रितं तु प्रतीयते, ‘चमसेनापः प्रणयेद्गोदोहनेनपशुकामस्य’ इति समभिव्याहारात् , योग्यत्वाच्चास्यापां प्रणयनं प्रति । तस्मात्क्रत्वर्थाप्प्रणयनाश्रितत्वाद्गोदोहनस्य तत्क्रमेण पुरुषार्थमपि गोदोहनं क्रमवदिति सिद्धम् । श्रुतिनिराकरणेनैव इष्टिसोमक्रमवदपि क्रमोऽपास्तो वेदितव्यः ।

शेषशेषित्वाधिकृताधिकाराभावेऽपि क्रमो विवक्ष्येत यद्येकफलावच्छेदो भवेत् । यथाग्नेयादीनां, षण्णामेकस्वर्गफलावच्छिन्नानाम् यदि वा जिज्ञास्यब्रह्मणोऽशो धर्मः स्यात् , यथा चतुर्लक्षणीव्युत्पाद्यं ब्रह्म केनचित्केनचिदंशेनैकैकेन लक्षणेन व्युत्पाद्यते, तत्र चतुर्णां लक्षणानां जिज्ञास्याभेदेन परस्परसम्बन्धे सति क्रमो विवक्षितः, तथेहाप्येकजिज्ञास्यतया धर्मब्रह्मजिज्ञासयोः क्रमो विवक्ष्येत न चैतदुभयमप्यस्तीत्याह -

फलजिज्ञास्यभेदाच्च ।

फलभेदं विभजते -

अभ्युदयफलं धर्मज्ञानमिति ।

जिज्ञासाया वस्तुतो ज्ञानतन्त्रत्वाज्ज्ञानफलं जिज्ञासाफलमिति भावः ।

न केवलं स्वरूपतः फलभेदः, तदुत्पादनप्रकारभेदादपि तद्भेद इत्याह -

तच्चानुष्ठानापेक्षम् ।

ब्रह्मज्ञानं च नानुष्ठानान्तरापेक्षम् ।

शाब्दज्ञानाभ्यासान्नानुष्ठानान्तरमपेक्षते, नित्यनैमित्तिककर्मानुष्ठानसहभावस्यापास्तत्वादिति भावः ।

जिज्ञास्यभेदमात्यन्तिकमाह -

भव्यश्च धर्म इति ।

भविता भव्यः, कर्तरि कृत्यः । भविता च भावकव्यापारनिर्वर्त्यतया तत्तन्त्र इति ततः प्राग्ज्ञानकाले नास्तीत्यर्थः । भूतं सत्यम् । सदेकान्ततः न कदाचिदसदित्यर्थः ।

न केवलं स्वरूपतो जिज्ञास्ययोर्भेदः, ज्ञापकप्रमाणप्रवृत्तिभेदादपि भेद इत्याह -

चोदनाप्रवृत्तिभेदाच्च ।

चोदनेति वैदिकं शब्दमाह, विशेषेण सामान्यस्य लक्षणात् ।

प्रवृत्तिभेदं विभजते -

या हि चोदना धर्मस्येति ।

आज्ञादीनां पुरुषाभिप्रायभेदानामसम्भवात् अपौरुषेये वेदे चोदनोपदेशः । अत एवोक्तम् - “तस्य ज्ञानमुपदेशः” (जै. सू. १ । १ । ५) इति । सा च स्वसाध्ये पुरुषव्यापारे भावनायां, तद्विषये च यागादौ, स हि भावनाविषयः, तदधीननिरूपणत्वात् विषयाधीनप्रयत्नस्य भावनायाः । ‘षिञ् बन्धने’ इत्यस्य धातोर्विषयपदव्युत्पत्तेः । भावनायास्तद्द्वारेण च यागादेरपेक्षितोपायतामवगमयन्ती तत्रेच्छोपहारमुखेन पुरुषं नियुञ्जानैव यागादिधर्ममवबोधयति नान्यथा । ब्रह्मचोदना तु पुरुषमवबोधयत्येव केवलं न तु प्रवर्तयन्त्यवबोधयति । कुतः, अवबोधस्य प्रवृत्तिरहितस्य चोदनाजन्यत्वात् ।

