चोदयति -
नन्विहापीति ।
एतावतैवाधिकरणार्थे समाप्ते वक्ष्यमाणाधिकरणार्थमनुवदन् सुहृद्भावेन परिहरति -
न वेदान्तेति ।
वेदान्तवाक्यकुसुमग्रथनार्थतामेव दर्शयति -
वेदान्तेति ।
विचारस्याध्यवसानं सवासनाविद्याद्वयोच्छेदः । ततो हि ब्रह्मावगतेर्निवृत्तिराविर्भावः । तत्किं ब्रह्मणि शब्दादृते न मानान्तरमनुसरणीयम् ।
तथा च कुतो मननम् , कुतश्च तदनुभवः साक्षात्कार इत्यत आह -
सत्सु तु वेदान्तवाक्येष्विति ।
अनुमानं वेदान्ताविरोधि तदुपजीवि चेत्यपि द्रष्टव्यम् । शब्दाविरोधिन्या तदुपजीविन्या च युक्त्या विवेचनं मननम् । युक्तिश्च अर्थापत्तिरनुमानं वा ।
स्यादेतत् । यथा धर्मे न पुरुषबुद्धिसाहाय्यम् , एवं ब्रह्मण्यपि कस्मान्न भवतीत्यत आह -
न धर्मजिज्ञासायामिवेति ।
श्रुत्यादय इति ।
श्रुतीतिहासपुराणस्मृतयः प्रमाणम् । अनुभवोऽन्तःकरणवृत्तिभेदो ब्रह्मसाक्षात्कारस्तस्याविद्यानिवृत्तिद्वारेण ब्रह्मस्वरूपाविर्भावः प्रमाणफलम् । तच्च फलमिव फलमिति गमयितव्यम् ।
यद्यपि धर्मजिज्ञासायामपि सामग्र्यां प्रत्यक्षादीनां व्यापारस्तथापि साक्षान्नास्ति । ब्रह्मजिज्ञासायां तु साक्षादनुभवादीनां सम्भवोऽनुभवार्था च ब्रह्मजिज्ञासेत्याह -
अनुभवावसानत्वात् ।
ब्रह्मानुभवो ब्रह्मसाक्षात्कारः परः पुरुषार्थः, निर्मृष्टनिखिलदुःखपरमानन्दरूपत्वादिति ।
ननु भवतु ब्रह्मानुभवार्था जिज्ञासा, तदनुभव एव त्वशक्यः, ब्रह्मणस्तद्विषयत्वायोग्यत्वादित्यत आह -
भूतवस्तुविषयत्वाच्च ब्रह्मविज्ञानस्य ।
व्यतिरेकसाक्षात्कारस्य विकल्परूपो विषयविषयिभावः ।
नत्वेवं धर्मज्ञानमनुभवावसानम् , तदनुभवस्य स्वयमपुरुषार्थत्वात् , तदनुष्ठानसाध्यत्वात्पुरुषार्थस्य, अनुष्ठानस्य च विनाप्यनुभवं शाब्दज्ञानमात्रादेव सिद्धेरित्याह -
कर्तव्ये हीत्यादिना ।
न चायं साक्षात्कारविषयतायोग्योऽप्यवर्तमानत्वात् , अवर्तमानश्चानवस्थितत्वादित्याह -
पुरुषाधीनेति ।
पुरुषाधीनत्वमेव लौकिकवैदिककार्याणामाह -
कर्तुमकर्तुमिति ।
लौकिकं कार्यमनवस्थितमुदाहरति -
यथाश्वेनेति ।
लौकिकेनोदाहरणेन सह वैदिकमुदाहरणं समुच्चिनोति -
तथातिरात्र इति ।
कर्तुमकर्तुमित्यस्येदमुदाहरणमुक्तम् । कर्तुमन्यथा वा कर्तुमित्यस्योदाहरणमाह -
उदित इति ।
स्यादेतत् । पुरुषस्वातन्त्र्यात्कर्तव्ये विधिप्रतिषेधानामानर्थक्यम् , अतदधीनत्वात्पुरुषप्रवृत्तिनिवृत्त्योरित्यत आह -
विधिप्रतिषेधाश्चात्रार्थवन्तः स्युः ।
गृह्णातीति विधिः । न गृह्णातीति प्रतिषेधः । उदितानुदितहोमयोर्विधी । एवं नारास्थिस्पर्शननिषेधो ब्रह्मघ्नश्च तद्वारणविधिरित्येवंजातीयका विधिप्रतिषेधा अर्थवन्तः ।
कुत इत्यत आह -
विकल्पोत्सर्गापवादाश्च ।
