ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः प्रथमः पादः
भामतीव्याख्या
 
तत्तु समन्वयात् ॥ ४ ॥
अत्रापरे प्रत्यवतिष्ठन्तेयद्यपि शास्त्रप्रमाणकं ब्रह्म, तथापि प्रतिपत्तिविधिविषयतयैव शास्त्रेण ब्रह्म समर्प्यतेयथा यूपाहवनीयादीन्यलौकिकान्यपि विधिशेषतया शास्त्रेण समर्प्यन्ते, तद्वत्कुत एतत् ? प्रवृत्तिनिवृत्तिप्रयोजनत्वाच्छास्त्रस्यतथा हि शास्त्रतात्पर्यविद आहुः — ‘दृष्टो हि तस्यार्थः कर्मावबोधनं नामइति; ‘चोदनेति क्रियायाः प्रवर्तकं वचनम्तस्य ज्ञानमुपदेशः’ (जै. सू. १ । १ । ५), तद्भूतानां क्रियार्थेन समाम्नायः’ (जै. सू. १ । १ । २५) आम्नायस्य क्रियार्थत्वादानर्थक्यमतदर्थानाम्’ (जै. सू. १ । २ । १) इति अतः पुरुषं क्वचिद्विषयविशेषे प्रवर्तयत्कुतश्चिद्विषयविशेषान्निवर्तयच्चार्थवच्छास्त्रम्तच्छेषतया चान्यदुपयुक्तम्तत्सामान्याद्वेदान्तानामपि तथैवार्थवत्त्वं स्यात्सति विधिपरत्वे यथा स्वर्गादिकामस्याग्निहोत्रादिसाधनं विधीयते, एवममृतत्वकामस्य ब्रह्मज्ञानं विधीयत इति युक्तम्न्विह जिज्ञास्यवैलक्षण्यमुक्तम्कर्मकाण्डे भव्यो धर्मो जिज्ञास्यः, इह तु भूतं नित्यनिर्वृत्तं ब्रह्म जिज्ञास्यमिति; तत्र धर्मज्ञानफलादनुष्ठानापेक्षाद्विलक्षणं ब्रह्मज्ञानफलं भवितुमर्हतिनार्हत्येवं भवितुम् , कार्यविधिप्रयुक्तस्यैव ब्रह्मणः प्रतिपाद्यमानत्वात्आत्मा वा अरे द्रष्टव्यः’ (बृ. उ. २ । ४ । ५) आत्मापहतपाप्मा ... सोऽन्वेष्टव्यः विजिज्ञासितव्यः’ (छा. उ. ८ । ७ । १) आत्मेत्येवोपासीत’ (बृ. उ. १ । ४ । ७) आत्मानमेव लोकमुपासीत’ (बृ. उ. १ । ४ । १५) ब्रह्म वेद ब्रह्मैव भवति’ (मु. उ. ३ । २ । ९) इत्यादिषु विधानेषु सत्सु, ‘कोऽसावात्मा ?’ ‘किं तद्ब्रह्म ?’ इत्याकाङ्क्षायां तत्स्वरूपसमर्पणेन सर्वे वेदान्ता उपयुक्ताःनित्यः सर्वज्ञः सर्वगतो नित्यतृप्तो नित्यशुद्धबुद्धमुक्तस्वभावो विज्ञानमानन्दं ब्रह्म इत्येवमादयःतदुपासनाच्च शास्त्रदृष्टोऽदृष्टो मोक्षः फलं भविष्यतिकर्तव्यविध्यननुप्रवेशे तु वस्तुमात्रकथने हानोपादानासम्भवात्सप्तद्वीपा वसुमती’ ‘राजासौ गच्छतिइत्यादिवाक्यवद्वेदान्तवाक्यानामानर्थक्यमेव स्यात्ननु वस्तुमात्रकथनेऽपिरज्जुरियम् , नायं सर्पःइत्यादौ भ्रान्तिजनितभीतिनिवर्तनेनार्थवत्त्वं दृष्टम्तथेहाप्यसंसार्यात्मवस्तुकथनेन संसारित्वभ्रान्तिनिवर्तनेनार्थवत्त्वं स्यात्स्यादेतदेवम् , यदि रज्जुस्वरूपश्रवणमात्रेणेव सर्पभ्रान्तिः, संसारित्वभ्रान्तिर्ब्रह्मस्वरूपश्रवणमात्रेण निवर्तेत; तु निवर्ततेश्रुतब्रह्मणोऽपि यथापूर्वं सुखदुःखादिसंसारिधर्मदर्शनात्श्रोतव्यो मन्तव्यो निदिध्यासितव्यः’ (बृ. उ. २ । ४ । ५) इति श्रवणोत्तरकालयोर्मनननिदिध्यासनयोर्विधिदर्शनात्तस्मात्प्रतिपत्तिविधिविषयतयैव शास्त्रप्रमाणकं ब्रह्माभ्युपगन्तव्यमिति

