स्यादेतत् । एतेन सूत्रेण ब्रह्मज्ञानं प्रत्युपायता मीमांसायाः प्रतिपाद्यत इत्युक्तं तदयुक्तम् , विकल्पासहत्वात् , इति चोदयति -
तत्पुनर्ब्रह्मेति ।
वेदान्तेभ्योऽपौरुषेयतया स्वतःसिद्धप्रमाणभावेभ्यः प्रसिद्धमप्रसिद्धं वा स्यात् । यदि प्रसिद्धम् , वेदान्तवाक्यसमुत्थेन निश्चयज्ञानेन विषयीकृतम् , ततो न जिज्ञासितव्यम् , निष्पादितक्रिये कर्मणि अविशेषाधायिनः । साधनस्य साधनन्यायातिपातात् । अथाप्रसिद्धं वेदान्तेभ्यस्तर्हि न तद्वेदान्ताः प्रतिपादयन्तीति सर्वथाऽप्रसिद्धं नैव शक्यं जिज्ञासितुम् । अनुभूते हि प्रिये भवतीच्छा न तु सर्वथाननुभूतपूर्वे । न चेष्यमाणमपि शक्यं ज्ञातुं, प्रमाणाभावात् । शब्दो हि तस्य प्रमाणं वक्तव्यः । यथा वक्ष्यति - “शास्त्रयोनित्वात्”(ब्र.सू. १-१-३) इति । स चेत्तन्नावबोधयति, कुतस्तस्य तत्र प्रामाण्यम् । न च प्रमाणान्तरं ब्रह्मणि प्रक्रमते । तस्मात्प्रसिद्धस्य ज्ञातुं शक्यस्याप्यजिज्ञासनात् , अप्रसिद्धस्येच्छाया अविषयत्वात् , अशक्यज्ञानत्वाच्च न ब्रह्म जिज्ञास्यमित्याक्षेपः ।
परिहरति -
उच्यते - अस्ति तावद्ब्रह्म नित्यशुद्धबुद्धमुक्तस्वभावम् ।
अयमर्थः - प्रागपि ब्रह्ममीमांसाया पूर्वमधीतवेदस्य निगमनिरुक्तव्याकरणादिपरिशीलनविदितपदतदर्थसम्बन्धस्य “सदेव सोम्येदमग्र आसीत्” (छा. उ. ६ । २ । १) इत्युपक्रमात् , “तत्त्वमसि”(छा. उ. ६ । ८ । ७) इत्यन्तात्सन्दर्भात् नित्यत्वाद्युपेतब्रह्मस्वरूपावगमस्तावदापाततो विचाराद्विनाप्यस्ति । अत्र च ब्रह्मेत्यादिनावगम्येन तद्विषयमवगमं लक्षयति, तदस्तित्वस्य सति विमर्शे विचारात्प्रागनिश्चयात् । नित्येति क्षयितालक्षणं दुःखमुपक्षिपति । शुद्धेति देहाद्युपाधिकमपि दुःखमपाकरोति । बुद्धेत्यपराधीनप्रकाशमानन्दात्मानं दर्शयति, आनन्दप्रकाशयोरभेदात् ।
स्यादेतत् । मुक्तौ सत्यामस्यैते शुद्धत्वादयः प्रथन्ते, ततस्तु प्राक् देहाद्यभेदेन तद्धर्मजन्मजरामरणादिदुःखयोगादित्यत उक्तम् -
मुक्तेति ।
सदैव मुक्तः सदैव केवलोऽनाद्यविद्यावशात् भ्रान्त्या तथावभासत इत्यर्थः ।
तदेवमनौपाधिकं ब्रह्मणो रूपं दर्शयित्वाविद्योपाधिकं रूपमाह -
सर्वज्ञं सर्वशक्तिसमन्वितम् ।
तदनेन जगत्कारणत्वमस्य दर्शितम् , शक्तिज्ञानभावाभावानुविधानात्कारणत्वभावाभावयोः ।
कुतः पुनरेवंभूतब्रह्मस्वरूपावगतिरित्यत आह -
ब्रह्मशब्दस्य हीति ।