ननु ‘आत्मा ज्ञातव्यः’ इत्येतद्विधिपरैर्वेदान्तैः तदेकवाक्यतयावबोधे प्रवर्तयद्भिरेव पुरुषो ब्रह्मावबोध्यत इति समानत्वं धर्मचोदनाभिर्ब्रह्मचोदनानामित्यत आह -

न पुरुषोऽवबोधे नियुज्यते ।

अयमभिसन्धिः - न तावद्ब्रह्मसाक्षात्कारे पुरुषो नियोक्तव्यः, तस्य ब्रह्मस्वाभाव्येन नित्यत्वात् , अकार्यत्वात् । नाप्युपासनायाम् , तस्या अपि ज्ञानप्रकर्षे हेतुभावस्यान्वयव्यतिरेकसिद्धतया प्राप्तत्वेनाविधेयत्वात् । नापि शाब्दबोधे, तस्याप्यधीतवेदस्य पुरुषस्य विदितपदतदर्थस्य समधिगतशाब्दन्यायतत्त्वस्याप्रत्यूहमुत्पत्तेः ।

अत्रैव दृष्टान्तमाह -

यथाक्षार्थेति ।

दार्ष्टान्तिके योजयति -

तद्वदिति ।

अपि चात्मज्ञानविधिपरेषु वेदान्तेषु नात्मतत्त्वविनिश्चयः शाब्दः स्यात् । न हि तदात्मतत्त्वपरास्ते, किन्तु तज्ज्ञानविधिपराः, यत्पराश्च ते त एव तेषामर्थाः । न च बोधस्य बोध्यनिष्ठत्वादपेक्षितत्वात् , अन्यपरेभ्योऽपि बोध्यतत्त्वविनिश्चयः, समारोपेणापि तदुपपत्तेः । तस्मान्न बोधविधिपरा वेदान्ता इति सिद्धम् ।

प्रकृतमुपसंहरति -

तस्मात्किमपि वक्तव्यमिति ।

यस्मिन्नसति ब्रह्मजिज्ञासा न भवति सति तु भवन्ती भवत्येवेत्यर्थः ।

तदाह -

उच्यते - नित्यानित्यवस्तुविवेक इत्यादि ।

नित्यः प्रत्यगात्मा, अनित्या देहेन्द्रियविषयादयः । तद्विषयश्चेद्विवेको निश्चयः, कृतमस्य ब्रह्मजिज्ञासया, ज्ञातत्वाद्ब्रह्मणः । अथ विवेको ज्ञानमात्रम् , न निश्चयः, तथा सति एष विपर्यासादन्यः संशयः स्यात् , तथा च न वैराग्यं भावयेत् , अभावयन्कथं ब्रह्मजिज्ञासाहेतुः, तस्मादेवं व्याख्येयम् । नित्यानित्ययोर्वसतीति नित्यानित्यवस्तु तद्धर्मः, नित्यानित्ययोर्धर्मिणोस्तद्धर्माणां च विवेको नित्यानित्यवस्तुविवेकः । एतदुक्तं भवति - मा भूदिदम् तदृतं नित्यम् , इदं तदनृतमनित्यमिति धर्मिविशेषयोर्विवेकः, धर्मिमात्रयोर्नित्यानित्ययोस्तद्धर्मयोश्च विवेकं निश्चिनोत्येव । नित्यत्वं सत्यत्वं तद्यस्यास्ति तन्नित्यं सत्यम् , तथा चास्थागोचरः । अनित्यत्वमसत्यत्वं तद्यस्यास्ति तदनित्यमनृतम् , तथा चानास्थागोचरः । तदेतेष्वनुभूयमानेषु युष्मदस्मत्प्रत्ययगोचरेषु विषयविषयिषु यदृतं नित्यं सुखं व्यवस्थास्यते तदास्थागोचरो भविष्यति, यत्त्वनित्यमनृतं भविष्यति तापत्रयपरीतं तत्त्यक्ष्यत इति । सोऽयं नित्यानित्यवस्तुविवेकः प्राग्भवीयादैहिकाद्वा वैदिकात्कर्मणो विशुद्धसत्त्वस्य भवत्यनुभवोपपत्तिभ्याम् । न खलु सत्यं नाम न किञ्चिदस्तीति वाच्यम् । तदभावे तदधिष्ठानस्यानृतस्याप्यनुपपत्तेः, शून्यवादिनामपि शून्यताया एव सत्यत्वात् ।

