ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायःप्रथमः पादः
भामतीव्याख्या
 
तत्तु समन्वयात् ॥ ४ ॥
अत्राभिधीयते; कर्मब्रह्मविद्याफलयोर्वैलक्षण्यात्शारीरं वाचिकं मानसं कर्म श्रुतिस्मृतिसिद्धं धर्माख्यम् , यद्विषया जिज्ञासा अथातो धर्मजिज्ञासा’ (जै. सू. १ । १ । १) इति सूत्रिताअधर्मोऽपि हिंसादिः प्रतिषेधचोदनालक्षणत्वाज्जिज्ञास्यः परिहारायतयोश्चोदनालक्षणयोरर्थानर्थयोर्धर्माधर्मयोः फले प्रत्यक्षे सुखदुःखे शरीरवाङ्मनोभिरेवोपभुज्यमाने विषयेन्द्रियसंयोगजन्ये ब्रह्मादिषु स्थावरान्तेषु प्रसिद्धेमनुष्यत्वादारभ्य ब्रह्मान्तेषु देहवत्सु सुखतारतम्यमनुश्रूयतेततश्च तद्धेतोर्धर्मस्यापि तारतम्यं गम्यतेधर्मतारतम्यादधिकारितारतम्यम्प्रसिद्धं चार्थित्वसामर्थ्यादिकृतमधिकारितारतम्यम्तथा यागाद्यनुष्ठायिनामेव विद्यासमाधिविशेषादुत्तरेण पथा गमनम् , केवलैरिष्टापूर्तदत्तसाधनैर्धूमादिक्रमेण दक्षिणेन पथा गमनम् , तत्रापि सुखतारतम्यम् , तत्साधनतारतम्यं शास्त्रात् यावत्सम्पातमुषित्वा’ (छा. उ. ५ । १० । ५) इत्यस्माद्गम्यतेतथा मनुष्यादिषु स्थावरान्तेषु सुखलवश्चोदनालक्षणधर्मसाध्य एवेति गम्यते तारतम्येन वर्तमानःतथोर्ध्वगतेष्वधोगतेषु देहवत्सु दुःखतारतम्यदर्शनात्तद्धेतोरधर्मस्य प्रतिषेधचोदनालक्षणस्य तदनुष्ठायिनां तारतम्यं गम्यतेएवमविद्यादिदोषवतां धर्माधर्मतारतम्यनिमित्तं शरीरोपादानपूर्वकं सुखदुःखतारतम्यमनित्यं संसाररूपं श्रुतिस्मृतिन्यायप्रसिद्धम्तथा श्रुतिः वै सशरीरस्य सतः प्रियाप्रिययोरपहतिरस्तिइति यथावर्णितं संसाररूपमनुवदतिअशरीरं वाव सन्तं प्रियाप्रिये स्पृशतः’ (छा. उ. ८ । १२ । १) इति प्रियाप्रियस्पर्शनप्रतिषेधाच्चोदनालक्षणधर्मकार्यत्वं मोक्षाख्यस्याशरीरत्वस्य प्रतिषिध्यत इति गम्यतेधर्मकार्यत्वे हि प्रियाप्रियस्पर्शनप्रतिषेधो नोपपद्येतअशरीरत्वमेव धर्मकार्यमिति चेत् , तस्य स्वाभाविकत्वात्अशरीरꣳ शरीरेष्वनवस्थेष्ववस्थितम्महान्तं विभुमात्मानं मत्वा धीरो शोचति’ (क. उ. १ । २ । २२), अप्राणो ह्यमनाः शुभ्रः’ (मु. उ. २ । १ । २), असङ्गो ह्ययं पुरुषः’ (बृ. उ. ४ । ३ । १५) इत्यादिश्रुतिभ्यःअत एवानुष्ठेयकर्मफलविलक्षणं मोक्षाख्यमशरीरत्वं नित्यमिति सिद्धम्तत्र किञ्चित्परिणामिनित्यं यस्मिन्विक्रियमाणेऽपि तदेवेदमिति बुद्धिर्न विहन्यते; यथा पृथिव्यादि जगन्नित्यत्ववादिनाम् , यथा वा साङ्ख्यानां गुणाःइदं तु पारमार्थिकं कूटस्थनित्यं व्योमवत्सर्वव्यापि सर्वविक्रियारहितं नित्यतृप्तं निरवयवं स्वयंज्योतिःस्वभावम् , यत्र धर्माधर्मौ सह कार्येण कालत्रयं नोपावर्तेतेतदेतदशरीरत्वं मोक्षाख्यम्अन्यत्र धर्मादन्यत्राधर्मादन्यत्रास्मात्कृताकृतात्अन्यत्र भूताच्च