शास्त्रयोनित्वात् ॥
न केवलं जगद्योनित्वादस्य भगवतः सर्वज्ञता, शास्त्रयोनित्वादपि बोद्धव्या ।
शास्त्रयोनित्वस्य सर्वज्ञतासाधनत्वं समर्थयते -
महत ऋग्वेदादेः शास्त्रस्येति ।
चातुर्वर्ण्यस्य चातुराश्रम्यस्य च यथायथं निषेकादिश्मशानान्तासु ब्राह्ममुहूर्तोपक्रमप्रदोषपरिसमापनीयासु नित्यनैमित्तिककाम्यकर्मपद्धतिषु च ब्रह्मतत्त्वे च शिष्याणां शासनात् शास्त्रमृग्वेदादिः । अत एव महाविषयत्वात् महत् ।
न केवलं महाविषयत्वेनास्य महत्त्वम् , अपि त्वनेकाङ्गोपाङ्गोपकरणतयापीत्याह -
अनेकविद्यास्थानोपबृंहितस्य ।
पुराणन्यायमीमांसादयो दश विद्यास्थानानि तैस्तया तया द्वारोपकृतस्य । तदनेन समस्तशिष्टजनपरिग्रहेणाप्रामाण्यशङ्काप्यपाकृता । पुराणादिप्रणेतारो हि महर्षयः शिष्टास्तैस्तया तया द्वारा वेदान्व्याचक्षाणैस्तदर्थञ्चादरेणानुतिष्ठद्भिः परिगृहीतो वेद इति ।
न चायमनवबोधको नाप्यस्पष्टबोधको येनाप्रमाणं स्यादित्याह -
प्रदीपवत्सर्वार्थावद्योतिनः ।
सर्वमर्थजातं सर्वथावबोधयन्नानवबोधको नाप्यस्पष्टबोधक इत्यर्थः ।
अत एव
सर्वज्ञकल्पस्य -
सर्वज्ञसदृशस्य ।
सर्वज्ञस्य हि ज्ञानं सर्वविषयं, शास्त्रस्याप्यभिधानं सर्वविषयमिति सादृश्यम् । तदेवमन्वयमुक्त्वा व्यतिरेकमप्याह -
न हीदृशस्येति ।
सर्वज्ञस्य गुणः सर्वविषयतातदन्वितं शास्त्रम् , अस्यापि सर्वविषयत्वात् ।
उक्तमर्थं प्रमाणयति -
यद्यद्विस्तरार्थं शास्त्रं यस्मात्पुरुषविशेषात्सम्भवति स -
पुरुषविशेषः
ततोऽपि -
शास्त्रात्
अधिकतरविज्ञानः
इति योजना । अद्यत्वेऽप्यस्मदादिभिर्यत्समीचीनार्थविषयं शास्त्रं विरच्यते तत्रास्माकं वक्तृणां वाक्याज्ज्ञानमधिकविषयम् । नहि ते तेऽसाधारणधर्मा अनुभूयमाना अपि शक्या वक्तुम् । न खल्विक्षुक्षीरगुडादीनां मधुररसभेदाः शक्याः सरस्वत्याप्याख्यातुम् । विस्तरार्थमपि वाक्यं न वक्तृज्ञानेन तुल्यविषयमिति कथयितुं विस्तरग्रहणम् ।
सोपनयं निगमनमाह -
किमु वक्तव्यमिति ।
वेदस्य यस्मात् महतो भूतात् योनेः सम्भवः, तस्य महतो भूतस्य ब्रह्मणो निरतिशयं सर्वज्ञत्वं च सर्वशक्तित्वं च किमु वक्तव्यमिति योजना ।
अनेकशाखेति ।
अत्र चानेकशाखाभेदभिन्नस्यवेदस्येत्यादिः सम्भव इत्यन्त उपनयः । तस्येत्यादि सर्वशक्तित्वञ्चेत्यन्तं निगमनम् ।
अप्रयत्नेनैवेति ।
