ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः प्रथमः पादः
भामतीव्याख्या
 
अथातो ब्रह्मजिज्ञासा ॥ १ ॥
ब्रह्मणो जिज्ञासा ब्रह्मजिज्ञासाब्रह्म वक्ष्यमाणलक्षणम्जन्माद्यस्य यतःइतिअत एव ब्रह्मशब्दस्य जात्याद्यर्थान्तरमाशङ्कितव्यम्ब्रह्मण इति कर्मणि षष्ठी, शेषे; जिज्ञास्यापेक्षत्वाज्जिज्ञासायाःजिज्ञास्यान्तरानिर्देशाच्चननु शेषषष्ठीपरिग्रहेऽपि ब्रह्मणो जिज्ञासाकर्मत्वं विरुध्यते, सम्बन्धसामान्यस्य विशेषनिष्ठत्वात्एवमपि प्रत्यक्षं ब्रह्मणः कर्मत्वमुत्सृज्य सामान्यद्वारेण परोक्षं कर्मत्वं कल्पयतो व्यर्थः प्रयासः स्यात् व्यर्थः, ब्रह्माश्रिताशेषविचारप्रतिज्ञानार्थत्वादिति चेत् ; प्रधानपरिग्रहे तदपेक्षितानामर्थाक्षिप्तत्वात्ब्रह्म हि ज्ञानेनाप्तुमिष्टतमत्वात्प्रधानम्तस्मिन्प्रधाने जिज्ञासाकर्मणि परिगृहीते, यैर्जिज्ञासितैर्विना ब्रह्म जिज्ञासितं भवति, तान्यर्थाक्षिप्तान्येवेति पृथक्सूत्रयितव्यानियथाराजासौ गच्छतिइत्युक्ते सपरिवारस्य राज्ञो गमनमुक्तं भवति, तद्वत्श्रुत्यनुगमाच्चयतो वा इमानि भूतानि जायन्ते’ (तै. उ. ३ । १ । १) इत्याद्याः श्रुतयः तद्विजिज्ञासस्वतद्ब्रह्म’ (तै. उ. ३ । १ । १) इति प्रत्यक्षमेव ब्रह्मणो जिज्ञासाकर्मत्वं दर्शयन्तितच्च कर्मणिषष्ठीपरिग्रहे सूत्रेणानुगतं भवतितस्माद्ब्रह्मण इति कर्मणि षष्ठी

ब्रह्मजिज्ञासापदव्याख्यानमाह -

ब्रह्मण इति ।

षष्ठीसमासप्रदर्शनेन प्राचां वृत्तिकृतां ब्रह्मणे जिज्ञासा ब्रह्मजिज्ञासेति चतुर्थीसमासः परास्तो वेदितव्यः । “तादर्थ्यसमासे प्रकृतिविकृतिग्रहणं कर्तव्यम्” इति कात्यायनीयवचनेन यूपदार्वादिष्वेव प्रकृतिविकारभावे चतुर्थीसमासनियमात् , अप्रकृतिविकारभूते इत्येवमादौ तन्निषेधात् , “अश्वघासादयः षष्ठीसमासा भविष्यन्ति” इत्यश्वघासादिषु षष्ठीसमासप्रतिविधानात् । षष्ठीसमासेऽपि च ब्रह्मणो वास्तवप्राधान्योपपत्तेरिति ।

स्यादेतत् । ब्रह्मणो जिज्ञासेत्युक्ते तत्रानेकार्थत्वाद्ब्रह्मशब्दस्य संशयः, कस्य ब्रह्मणो जिज्ञासेति । अस्ति ब्रह्मशब्दो विप्रत्वजातौ, यथाब्रह्महत्येति । अस्ति च वेदे, यथाब्रह्मोज्झमिति । अस्ति च परमात्मनि, यथा “ब्रह्म वेद ब्रह्मैव भवति” (मु. उ. ३ । २ । ९) इति, तमिमं संशयमपाकरोति -