न केवलं “सदेव सोम्येदम्” (छा. उ. ६ । २ । १) इत्यादीनां वाक्यानां पौर्वापर्यालोचनया इत्थम्भूतब्रह्मावगतिः । अपि तु ब्रह्मपदमपि निर्वचनसामर्थ्यादिममेवार्थं स्वहस्तयति ।
निर्वचनमाह -
बृहतेर्धातोरर्थानुगमात् ।
वृद्धिकर्मा हि बृहतिरतिशायने वर्तते । तच्चेदमतिशायनमनवच्छिन्नं पदान्तरावगमितं नित्यशुद्धबुद्धत्वाद्यस्याभ्यनुजानातीत्यर्थः ।
तदेवं तत्पदार्थस्य शुद्धत्वादेः प्रसिद्धिमभिधाय त्वम्पदार्थस्याप्याह -
सर्वस्यात्मत्वाच्च ब्रह्मास्तित्वप्रसिद्धिः ।
सर्वस्यपांसुलपादकस्य हालिकस्यापि ब्रह्मास्तित्वप्रसिद्धिः, कुतः, आत्मत्वात् ।
एतदेव स्फुटयति -
सर्वो हीति ।
प्रतीतिमेव अप्रतीतिनिराकरणेन द्रढयति -
न नेति ।
न न प्रत्येत्यहमस्मीति, किन्तु प्रत्येत्येवेति योजना ।
नन्वहमस्मीति च ज्ञास्यति मा च ज्ञासीदात्मानमित्यत आह -
यदीति ।
अहमस्मीति न प्रतीयात् ।
अहङ्कारास्पदं हि जीवात्मानं चेन्न प्रतीयात् , अहमिति न प्रतीयादित्यर्थः ।
ननु प्रत्येतु सर्वो जन आत्मानमहङ्कारास्पदम् , ब्रह्मणि तु किमायातमित्यत आह -
आत्मा च ब्रह्म ।
तदस्त्वमा सामानाधिकरण्यात् । तस्मात्तत्पदार्थस्य शुद्धबुद्धत्वादेः शब्दतः, त्वम्पदार्थस्य च जीवात्मनः प्रत्यक्षतः प्रसिद्धेः, पदार्थज्ञानपूर्वकत्वाच्च वाक्यार्थज्ञानस्य, त्वम्पदार्थस्य ब्रह्मभावावगमः “तत्त्वमसि”(छा. उ. ६ । ८ । ७) इति वाक्यादुपपद्यत इति भावः ।
आक्षेप्ता प्रथमकल्पाश्रयं दोषमाह -
यदि तर्हि लोक इति ।
अध्यापकाध्येतृपरम्परा लोकः । तत्र “तत्त्वमसि”(छा. उ. ६ । ८ । ७) इति वाक्याद्यदि ब्रह्मात्मत्वेन प्रसिद्धमस्ति । आत्मा ब्रह्मत्वेनेति वक्तव्ये ब्रह्मात्मत्वेनेत्यभेदविवक्षया गमयितव्यम् ।
परिहरति -
न ।
कुतः,
तद्विशेषं प्रति विप्रतिपत्तेः ।
तदनेन विप्रतिपत्तिः साधकबाधकप्रमाणाभावे सति संशयबीजमुक्तम् । ततश्च संशयाज्जिज्ञासोपपद्यत इति भावः । विवादाधिकरणं धर्मी सर्वतन्त्रसिद्धान्तसिद्धोऽभ्युपेयः । अन्यथा अनाश्रया भिन्नाश्रया वा विप्रतिपत्तयो न स्युः । विरुद्धा हि प्रतिपत्तयो विप्रतिपत्तयः । न चानाश्रयाः प्रतिपत्तयो भवन्ति, अनालम्बनत्वापत्तेः । न च भिन्नाश्रया विरुद्धाः । नह्यनित्या बुद्धिः, नित्य आत्मेति प्रतिपत्तिविप्रतिपत्ती । तस्मात्तत्पदार्थस्य शुद्धबुद्धत्वादेर्वेदान्तेभ्यः प्रतीतिः, त्वम्पदार्थस्य च जीवात्मनो लोकतः सिद्धिः सर्वतन्त्रसिद्धान्तः । तदाभासत्वानाभासत्वतत्तद्विशेषेषु परमत्र विप्रतिपत्तयः । तस्मात्सामान्यतः प्रसिद्धे धर्मिणि विशेषतो विप्रतिपत्तौ युक्तस्तद्विशेषेषु संशयः ।