भव्याच्च’ (क. उ. १ । २ । १४) इत्यादिश्रुतिभ्यःअतस्तद्ब्रह्म, यस्येयं जिज्ञासा प्रस्तुतातद्यदि कर्तव्यशेषत्वेनोपदिश्येत, तेन कर्तव्येन साध्यश्चेन्मोक्षोऽभ्युपगम्येत, अनित्य एव स्यात्त्रैवं सति यथोक्तकर्मफलेष्वेव तारतम्यावस्थितेष्वनित्येषु कश्चिदतिशयो मोक्ष इति प्रसज्येतनित्यश्च मोक्षः सर्वैर्मोक्षवादिभिरभ्युपगम्यतेअतो कर्तव्यशेषत्वेन ब्रह्मोपदेशो युक्तःअपि ब्रह्म वेद ब्रह्मैव भवति’ (मु. उ. ३ । २ । ९), क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे’ (मु. उ. २ । २ । ९), आनन्दं ब्रह्मणो विद्वान्न बिभेति कुतश्चन’ (तै. उ. २ । ९ । १), अभयं वै जनक प्राप्तोऽसि’ (बृ. उ. ४ । २ । ४,) तदात्मानमेवावेदहं ब्रह्मास्मीति, तस्मात्तत्सर्वमभवत्’ (वाजसनेयि ब्रह्मण. उ. १ । ४ । १०), तत्र को मोहः कः शोक एकत्वमनुपश्यतः’ (ई. उ. ७) इत्येवमाद्याः श्रुतयो ब्रह्मविद्यानन्तरमेव मोक्षं दर्शयन्त्यो मध्ये कार्यान्तरं वारयन्तितथा तद्धैतत्पश्यन्नृषिर्वामदेवः प्रतिपेदेऽहं मनुरभवं सूर्यश्च’ (बृ. उ. १ । ४ । १०) इति ब्रह्मदर्शनसर्वात्मभावयोर्मध्ये कर्तव्यान्तरवारणायोदाहार्यम्यथातिष्ठन्गायतिइति तिष्ठतिगायत्योर्मध्ये तत्कर्तृकं कार्यान्तरं नास्तीति गम्यतेत्वं हि नः पिता योऽस्माकमविद्यायाः परं पारं तारयसि’ (प्र. उ. ६ । ८), श्रुतं ह्ये मे भगवद्दृशेभ्यस्तरति शोकमात्मविदिति; सोऽहं भगवः शोचामि, तं मा भगवाञ्छोकस्य पारं तारयतु’ (छा. उ. ७ । १ । ३) तस्मै मृदितकषायाय तमसः पारं दर्शयति भगवान्सनत्कुमारः’ (छा. उ. ७ । २६ । २) इति चैवमाद्याः श्रुतयो मोक्षप्रतिबन्धनिवृत्तिमात्रमेवात्मज्ञानस्य फलं दर्शयन्तितथा आचार्यप्रणीतं न्यायोपबृंहितं सूत्रम्दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तरापायादपवर्गः’ (न्या. सू. १ । १ । २) इतिमिथ्याज्ञानापायश्च ब्रह्मात्मैकत्वविज्ञानाद्भवति चेदं ब्रह्मात्मैकत्वविज्ञानं सम्पद्रूपम्यथा अनन्तं वै मनोऽनन्ता विश्वेदेवा अनन्तमेव तेन लोकं जयति’ (बृ. उ. ३ । १ । ९) इति चाध्यासरूपम्यथा मनो ब्रह्मेत्युपासीत’ (छा. उ. ३ । १८ । १) आदित्यो ब्रह्मेत्यादेशः’ (छा. उ. ३ । १९ । १) इति मनआदित्यादिषु ब्रह्मदृष्ट्यध्यासःनापि विशिष्टक्रियायोगनिमित्तम् वायुर्वाव संवर्गः’ (छा. उ. ४ । ३ । १) प्राणो वाव संवर्गः’ (छा. उ. ४ । ३ । ३) इतिवत्नाप्याज्यावेक्षणादिकर्मवत्कर्माङ्गसंस्काररूपम्सम्पदादिरूपे हि ब्रह्मात्मैकत्वविज्ञानेऽभ्युपगम्यमाने, तत्त्वमसि’ (छा. उ. ६ । ८ । ७) अहं ब्रह्मास्मि’ (बृ. उ. १ । ४ । १०) अयमात्मा ब्रह्म’ (बृ. उ. २ । ५ । १९) इत्येवमादीनां वाक्यानां ब्रह्मात्मैकत्ववस्तुप्रतिपादनपरः पदसमन्वयः