ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः प्रथमः पादः
भामतीव्याख्या
 
जन्माद्यस्य यतः ॥ २ ॥
जन्म उत्पत्तिः आदिः अस्यइति तद्गुणसंविज्ञानो बहुव्रीहिःजन्मस्थितिभङ्गं समासार्थःजन्मनश्चादित्वं श्रुतिनिर्देशापेक्षं वस्तुवृत्तापेक्षं श्रुतिनिर्देशस्तावत्यतो वा इमानि भूतानि जायन्ते’ (तै. उ. ३ । १ । १) इति, अस्मिन्वाक्ये जन्मस्थितिप्रलयानां क्रमदर्शनात्वस्तुवृत्तमपिजन्मना लब्धसत्ताकस्य धर्मिणः स्थितिप्रलयसम्भवात्अस्येति प्रत्यक्षादिसन्निधापितस्य धर्मिण इदमा निर्देशःषष्ठी जन्मादिधर्मसम्बन्धार्थायत इति कारणनिर्देशःअस्य जगतो नामरूपाभ्यां व्याकृतस्य अनेककर्तृभोक्तृसंयुक्तस्य प्रतिनियतदेशकालनिमित्तक्रियाफलाश्रयस्य मनसाप्यचिन्त्यरचनारूपस्य जन्मस्थितिभङ्गं यतः सर्वज्ञात्सर्वशक्तेः कारणाद्भवति, तद्ब्रह्मेति वाक्यशेषःअन्येषामपि भावविकाराणां त्रिष्वेवान्तर्भाव इति जन्मस्थितिनाशानामिह ग्रहणम्यास्कपरिपठितानां तुजायतेऽस्तिइत्यादीनां ग्रहणे तेषां जगतः स्थितिकाले सम्भाव्यमानत्वान्मूलकारणादुत्पत्तिस्थितिनाशा जगतो गृहीताः स्युरित्याशङ्क्येततन्मा शङ्कि; इति या उत्पत्तिर्ब्रह्मणः, तत्रैव स्थितिः प्रलयश्च, एव गृह्यन्ते यथोक्तविशेषणस्य जगतो यथोक्तविशेषणमीश्वरं मुक्त्वा, अन्यतः प्रधानादचेतनात् अणुभ्यः अभावात् संसारिणो वा उत्पत्त्यादि सम्भावयितुं शक्यम् स्वभावतः, विशिष्टदेशकालनिमित्तानामिहोपादानात्एतदेवानुमानं संसारिव्यतिरिक्तेश्वरास्तित्वादिसाधनं मन्यन्ते ईश्वरकारणवादिनः

जन्माद्यधिकरणविषयाः

तदेवं प्रथमसूत्रेण मीमांसारम्भमुपपाद्य ब्रह्ममीमांसामारभते -

जन्माद्यस्य यतः ।

सूत्रावयवान् विभजते -

जन्मोत्पत्तिरादिरस्येति ।

लाघवाय सूत्रकृता जन्मादीति नपुंसकप्रयोगः कृतस्तदुपपादनाय समाहारमाह -

जन्मस्थितिभङ्गमिति ।

जन्मनश्च इत्यादिः

कारणनिर्देशः

इत्यन्तः सन्दर्भो निगदव्याख्यातः ।

स्यादेतत् । प्रधानकालग्रहलोकपालक्रियायदृच्छास्वभावाभावेषूपप्लवमानेषु सत्सु सर्वज्ञं सर्वशक्तिस्वभावं ब्रह्म जगज्जन्मादिकारणमिति कुतः सम्भावनेत्यत आह -

अस्य जगत इति ।

अत्र

नामरूपाभ्यां व्याकृतस्य इति

चेतनभावकर्तृकत्वसम्भावनया प्रधानाद्यचेतनकर्तृकत्वं निरुपाख्यकर्तृकत्वं च व्यासेधति । यत्खलु नाम्ना रूपेण च व्याक्रियते तच्चेतनकर्तृकं दृष्टम् , यथा घटादि । विवादाध्यासितं च जगन्नामरूपाभ्यां व्याकृतं तस्माच्चेतनकर्तृकं सम्भाव्यते । चेतनो हि बुद्धावालिख्य नामरूपे घट इति नाम्ना, रूपेण च कम्बुग्रीवादिना बाह्यं घटं निष्पादयति । अत एव घटस्य निर्वर्त्यस्याप्यन्तः सङ्कल्पात्मना सिद्धस्य कर्मकारकभावो घटं करोतीति । यथाहुः - “बुद्धिसिद्धं तु न तदसत्”(न्या.सू. ४ । १ । ५०) इति । तथा चाचेतनो बुद्धावनालिखितं करोतीति न शक्यं सम्भावयितुमिति भावः ।

स्यादेतत् । चेतना ग्रहा लोकपाला वा नामरूपे बुद्धावालिख्य जगज्जनयिष्यन्ति, कृतमुक्तस्वभावेन ब्रह्मणेत्यत आह -

