ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः प्रथमः पादः
भामतीव्याख्या
 
ब्रह्म जिज्ञासितव्यमित्युक्तम्किंलक्षणकं पुनस्तद्ब्रह्मेत्यत आह भगवान्सूत्रकारः
ब्रह्म जिज्ञासितव्यमित्युक्तम्किंलक्षणकं पुनस्तद्ब्रह्मेत्यत आह भगवान्सूत्रकारः

एतस्य सूत्रस्य पातनिकामाह भाष्यकारः -

ब्रह्म जिज्ञासितव्यमित्युक्तम् ।

किंलक्षणं पुनस्तद्ब्रह्म ।

यत्र यद्यपि ब्रह्मस्वरूपज्ञानस्य प्रधानस्य प्रतिज्ञया तदङ्गान्यपि प्रमाणादीनि प्रतिज्ञातानि, तथापि स्वरूपस्य प्राधान्यात्तदेवाक्षिप्य प्रथमं समर्थ्यते । तत्र यद्यावदनुभूयते तत्सर्वं परिमितमविशुद्धमबुद्धं विध्वंसि, न तेनोपलब्धेन तद्विरुद्धस्य नित्यशुद्धबुद्धमुक्तस्वभावस्य ब्रह्मणः स्वरूपं शक्यं लक्षयितुम् , न हि जातु कश्चित्कृतकत्वेन नित्यं लक्षयति । न च तद्धर्मेण नित्यत्वादिना तल्लक्ष्यते, तस्यानुपलब्धचरत्वात् । प्रसिद्धं हि लक्षणं भवति, नात्यन्ताप्रसिद्धम् । एवं च न शब्दोऽप्यत्र प्रक्रमते, अत्यन्ताप्रसिद्धतया ब्रह्मणोऽपदार्थस्यावाक्यार्थत्वात् । तस्माल्लक्षणाभावात् , न ब्रह्म जिज्ञासितव्यमित्यात्याक्षेपाभिप्रायः । तमिममाक्षेपं भगवान् सूत्रकारः परिहरति - “जन्माद्यस्य यतः” (ब्र. सू. १ । १ । २) इति । मा भूदनुभूयमानं जगत्तद्धर्मतया तादात्म्येन वा ब्रह्मणो लक्षणम् , तदुत्पत्त्या तु भविष्यति । देशान्तरप्राप्तिरिव सवितुर्व्रज्याया इति तात्पर्यार्थः ।