पीड्येतभिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः’ (मु. उ. २ । २ । ९) इति चैवमादीन्यविद्यानिवृत्तिफलश्रवणान्युपरुध्येरन्ब्रह्म वेद ब्रह्मैव भवति’ (मु. उ. ३ । २ । ९) इति चैवमादीनि तद्भावापत्तिवचनानि सम्पदादिरूपत्वे सामञ्जस्येनोपपद्येरन्तस्मान्न सम्पदादिरूपं ब्रह्मात्मैकत्वविज्ञानम्अतो पुरुषव्यापारतन्त्रा ब्रह्मविद्याकिं तर्हि ? प्रत्यक्षादिप्रमाणविषयवस्तुज्ञानवद्वस्तुतन्त्रैवएवंभूतस्य ब्रह्मणस्तज्ज्ञानस्य कयाचिद्युक्त्या शक्यः कार्यानुप्रवेशः कल्पयितुम् विदिक्रियाकर्मत्वेन कार्यानुप्रवेशो ब्रह्मणःअन्यदेव तद्विदितादथो अविदितादधि’ (के. उ. १ । ४) इति विदिक्रियाकर्मत्वप्रतिषेधात् , येनेदं सर्वं विजानाति तं केन विजानीयात्’ (बृ. उ. २ । ४ । १४) इति तथोपास्तिक्रियाकर्मत्वप्रतिषेधोऽपि भवति — ‘यद्वाचानभ्युदितं येन वागभ्युद्यतेइत्यविषयत्वं ब्रह्मण उपन्यस्य, तदेव ब्रह्म त्वं विद्धि, नेदं यदिदमुपासते’ (के. उ. १ । ५) इतिअविषयत्वे ब्रह्मणः शास्त्रयोनित्वानुपपत्तिरिति चेत् , ; अविद्याकल्पितभेदनिवृत्तिपरत्वाच्छास्त्रस्य हि शास्त्रमिदंतया विषयभूतं ब्रह्म प्रतिपिपादयिषतिकिं तर्हि ? प्रत्यगात्मत्वेनाविषयतया प्रतिपादयत् अविद्याकल्पितं वेद्यवेदितृवेदनादिभेदमपनयतितथा शास्त्रम्यस्यामतं तस्य मतं मतं यस्य वेद सःअविज्ञातं विजानतां विज्ञातमविजानताम्’ (के. उ. २ । ३) दृष्टेर्द्रष्टारं पश्येः’ (बृ. उ. ३ । ४ । २) विज्ञातेर्विज्ञातारं विजानीयाः’ (बृ. उ. ३ । ४ । २) इति चैवमादिअतोऽविद्याकल्पितसंसारित्वनिवर्तनेन नित्यमुक्तात्मस्वरूपसमर्पणान्न मोक्षस्यानित्यत्वदोषःयस्य तूत्पाद्यो मोक्षः, तस्य मानसं वाचिकं कायिकं वा कार्यमपेक्षत इति युक्तम्तथा विकार्यत्वे तयोः पक्षयोर्मोक्षस्य ध्रुवमनित्यत्वम् हि दध्यादि विकार्यम् उत्पाद्यं वा घटादि नित्यं दृष्टं लोके आप्यत्वेनापि कार्यापेक्षा, स्वात्मस्वरूपत्वे सत्यनाप्यत्वात्; स्वरूपव्यतिरिक्तत्वेऽपि ब्रह्मणो नाप्यत्वम् , सर्वगतत्वेन नित्याप्तस्वरूपत्वात्सर्वेण ब्रह्मण आकाशस्येवनापि संस्कार्यो मोक्षः, येन व्यापारमपेक्षेतसंस्कारो हि नाम संस्कार्यस्य गुणाधानेन वा स्यात् , दोषापनयनेन वा तावद्गुणाधानेन सम्भवति, अनाधेयातिशयब्रह्मस्वरूपत्वान्मोक्षस्यनापि दोषापनयनेन, नित्यशुद्धब्रह्मस्वरूपत्वान्मोक्षस्यस्वात्मधर्म एव सन् तिरोभूतो मोक्षः क्रिययात्मनि संस्क्रियमाणेऽभिव्यज्यतेयथा आदर्शे निघर्षणक्रियया संस्क्रियमाणे भास्वरत्वं धर्म इति चेत् , ; क्रियाश्रयत्वानुपपत्तेरात्मनःयदाश्रया हि क्रिया, तमविकुर्वती नैवात्मानं लभतेद्यात्मा क्रियया विक्रियेत, अनित्यत्वमात्मनः प्रसज्येतअविकार्योऽयमुच्यते’(भ. गी. २ । २५) इति चैवमादीनि