तत्र त्वम्पदार्थे तावद्विप्रतिपत्तीर्दर्शयति -
देहमात्रमित्यादिना, भोक्तैव केवलं न कर्त्ता इत्यन्तेन ।
अत्र देहेन्द्रियमनःक्षणिकविज्ञानचैतन्यपक्षे न तत्पदार्थनित्यत्वादयः त्वम्पदार्थेन सम्बध्यन्ते, योग्यताविरहात् । शून्यपक्षेऽपि सर्वोपाख्यानरहितमपदार्थः कथं तत्त्वमोर्गोचरः । कर्तृभोक्तृस्वभावस्यापि परिणामितया तत्पदार्थनित्यत्वाद्यसङ्गतिरेव । अकर्तृत्वेऽपि भोक्तृत्वपक्षे परिणामितया नित्यत्वाद्यसङ्गतिः । अभोक्तृत्वेऽपि नानात्वेनावच्छिन्नत्वादनित्यत्वादिप्रसक्तावद्वैतहानाच्च तत्पदार्थासङ्गतिस्तदवस्थैव । त्वम्पदार्थविप्रतिपत्त्या च तत्पदार्थेऽपि विप्रतिपत्तिर्दर्शिता । वेदाप्रामाण्यवादिनो हि लौकायतिकादयस्तत्पदार्थप्रत्ययं मिथ्येति मन्यन्ते । वेदप्रामाण्यवादिनोऽप्यौपचारिकं तत्पदार्थमविवक्षितं वा मन्यन्त इति ।
तदेवं त्वम्पदार्थविप्रतिपत्तिद्वारा तत्पदार्थे विप्रतिपत्तिं सूचयित्वा साक्षात्तत्पदार्थे विप्रतिपत्तिमाह -
अस्ति तद्व्यतिरिक्त ईश्वरः सर्वज्ञः सर्वशक्तिरिति केचित् ।
तदिति जीवात्मानं परामृशति । न केवलं शरीरादिभ्यः, जीवात्मभ्योऽपि व्यतिरिक्तः । स च सर्वस्यैव जगत ईष्टे ।
ऐश्वर्यसिद्ध्यर्थं स्वाभाविकमस्य रूपद्वयमुक्तम् -
सर्वज्ञः सर्वशक्तिरिति ।
तस्यापि जीवात्मभ्योऽपि व्यतिरेकात् , न त्वम्पदार्थेन सामानाधिकरण्यमिति स्वमतमाह -
अत्मा स भोक्तुरित्यपरे ।
भोक्तुर्जीवात्मनोऽविद्योपाधिकस्य स ईश्वरस्तत्पदार्थ आत्मा, तत ईश्वरादभिन्नो जीवात्मा । परमाकाशादिव घटाकाशादय इत्यर्थः ।
विप्रतिपत्तीरुपसंहरन् विप्रतिपत्तिबीजमाह -
एवं बहव इति ।
युक्तियुक्त्याभासवाक्यवाक्याभाससमाश्रयाः सन्त इति योजना ।
ननु सन्तु विप्रतिपत्तयः, तन्निमित्तश्च संशयः तथापि किमर्थं ब्रह्ममीमांसारभ्यत इत्यत आह -
तत्राविचार्येति ।
तत्त्वज्ञानाच्च निःश्रेयसाधिगमो नातत्त्वज्ञानाद्भवितुमर्हति । अपि च अतत्त्वज्ञानान्नास्तिक्ये सत्यनर्थप्राप्तिरित्यर्थः ।
सूत्रतात्पर्यमुपसंहरति -
तस्मादिति ।
वेदान्तमीमांसा तावत्तर्क एव, तदविरोधिनश्च येऽन्येऽपि तर्का अध्वरमीमांसायां न्याये च वेदप्रत्यक्षादिप्रामाण्यपरिशोधनादिषूक्तास्त उपकरणं यस्याः सा तथोक्ता । तस्मादियं परमनिःश्रेयससाधनब्रह्मज्ञानप्रयोजना ब्रह्ममीमांसारब्धव्येति सिद्धम् ॥ १ ॥