चो हेतौ । यस्माद्ग्रहणाग्रहणयोरुदितानुदितहोमयोश्च विरोधात्समुच्चयासम्भवे तुल्यबलतया च बाध्यबाधकभावाभावे सत्यगत्या विकल्पः । नारास्थिस्पर्शननिषेधतद्वारणायोश्च विरुद्धयोरतुल्यबलतया न विकल्पः । किन्तु सामान्यशास्त्रस्य स्पर्शननिषेधस्य धारणविधिविषयेण विशेषशास्त्रेण बाधः । एतदुक्तं भवति - विधिप्रतिषेधैरेव स तादृशो विषयोऽनागतोत्पाद्यरूप उपनीतः, येन पुरुषस्य विधिनिषेधाधीनप्रवृत्तिनिवृत्त्योरपि स्वातन्त्र्यं भवतीति ।
भूते वस्तुनि तु नेयमस्ति विधेत्याह -
न तु वस्त्वेवं नैवमिति ।
तदनेन प्रकारविकल्पो निरस्तः ।
प्रकारिविकल्पं निषेधति -
अस्ति नास्तीति ।
स्यादेतत् । भूतेऽपि वस्तुनि विकल्पो दृष्टः, यथा स्थाणुर्वा पुरुषो वेति, तत्कथं न वस्तु विकल्प्यत इत्यत आह -
विकल्पनास्त्विति ।
पुरुषबुद्धिः = अन्तःकरणं, तदपेक्षा विकल्पनाः = संशयविपर्यासाः । सवासनमनोमात्रयोनयो वा, यथा स्वप्ने । सवासनेन्द्रियमनोयोनयो वा, यथास्थाणुर्वा पुरुषो वेतिस्थाणौ संशयः, पुरुष एवेति वा विपर्यासः । अन्यशब्देन वस्तुतः स्थाणोरन्यस्य पुरुषस्याभिधानात् । न तु पुरुषतत्त्वं वा स्थाणुतत्त्वं वापेक्षन्ते । समानधर्मधर्मिदर्शनमात्राधीनजन्मत्वात् । तस्मादयथावस्तवो विकल्पना न वस्तु विकल्पयन्ति वान्यथयन्ति वेत्यर्थः ।
तत्त्वज्ञानं तु न बुद्धितन्त्रम् , किं तु वस्तुतन्त्रम् , अतस्ततो वस्तुविनिश्चयो युक्तः, न तु विकल्पनाभ्य इत्याह -
न वस्तुयाथात्म्येति ।
एवमुक्तेन प्रकारेण भूतवस्तुविषयाणां ज्ञानानां प्रामाण्यस्य वस्तुतन्त्रतां प्रसाध्य ब्रह्मज्ञानस्य वस्तुतन्त्रतामाह -
तत्रैवं सतीति ।
अत्र चोदयति -
ननु भूतेति ।
यत्किल भूतार्थं वाक्यं तत्प्रमाणान्तरगोचरार्थतयानुवादकं दृष्टम् । यथा नद्यास्तीरे फलानि सन्तीति । तथा च वेदान्ताः । तस्मात् भूतार्थतया प्रमाणान्तरदृष्टमेवार्थमनुवदेयुः । उक्तं च ब्रह्मणि जगज्जन्मादिहेतुकमनुमानं प्रमाणान्तरम् । एवं च मौलिकं तदेव परीक्षणीयम् , न तु वेदान्तवाक्यानि तदधीनसत्यत्वानीति कथं वेदान्तवाक्यग्रथनार्थता सूत्राणामित्यर्थः ।
परिहरति -
न । इन्द्रियाविषयत्वेति ।
कस्मात्पुनर्नेन्द्रियविषयत्वं प्रतीच इत्यत आह -
स्वभावत इति ।
अत एव श्रुतिः - “पराञ्चि खानि व्यतृणत् स्वयम्भूस्तस्मात्पराङ्पश्यति नान्तरात्मन्” (क. उ. २ । १ । १) इति ।
सति हीन्द्रियेति ।
प्रत्यगात्मनस्त्वविषयत्वमुपपादितम् । यथा च सामान्यतो दृष्टमप्यनुमानं ब्रह्मणि न प्रवर्तते तथोपरिष्टान्निपुणतरमुपपादयिष्यामः । उपपादितं चैतदस्माभिर्विस्तरेण न्यायकणिकायाम् । न च भूतार्थतामात्रेणानुवादतेत्युपरिष्टादुपपादयिष्यामः । तस्मात्सर्वमवदातम् । श्रुतिश्च - “यतो वा”(तै. उ. ३ । १ । १) इति जन्म दर्शयति, “येन जातानि जीवन्ति” इति जीवनं स्थितिम् , “यत्प्रयन्ति” इति तत्रैव लयम् ।
तस्य च निर्णयवाक्यम् ।
अत्र च प्रधानादिसंशये निर्णयवाक्यम् -
आनन्दाद्ध्येवेति ।
एतदुक्तं भवति - यथा रज्ज्वज्ञानसहितरज्जूपादाना हि धारा रज्ज्वां सत्यामस्ति, रज्ज्वामेव च लीयते, एवमविद्यासहितब्रह्मोपादानं जगज्जायते, ब्रह्मण्येवास्ति, तत्रैव च लीयत इति सिद्धम् ॥ २ ॥