क्रमप्राप्तमतःशब्दं व्याचष्टे -
अतःशब्दो हेत्वर्थः ।
तमेवातःशब्दस्य हेतुरूपमर्थमाह -
यस्माद्वेद एवेति ।
अत्रैवं परिचोद्यते - सत्यं यथोक्तसाधनसम्पत्त्यनन्तरं ब्रह्मजिज्ञासा भवति । सैव त्वनुपपन्ना, इहामुत्रफलभोगविरागस्यानुपपत्तेः । अनुकूलवेदनीयं हि फलम् , इष्टलक्षणत्वात्फलस्य । न चानुरागहेतावस्य वैराग्यं भवितुमर्हति । दुःखानुषङ्गदर्शनात्सुखेऽपि वैराग्यमिति चेत् , हन्त भोः सुखानुषङ्गाद्दुःखेऽप्यनुरागो न कस्माद्भवति । तस्मात्सुख उपादीयमाने दुःखपरिहारे प्रयतितव्यम् । अवर्जनीयतया दुःखमागतमपि परिहृत्य सुखमात्रं भोक्ष्यते । तद्यथामत्स्यार्थी सशल्कान्सकण्टकान्मत्स्यानुपादत्ते, स यावदादेयं तावदादाय विनिवर्तते । यथा वा धान्यार्थी सपलालानि धान्यान्याहरति, स यावदादेयं तावदुपादाय निवर्तते, तस्माद्दुःखभयान्नानुकूलवेदनीयमैहिकं वामुष्मिकं वा सुखं परित्यक्तुमुचितम् । न हि मृगाः सन्तीति शालयो नोप्यन्ते, भिक्षुकाः सन्तीति स्थाल्यो नाधिश्रीयन्ते । अपि च दृष्टं सुखं चन्दनवनितादिसङ्गजन्म क्षयितालक्षणेन दुःखेनाघ्रातत्वादतिभीरुणा त्यज्येतापि, न त्वामुष्मिकं स्वर्गादि, तस्याविनाशित्वात् । श्रूयते हि - “अपाम सोमममृता अभूम” (ऋक् संं. ६ - ४ - ११) इति । तथा च “अक्षय्यं ह वै चातुर्मास्ययाजिनः सुकृतं भवति”(श.ब्रा.२.६.३.१) । न च कृतकत्वहेतुकं विनाशित्वानुमानमत्र सम्भवति, नरशिरःकपालशौचानुमानवत् आगमबाधितविषयत्वात् । तस्माद्यथोक्तसाधनसम्पत्त्यभावान्न ब्रह्मजिज्ञासेति प्राप्तम् ।
एवं प्राप्ते आह भगवान्सूत्रकारः -
अत इति ।
तस्यार्थं व्याचष्टे भाष्यकारः -
यस्माद्वेद एवेति ।
अयमभिसन्धिः - सत्यं मृगभिक्षुकादयः शक्याः परिहर्तुं पाचककृषीवलादिभिः, दुःखं त्वनेकविधानेककारणसम्पातजमशक्यपरिहारम् , अन्ततः साधनापारतन्त्र्यक्षयितलक्षणयोर्दुःखयोः समस्तकृतकसुखाविनाभावनियमात् । न हि मधुविषसम्पृक्तमन्नं विषं परित्यज्य समधु शक्यं शिल्पिवरेणापि भोक्तुम् । क्षयितानुमानोपोद्बलितं च “तद्यथेह कर्मजितः”(छा.उ. ८.१.६) इत्यादि वचनं क्षयिताप्रतिपादकम् “अपाम सोमम्”(ऋक् संं. ६ - ४ - ११) इत्यादिकं वचनं मुख्यासम्भवे जघन्यवृत्तितामापादयति । यथाहुः - पौराणिकाः “आभूतसम्प्लवं स्थानममृतत्वं हि भाष्यते”(वि. पु. २ । ८ । ९७) इति । अत्र च ब्रह्मपदेन तत्प्रमाणं वेद उपस्थापितः । स च योग्यत्वात् “तद्यथेह कर्मचितः”(छा.उ. ८.१.६) इत्यादिरतः इति सर्वनाम्ना परामृश्य, हेतुपञ्चम्या निर्दिश्यते ।
स्यादेतत् । यथा स्वर्गादेः कृतकस्य सुखस्य दुःखानुषङ्गस्तथा ब्रह्मणोऽपीत्यत आह -
तथा ब्रह्मविज्ञानादपीति ।
तेनायमर्थः - अतः स्वर्गादीनां क्षयिताप्रतिपादकात् , ब्रह्मज्ञानस्य च परमपुरुषार्थताप्रतिपादकात् आगमात् , यथोक्तसाधनसम्पत् ततश्च ब्रह्म जिज्ञासेति सिद्धम् ।