ईषत्प्रयत्नेन, यथालवणा यवागूरिति । देवर्षयो हि महापरिश्रमेणापि यत्राशक्तस्तदयमीषत्प्रयत्नेन लीलयैव करोतीति निरतिशयमस्य सर्वज्ञत्वं सर्वशक्तित्वं चोक्तं भवति । अप्रयत्नेनास्य वेदकर्तृत्वे श्रुतिरुक्ता - “अस्य महतो भूतस्य”(बृ. उ. २ । ४ । १०) इति । येऽपि तावत् वर्णानां नित्यत्वमास्थिषत तैरपि पदवाक्यादीनामनित्यत्वमभ्युपेयम् । आनुपूर्वीभेदवन्तो हि वर्णाः पदम् । पदानि चानुपूर्वीभेदवन्ति वाक्यम् । व्यक्तिधर्मश्चानुपूर्वी न वर्णधर्मः, वर्णानां नित्यानां विभूनां च कालतो देशतो वा पौर्वापर्यायोगात् । व्यक्तिश्चानित्येति कथं तदुपगृहीतानां वर्णानां नित्यानामपि पदता नित्या । पदानित्यतया च वाक्यादीनामप्यनित्यता व्याख्याता । तस्मान्नृत्तानुकरणवत्पदाद्यनुकरणम् । यथा हि यादृशं गात्रचलनादि नर्तकः करोति तादृशमेव शिक्ष्यमाणानुकरोति नर्तकी, न तु तदेव व्यनक्ति, एवं यादृशीमानुपूर्वीं वैदिकानां वर्णपदादीनां करोत्यध्यापयिता तादृशीमेवानुकरोति माणवकः, न तु तामेवोच्चारयति, आचार्यव्यक्तिभ्यो माणवकव्यक्तीनामन्यत्वात् । तस्मान्नित्यानित्यवर्णवादिनां न लौकिकवैदिकपदवाक्यादिपौरुषेयत्वे विवादः, केवलं वेदवाक्येषु पुरुषस्वातन्त्र्यास्वातन्त्र्ये विप्रतिपत्तिः । यथाहुः - “यत्नतः प्रतिषेध्या नः पुरुषाणां स्वतन्त्रता” । तत्र सृष्टिप्रलयमनिच्छन्तो जैमिनीया वेदाध्ययनं प्रत्यस्मादृशगुरुशिष्यपरम्परामविच्छिन्नामिच्छन्ते वेदमनादिमाचक्षते । वैयासिकं तु मतमनुवर्तमानाः श्रुतिस्मृतीतिहासादिसिद्धसृष्टिप्रलयानुसारेणानाद्यविद्योपधानलब्धसर्वशक्तिज्ञानस्यापि परमात्मनो नित्यस्य वेदानां योनेरपि न तेषु स्वातन्त्र्यम् , पूर्वपूर्वसर्गानुसारेण तादृशतादृशानुपूर्वीविरचनात् । यथा हि - यागादिब्रह्महत्यादयोऽर्थानर्थहेतवो ब्रह्मविवर्ता अपि न सर्गान्तरेऽपि विपरीयन्ते । न हि जातु क्वचित्सर्गे ब्रह्महत्याऽर्थहेतुरनर्थहेतुश्चाश्वमेधो भवति । अग्निर्वा क्लेदयति । आपो वा दहन्ति । तद्वत् । यथात्र सर्गे नियतानुपूर्व्यं वेदाध्ययनमभ्युदयनिःश्रेयसहेतुरन्यथा तदेव वाग्वज्रतयानर्थहेतुः, एवं सर्गान्तरेष्वपीति तदनुरोधात्सर्वज्ञोऽपि सर्वशक्तिरपि पूर्वपूर्वसर्गानुसारेण वेदान्विरचयन्न स्वतन्त्रः । पुरुषास्वातन्त्र्यमात्रं चापौरुषेयत्वं रोचयन्ते जैमिनीया अपि । तच्चास्माकमपि समानमन्यत्राभिनिवेशात् । न चैकस्य प्रतिभानेऽनाश्वास इति युक्तम् । न हि बहूनामप्यज्ञानां विज्ञानां वाशयदोषवतां प्रतिभाने युक्त आश्वासः । तत्त्वज्ञानवतश्चापास्तसमस्तदोषस्यैकस्यापि प्रतिभाने युक्त एवाश्वासः । सर्गादिभुवां प्रजापतिदेवर्षीणां धर्मज्ञानवैराग्यैश्वर्यसम्पन्नानामुपपद्यते तत्स्वरूपावधारणम् , तत्प्रत्ययेन चार्वाचीनानामपि तत्र संप्रत्यय इत्युपपन्नं ब्रह्मणः शास्त्रयोनित्वम् , शास्त्रस्य चापौरुषेयत्वम् , प्रामाण्यं चेति ।।
इति प्रथमवर्णकम् ।।