वाक्यानि बाध्येरन्तच्चानिष्टम्तस्मान्न स्वाश्रया क्रिया आत्मनः सम्भवतिअन्याश्रयायास्तु क्रियाया अविषयत्वान्न तयात्मा संस्क्रियतेननु देहाश्रयया स्नानाचमनयज्ञोपवीतधारणादिना क्रियया देही संस्क्रियमाणो दृष्टः, ; देहादिसंहतस्यैवाविद्यागृहीतस्यात्मनः संस्क्रियमाणत्वात्प्रत्यक्षं हि स्नानाचमनादेर्देहसमवायित्वम्तया देहाश्रयया तत्संहत एव कश्चिविद्ययात्मत्वेन परिगृहीतः संस्क्रियत इति युक्तम्यथा देहाश्रयचिकित्सानिमित्तेन धातुसाम्येन तत्संहतस्य तदभिमानिन आरोग्यफलम् , ‘अहमरोगःइति यत्र बुद्धिरुत्पद्यतेएवं स्नानाचमनयज्ञोपवीतधारणादिकयाअहं शुद्धः संस्कृतःइति यत्र बुद्धिरुत्पद्यते, संस्क्रियते देहेन संहत एवतेनैव ह्यहंकर्त्रा अहंप्रत्ययविषयेण प्रत्ययिना सर्वाः क्रिया निर्वर्त्यन्तेतत्फलं एवाश्नाति, तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्योऽभिचाकशीति’ (मु. उ. ३ । १ । १) इति मन्त्रवर्णात्आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः’ (क. उ. १ । ३ । ४) इति तथा एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्माकर्माध्यक्षः सर्वभूताधिवासः साक्षी चेता केवलो निर्गुणश्च’ (श्वे. उ. ६ । ११) इति, पर्यगाच्छुक्रमकायमव्रणमस्नाविरं शुद्धमपापविद्धम्’ (ई. उ. ८) इति, एतौ मन्त्रावनाधेयातिशयतां नित्यशुद्धतां ब्रह्मणो दर्शयतःब्रह्मभावश्च मोक्षःतस्मान्न संस्कार्योऽपि मोक्षःअतोऽन्यन्मोक्षं प्रति क्रियानुप्रवेशद्वारं शक्यं केनचिद्दर्शयितुम्तस्माज्ज्ञानमेकं मुक्त्वा क्रियाया गन्धमात्रस्याप्यनुप्रवेश इह नोपपद्यतेननु ज्ञानं नाम मानसी क्रिया, ; वैलक्षण्यात्क्रिया हि नाम सा, यत्र वस्तुस्वरूपनिरपेक्षैव चोद्यते, पुरुषचित्तव्यापाराधीना , यथायस्यै देवतायै हविर्गृहीतं स्यात्तां मनसा ध्यायेद्वषट्करिष्यन्’(ऐ॰ब्रा॰ ३-१-८) इति, सन्ध्यां मनसा ध्यायेत्’ (ऐ. ब्रा. ३ । ८ । १) इति चैवमादिषुध्यानं चिन्तनं यद्यपि मानसम् , तथापि पुरुषेण कर्तुमकर्तुमन्यथा वा कर्तुं शक्यम् , पुरुषतन्त्रत्वात्ज्ञानं तु प्रमाणजन्यम्प्रमाणं यथाभूतवस्तुविषयम्अतो ज्ञानं कर्तुमकर्तुमन्यथा वा कर्तुमशक्यम्केवलं वस्तुतन्त्रमेव तत्; चोदनातन्त्रम् , नापि पुरुषतन्त्रम्तस्मान्मानसत्वेऽपि ज्ञानस्य महद्वैलक्षण्यम्यथा पुरुषो वाव गौतमाग्निः’ (छा. उ. ५ । ७ । १) योषा वाव गौतमाग्निः’ (छा. उ. ५ । ८ । १) इत्यत्र योषित्पुरुषयोरग्निबुद्धिर्मानसी भवतिकेवलचोदनाजन्यत्वात् क्रियैव सा पुरुषतन्त्रा या तु प्रसिद्धेऽग्नावग्निबुद्धिः, सा चोदनातन्त्रा; नापि पुरुषतन्त्राकिं तर्हि ? प्रत्यक्षविषयवस्तुतन्त्रैवेति ज्ञानमेवैतत्; क्रियाएवं सर्वप्रमाणविषयवस्तुषु वेदितव्यम्त्रैवं सति