अथास्य पुरुषधौरेयस्यानुभवोपपत्तिभ्यामेवं सुनिपुणं निरूपयतः आ च सत्यलोकात् आचावीचेः “जायस्व म्रियस्व” (छा. उ. ५ । १० । ८) इति विपरिवर्तमानं, क्षणमुहूर्तयामाहोरात्रार्धमासमासर्त्वयनवत्सरयुगचतुर्युगमन्वन्तरप्रलयमहाप्रलयमहासर्गावान्तरसर्गसंसारसागरोर्मिभिरनिशम् उह्यमानं, तापत्रयपरीतमात्मानं च जीवलोकं चावलोक्य अस्मिन्संसारमण्डले अनित्याशुचिदुःखात्मकं प्रसङ्ख्यानमुपावर्तते; ततोऽस्यैतादृशान्नित्यानित्यवस्तुविवेकलक्षणात्प्रसङ्ख्यानात् -

इहामुत्रार्थभोगविरागः ।

भवति । अर्थ्यते प्रार्थ्यत इत्यर्थः । फलमिति यावत् । तस्मिन्विरागोऽनामानाभोगात्मिकोपेक्षाबुद्धिः ।

ततः शमदमादिसाधनसम्पत् ।

रागादिकषायमदिरामत्तं हि मनस्तेषु तेषु विषयेषूच्चावचमिन्द्रियाणि प्रवर्तयत् , विविधाश्च प्रवृत्तीः पुण्यापुण्यफला भावयत् , पुरुषमतिघोरे विविधदुःखज्वालाजटिले संसारहुतभुजि जुहोति । प्रसङ्ख्यानाभ्यासलब्धवैराग्यपरिपाकभग्नरागादिकषायमदिरामदं तु मनः पुरुषेणावजीयते वशीक्रियते, सोऽयमस्य वैराग्यहेतुको मनोविजयः शम इति वशीकारसंज्ञ इति चाख्यायते । विजितं च मनस्तत्त्वविषयविनियोगयोग्यतां नीयते, सेयमस्य योग्यता दमः । यथा दान्तोऽयं वृषभयुवा हलशकटादिवहनयोग्यः कृत इति गम्यते । आदिग्रहणेन च विषयतितिक्षातदुपरमतत्त्वश्रद्धाः सङ्गृह्यन्ते । अत एव श्रुतिः - “तस्माच्छान्तो दान्त उपरतस्तितिक्षुः श्रद्धावित्तो भूत्वात्मन्येवात्मानं पश्यन् , सर्वमात्मनि पश्यति” (बृ. उ. ४-४-२३) इति । तदेतस्य शमदमादिरूपस्य साधनस्य सम्पत् , प्रकर्षः, शमदमादिसाधनसम्पत् ।

ततोऽस्य संसारबन्धनान्मुमुक्षा भवतीत्याह -

मुमुक्षुत्वं च ।

तस्य च नित्यशुद्धबुद्धमुक्तसत्यस्वभावब्रह्मज्ञानं मोक्षस्य कारणमित्युपश्रुत्य तज्जिज्ञासा भवति धर्मजिज्ञासायाः प्रागूर्ध्वं च, तस्मात्तेषामेवानन्तर्यं न धर्मजिज्ञासाया इत्याह -

तेषु हीति ।

न केवलं जिज्ञासामात्रम् , अपि तु ज्ञानमपीत्याह -

ज्ञातुं च ।

उपसंहरति -

तस्मादिति ।