आचार्यैकदेशीयानां मतमुत्थापयति -

अत्रापरे प्रत्यवतिष्ठन्त इति ।

तथा हि- “अज्ञातसङ्गतित्वेन शास्त्रत्वेनार्थवत्तया । मननादिप्रतीत्या च कार्यार्थाद्ब्रह्मनिश्चयः” ॥ न खलु वेदान्ताः सिद्धब्रह्मरूपपरा भवितुमर्हन्ति, तत्राविदितसङ्गतित्वात् । यत्र हि शब्दा लोकेन न प्रयुज्यन्ते तत्र न तेषां सङ्गतिग्रहः । न चाहेयमनुपादेयं रूपमात्रं कश्चिद्विवक्षति प्रेक्षावान् , तस्याबुभुत्सितत्वात् । अबुभुत्सितावबोधने च प्रेक्षावत्ताविघातात् । तस्मात्प्रतिपित्सितं प्रतिपिपादयिषन्नयं लोकः प्रवृत्तिनिवृत्तिहेतुभूतमेवार्थं प्रतिपादयेत् , कार्यं चावगतं तद्धेतुरिति तदेव बोधयेत् । एवं च वृद्धव्यवहारप्रयोगात् पदानां कार्यपरतामवगच्छति । तत्र किञ्चित्साक्षात्कार्याभिधायकं, किञ्चित्तु कार्यार्थस्वार्थाभिधायकं, न तु भूतार्थपरता पदानाम् । अपि च नरान्तरस्य व्युत्पन्नस्यार्थप्रत्ययमनुमाय तस्य च शब्दभावाभावानुविधानमवगम्य शब्दस्य तद्विषयवाचकत्वं निश्चेतव्यम् । न च भूतार्थरूपमात्रप्रत्यये परनरवर्तिनि किञ्चिल्लिङ्गमस्ति । कार्यप्रत्यये तु नरान्तरवर्तिनि प्रवृत्तिनिवृत्ती स्तो हेतू इत्यज्ञातसङ्गतित्वान्न ब्रह्मरूपपरा वेदान्ताः । अपि च वेदान्तानां वेदत्वाच्छास्त्रत्वप्रसिद्धिरस्ति । प्रवृत्तिनिवृत्तिपराणां च सन्दर्भाणां शास्त्रत्वम् । यथाहुः - “प्रवृत्तिर्वा निवृत्तिर्वा नित्येन कृतकेन वा । पुंसां येनोपदिश्येत तच्छास्त्रमभिधीयते” ॥ इति । तस्माच्छास्त्रत्वप्रसिद्ध्या व्याहतमेषां ब्रह्मस्वरूपपरत्वम् । अपि च न ब्रह्मरूपप्रतिपादनपराणामेषामर्थवत्त्वं पश्यामः । न च रज्जुरियं न भुजङ्ग इति यथाकथञ्चिल्लक्षणया वाक्यार्थतत्त्वनिश्चये यथा भयकम्पादिनिवृत्तिः, एवं “तत्त्वमसि”(छा. उ. ६ । ८ । ७) इतिवाक्यार्थावगमान्निवृत्तिर्भवति सांसारिकाणां धर्माणाम् । श्रुतवाक्यार्थस्यापि पुंसस्तेषां तादवस्थ्यात् । अपि च यदि श्रुतब्रह्मणो भवति सांसारिकधर्मनिवृत्तिः, कस्मात्पुनः श्रवणस्योपरि मननादयः श्रूयन्ते । तस्मात्तेषां वैयर्थ्यप्रसङ्गादपि न ब्रह्मस्वरूपपरा वेदान्ताः, किं त्वात्मप्रतिपत्तिविषयकार्यपराः । तच्च कार्यं स्वात्मनि नियोज्यं नियुञ्जानं नियोग इति च मानान्तरापूर्वतयापूर्वमिति चाख्यायते । न च विषयानुष्ठानं विना तत्सिद्धिरिति स्वसिद्ध्यर्थं तदेव कार्यं स्वविषयस्य करणस्यात्मज्ञानस्यानुष्ठानमाक्षिपति । यथा च कार्यं स्वविषयाधीननिरूपणमिति ज्ञानेन विषेयेण निरूप्यते, एवं ज्ञानमपि स्वविषयमात्मानमन्तरेणाशक्यनिरूपणमिति तन्निरूपणाय तादृशमात्मानमाक्षिपति, तदेव कार्यम् । यथाहुः - “यत्तु तत्सिद्ध्यर्थमुपादीयते आक्षिप्यते तदपि विधेयमिति तन्त्रे व्यवहारः” इति । विधेयता च नियोगविषयस्य ज्ञानस्य भावार्थतयानुष्ठेयता, तद्विषयस्य त्वात्मनः स्वरूपसत्ताविनिश्चितिः । आरोपिततद्भावस्य त्वन्यस्य निरूपकत्वे तेन तन्निरूपितं न स्यात् । तस्मात्तादृगात्मप्रतिपत्तिविधिपरेभ्यो वेदान्तेभ्यस्तादृगात्मविनिश्चयः ।