अनेककर्तृभोक्तृसंयुक्तस्येति ।

केचित्कर्तारो भवन्ति, यथा सूदर्त्विगादयः, न भोक्तारः । केचित्तु भोक्तारः, यथा श्राद्धवैश्वानरीयेष्ट्यादिषु पितापुत्रादयः, न कर्तारः । तस्मादुभयग्रहणम् । देशकालनिमित्तक्रियाफलानि इतीतरेतरद्वन्द्वः । देशादीनि च तानि प्रतिनियतानि चेति विग्रहः । तदाश्रयो जगत्तस्य । केचित्खलु प्रतिनियतदेशोत्पादाः, यथा कृष्णमृगादयः । केचित्प्रतिनियतकालोत्पादाः, यथा कोकिलालापादयो वसन्ते । केचित्प्रतिनियतनिमित्ताः, यथा नवाम्बुदध्वानादिनिमित्ता बलाकागर्भादयः । केचित्प्रतिनियतक्रियाः, यथा ब्राह्मणानां याजनादयो नेतरेषाम् । एवं प्रतिनियतफलाः, यथा केचित्सुखिनः, केचिद्दुःखिनः, एवं य एव सुखिनस्त एव कदाचिद्दुःखिनः । सर्वमेतदाकस्मिकापरनाम्नि यादृच्छिकत्वे वा स्वाभाविकत्वे वा सर्वज्ञासर्वशक्तिकर्तृकत्वे च न घटते, परिमितज्ञानशक्तिभिर्ग्रहलोकपालादिभिर्ज्ञातुं कर्तुं चाशक्यत्वात् ।

तदिदमुक्तम् -

मनसाप्यचिन्त्यरचनारूपस्येति ।

एकस्या अपि हि शरीररचनाया रूपं मनसा न शक्यं चिन्तयितुं कदाचित् , प्रागेव जगद्रचनायाः, किमङ्ग पुनः कर्तुमित्यर्थः ।

सूत्रवाक्यं पूरयति -

तद्ब्रह्मेति वाक्यशेषः ।

स्यादेतत् । कस्मात्पुनर्जन्मस्थितिभङ्गमात्रमिहादिग्रहणेन गृह्यते, न तु वृद्धिपरिणामापक्षया अपीत्यत आह -

अन्येषामपि भावविकाराणां -

वृद्ध्यादीनां

त्रिष्वेवान्तर्भाव इति ।

वृद्धिस्तावदवयवोपचयः । तेनाल्पावयवादवयविनो द्वितन्तुकादेरन्य एव महान्पटो जायत इति जन्मैव वृद्धिः । परिणामोऽपि त्रिविधो धर्मलक्षणावस्थालक्षणः उत्पत्तिरेव । धर्मिणो हि हाटकादेर्धर्मलक्षणः परिणामः कटकमुकुटादिस्तस्योत्पत्तिः, एवं कटकादेरपि प्रत्युत्पन्नत्वादिलक्षणः परिणाम उत्पत्तिः । एवमवस्थापरिणामो नवपुराणत्वादिरुत्पत्तिः । अपक्षयस्त्ववयवह्रासो नाश एव । तस्माज्जन्मादिषु यथास्वमन्तर्भावाद्वृद्ध्यादयः पृथङ्नोक्ता इत्यर्थः ।

अथैते वृद्ध्यादयो न जन्मादिष्वन्तर्भवन्ति, तथाप्युत्पत्तिस्थितिभङ्गमेवोपादातव्यम् । तथा सति हि तत्प्रतिपादके “यतो वा इमानि भूतानि” (तै.उ. ३-१-१) इति वेदवाक्ये बुद्धिस्थीकृते जगन्मूलकारणं ब्रह्म लक्षितं भवति । अन्यथा तु जायतेऽस्ति वर्धते इत्यादीनां ग्रहणे तत्प्रतिपादकं नैरुक्तवाक्यं बुद्धौ भवेत् , तच्च न मूलकारणप्रतिपादनपरम् , महासर्गादूर्ध्वं स्थितिकालेऽपि तद्वाक्योदितानां जन्मादीनां भावविकाराणामुपपत्तेः, इति शङ्कानिराकरणार्थं वेदोक्तोत्पत्तिस्थितिभङ्गग्रहणमित्याह -

यास्कपरिपठितानां त्विति ।

नन्वेवमप्युत्पत्तिमात्रं सूच्यताम् , तन्नान्तरीयकतया तु स्थितिभङ्गं गम्यत इत्यत आह -

योत्पत्तिर्ब्रह्मणः

कारणादिति । त्रिभिरस्योपादानत्वं सूच्यते । उत्पत्तिमात्रं तु निमित्तकारणसाधारणमिति नोपादानं सूचयेत् ।

तदिदमुक्तम् -

तत्रैवेति ।

पूर्वोक्तानां कार्यकारणविशेषणानां प्रयोजनमाह -

न यथोक्तेति ।

तदनेन प्रबन्धेन प्रतिज्ञाविषयस्य ब्रह्मस्वरूपस्य लक्षणद्वारेण सम्भावनोक्ता । तत्र प्रमाणं वक्तव्यम् । यथाहुर्नैयायिकाः - “सम्भावितः प्रतिज्ञायां पक्षः साध्येत हेतुना । न तस्य हेतुभिस्त्राणमुत्पतन्नेव यो हतः” ॥

यथा च वन्ध्या जननी” इत्यादिरिति । इत्थं नाम जन्मादि सम्भावनाहेतुः, यदन्ये वैशेषिककादय इत एवानुमानादीश्वरविनिश्चयमिच्छन्तीति सम्भावनाहेतुतां द्रढयितुमाह -

एतदेवेति ।