ब्रह्म च वक्ष्यमाणलक्षणमिति ।

यतो ब्रह्मजिज्ञासां प्रतिज्ञाय तज्ज्ञापनाय परमात्मलक्षणं प्रणयति ततोऽवगच्छामः परमात्मजिज्ञासैवेयं न विप्रत्वजात्यादिजिज्ञासेत्यर्थः । षष्ठीसमासपरिग्रहेऽपि नेयं कर्मषष्ठी, किं तु शेषलक्षणा, सम्बन्धमात्रं च शेष इति ब्रह्मणो जिज्ञासेत्युक्ते ब्रह्मसम्बन्धिनी जिज्ञासेत्युक्तं भवति । तथा च ब्रह्मस्वरूपप्रमाणयुक्तिसाधनप्रयोजनजिज्ञासाः सर्वा ब्रह्मजिज्ञासार्था ब्रह्मजिज्ञासयावरुद्धा भवन्ति । साक्षात्पारम्पर्येण च ब्रह्मसम्बन्धात् ।

कर्मषष्ठ्यां तु ब्रह्मशब्दार्थः कर्म, स च स्वरूपमेवेति तत्प्रमाणादयो नावरुध्येरन् , तथा चाप्रतिज्ञातार्थचिन्ता प्रमाणादिषु भवेदिति ये मन्यन्ते तान्प्रत्याह -

ब्रह्मण इति । कर्मणि इति ।

अत्र हेतुमाह -

जिज्ञास्येति ।

इच्छायाः प्रतिपत्त्यनुबन्धो ज्ञानम् , ज्ञानस्य च ज्ञेयं ब्रह्म । न खलु ज्ञानं ज्ञेयं विना निरूप्यते, न च जिज्ञासा ज्ञानं विनेति प्रतिपत्त्यनुबन्धत्वात्प्रथमं जिज्ञासा कर्मैवापेक्षते, न तु सम्बन्धिमात्रम्; तदन्तरेणापि सति कर्मणि तन्निरूपणात् । न हि चन्द्रमसमादित्यं चोपलभ्य कस्यायमिति सम्बन्ध्यन्वेषणा भवति । भवति तु ज्ञानमित्युक्ते विषयान्वेषणा किंविषयमिति । तस्मात्प्रथममपेक्षितत्वात्कर्मतयैव ब्रह्म सम्बध्यते, न सम्बन्धितामात्रेण, तस्य जघन्यत्वात् । तथा च कर्मणि षष्ठीत्यर्थः ।

ननु सत्यं न जिज्ञास्यमन्तरेण जिज्ञासा निरूप्यते, जिज्ञास्यान्तरं त्वस्या भविष्यति, ब्रह्म तु शेषतया सम्भन्त्स्यत इत्यत आह -

जिज्ञास्यान्तरेति ।

निगूढाभिप्रायश्चोदयति -

ननु शेषषष्ठीपरिग्रहेऽपीति ।

सामान्यसम्बन्धस्य विशेषसम्बन्धाविरोधकत्वेन कर्मताया अविघातेन जिज्ञासानिरूपणोपपत्तेरित्यर्थः ।

निगूढाभिप्राय एव दूषयति -

एवमपि प्रत्यक्षं ब्रह्मण इति ।

वाच्यस्य कर्मत्वस्य जिज्ञासया प्रथममपेक्षितस्य प्रथमसम्बन्धार्हस्य चान्वयपरित्यागेन पश्चात्कथञ्चिदपेक्षितस्य सम्बन्धिमात्रस्य सम्बन्धो, जघन्यः प्रथमः, प्रथमश्च जघन्य इति सुव्याहृतं न्यायतत्त्वम् । प्रत्यक्षपरोक्षाताभिधानं च प्राथम्याप्राथम्यस्फुटत्वाभिप्रायम् ।

चोदकः स्वाभिप्रायमुद्घाटयति -

न व्यर्थः, ब्रह्माश्रिताशेषेति ।

व्याख्यातमेतदधस्तात् ।

समाधाता स्वाभिसन्धिमुद्घाटयति -

न प्रधानपरिग्रह इति ।

वास्तवं प्राधान्यम् ब्रह्मणः । शेषं सनिदर्शनमतिरोहितार्थम् , श्रुत्यनुगमश्चातिरोहितः ।