तदेतत्सर्वमाह -

यद्यपीति ।

विधिपरेभ्योऽपि वस्तुतत्त्वविनिश्चय इत्यत्र विदर्शनमुक्तम् -

यथा यूपेति ।

'यूपे पशुं बध्नाति” इति बन्धनाय विनियुक्ते यूपे, तस्यालौकिकत्वात्कोऽसौ यूप इत्यपेक्षिते ‘खादिरो यूपो भवति’ , ‘यूपं तक्षति’ , ‘यूपमष्टाश्रीकरोति’ इत्यादिभिर्वाक्यैस्तक्षणादिविधिपरैरपि संस्काराविष्टं विशिष्टलक्षणसंस्थानं दारु यूप इति गम्यते । एवमाहवनीयादयोऽप्यवगन्तव्याः ।

प्रवृत्तिनिवृत्तिपरस्य शास्त्रत्वं न स्वरूपपरस्य, कार्य एव च सम्बन्धो न स्वरूपे, इति हेतुद्वयं भाष्यवाक्येनोपपादितम् -

प्रवृत्तिनिवृत्तिप्रयोजनत्वात् इत्यादिना तत्सामान्याद्वेदान्तानामपि तथैवार्थवत्त्वं स्यादित्यन्तेन ।

न च स्वतन्त्रं कार्यं नियोज्यमधिकारिणमनुष्ठातारमन्तरेणेति नियोज्यभेदमाह -

सति च विधिपरत्व इति ।

'ब्रह्म वेद ब्रह्मैव भवति” इति सिद्धवदर्थवादादवगतस्यापि ब्रह्मभवनस्य नियोज्यविशेषाकाङ्क्षायां ब्रह्म बुभूषोर्नियोज्यविशेषस्य रात्रिसत्रन्यायेन प्रतिलम्भः । पिण्डपितृयज्ञन्यायेन तु स्वर्गकामस्य नियोज्यस्य कल्पनायामर्थवादस्यासमवेतार्थतयात्यन्तपरोक्षा वृत्तिः स्यादिति । ब्रह्मभावश्चामृतत्वमिति अमृतत्वकामस्य इत्युक्तम् । अमृतत्वं चामृतत्वादेव, न कृतकत्वेन शक्यमनित्यमनुमातुम् । आगमविरोधादिति भावः ।

उक्तेन धर्मब्रह्मज्ञानयोर्वैलक्षण्येन विध्यविषयत्वं चोदयति -

नन्विति ।

परिहरति -

नार्हत्येवमिति ।

अत्र चात्मदर्शनं न विधेयम् । तद्धि दृशेरुपलब्धिवचनत्वात् श्रावणं वा स्यात्प्रत्यक्षं वा । प्रत्यक्षमपि लौकिकमहंप्रत्ययो वा, भावनाप्रकर्षपर्यन्तजं वा । तत्र श्रावणं न विधेयम् , स्वाध्यायविधिनैवास्य प्रापितत्वात् , कर्मश्रावणवत् । नापि लौकिकं प्रत्यक्षम् , तस्य नैसर्गिकत्वात् । न चौपनिषदात्मविषयं भावनाधेयवैशिष्ट्यं विधेयं, तस्योपासनाविधानादेव वाजिनवदनुनिष्पादितत्वात् । तस्मादौपनिषदात्मोपासना अमृतत्वकामं नियोज्यं प्रति विधीयते । ‘द्रष्टव्यः’ इत्यादयस्तु विधिसरूपा न विधयः इति ।

तदिदमुक्तम् -

तदुपासनाच्चेति ।

अर्थवत्तया मननादिप्रतीत्या चेत्यस्य शेषः प्रपञ्चो निगदव्याख्यातः ।