ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः प्रथमः पादः
भामतीव्याख्या
 
शास्त्रयोनित्वात् ॥ ३ ॥
अथवा यथोक्तमृग्वेदादिशास्त्रं योनिः कारणं प्रमाणमस्य ब्रह्मणो यथावत्स्वरूपाधिगमेशास्त्रादेव प्रमाणात् जगतो जन्मादिकारणं ब्रह्माधिगम्यत इत्यभिप्रायःशास्त्रमुदाहृतं पूर्वसूत्रेयतो वा इमानि भूतानि जायन्ते’ (तै. उ. ३ । १ । १) इत्यादिकिमर्थं तर्हीदं सूत्रम् , यावता पूर्वसूत्र एव एवंजातीयकं शास्त्रमुदाहरता शास्त्रयोनित्वं ब्रह्मणो दर्शितम्उच्यतेतत्र सूत्राक्षरेण स्पष्टं शास्त्रस्यानुपादानाज्जन्मादिसूत्रेण केवलमनुमानमुपन्यस्तमित्याशङ्क्येत; तामाशङ्कां निवर्तयितुमिदं सूत्रं प्रववृते — ‘शास्त्रयोनित्वात्इति ॥ ३ ॥

वर्णकान्तरमारभते -

अथवेति ।

पूर्वेणाधिकरणेन ब्रह्मस्वरूपलक्षणासम्भवाशङ्कां व्युदस्य लक्षणसम्भव उक्तः । तस्यैव तु लक्षणस्यानेनानुमानत्वाशङ्कामपाकृत्यागमोपदर्शनेन ब्रह्मणि शास्त्रं प्रमाणमुक्तम् । अक्षरार्थस्त्वतिरोहितः ॥ ३ ॥