यथाभूतब्रह्मात्मविषयमपि ज्ञानं चोदनातन्त्रम्तद्विषये लिङादयः श्रूयमाणा अपि अनियोज्यविषयत्वात्कुण्ठीभवन्ति उपलादिषु प्रयुक्तक्षुरतैक्ष्ण्यादिवत् , अहेयानुपादेयवस्तुविषयत्वात्किमर्थानि तर्हि आत्मा वा अरे द्रष्टव्यः श्रोतव्यः’ (बृ. उ. २ । ४ । ५) इत्यादीनि विधिच्छायानि वचनानि ? स्वाभाविकप्रवृत्तिविषयविमुखीकरणार्थानीति ब्रूमःयो हि बहिर्मुखः प्रवर्तते पुरुषःइष्टं मे भूयादनिष्टं मा भूत्इति, तत्रात्यन्तिकं पुरुषार्थं लभते, मात्यन्तिकपुरुषार्थवाञ्छिनं स्वाभाविकात्कार्यकरणसङ्घातप्रवृत्तिगोचराद्विमुखीकृत्य प्रत्यगात्मस्रोतस्तया प्रवर्तयन्तिआत्मा वा अरे द्रष्टव्यःइत्यादीनि; तस्यात्मान्वेषणाय प्रवृत्तस्याहेयमनुपादेयं चात्मतत्त्वमुपदिश्यतेइदं सर्वं यदयमात्मा’ (बृ. उ. २ । ४ । ६) यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत् ... केन कं विजानीयात्’ (बृ. उ. ४ । ५ । १५) विज्ञातारमरे केन विजानीयात्’ (बृ. उ. २ । ४ । १४) अयमात्मा ब्रह्म’ (बृ. उ. २ । ५ । १९) इत्यादिभिःयदप्यकर्तव्यप्रधानमात्मज्ञानं हानायोपादानाय वा भवतीति, त्तथैवेत्यभ्युपगम्यतेअलङ्कारो ह्ययमस्माकम्यद्ब्रह्मात्मावगतौ सत्यां सर्वकर्तव्यताहानिः कृतकृत्यता चेतितथा श्रुतिःआत्मानं चेद्विजानीयादयमस्मीति पूरुषःकिमिच्छन्कस्य कामाय शरीरमनुसंज्वरेत्’ (बृ. उ. ४ । ४ । १२) इति, एतद्बुद्ध्वा बुद्धिमान्स्यात्कृतकृत्यश्च भारत’ (भ. गी. १५ । २०) इति स्मृतिःतस्मान्न प्रतिपत्तिविधिविषयतया ब्रह्मणः समर्पणम्
अत्राभिधीयते - न ; कर्मब्रह्मविद्याफलयोर्वैलक्षण्यात् ; तथा च श्रुतिरिति ; अत एवेति ; तत्र किञ्चिदिति ; व्योमवत् ; कूटस्थनित्यम् ; सर्वव्यापि ; सर्वविक्रियारहितम् ; निरवयवम् ; नित्यतृप्तमिति ; स्वयञ्ज्योतिरिति ; तद्यदीति ; अपि च ब्रह्म वेदेति ; त्वं हि नः पितेति ; तथा चाचार्यप्रणीतमिति ; न चेदं ब्रह्मात्मैकत्वविज्ञानमिति ; सम्पदादिरूपे हि ब्रह्मात्मैकत्वविज्ञान इति ; न च विदिक्रियेति ; अविषयत्व इति ; ; अविद्याकल्पितभेदनिवृत्तिपरत्वादिति ; तथा च शास्त्रम् - यस्यामतमिति ; अतोऽविद्याकल्पितेति ; यस्य त्विति ; तयोः पक्षयोरिति ; न चाप्यत्वेनापीति ; स्वरूपव्यतिरिक्तत्वेऽपीति ; नापि संस्कार्य इति ; अनाधेयातिशयब्रह्मस्वरूपत्वान्मोक्षस्य ; नापि दोषापनयनेनेति ; स्वात्मधर्म एवेति ; ; क्रियाश्रयत्वानुपपत्तेः ; तच्चानिष्टमिति ; ननु देहाश्रययेति ; ; देहसंहतस्येति ; तयोरन्यः पिप्पलमिति ; अनश्नन्नन्य इति ; आत्मेन्द्रियेति ; एको देव इति ; तस्मादिति ; अतोऽन्यदिति ; तस्माज्ज्ञानमेकमिति ; ननु ज्ञानमिति ; ; वैलक्षण्यात् ; क्रिया हि नाम सेति ; यत्र ; वस्तुस्वरूपनिरपेक्षैव चोद्यते ; तद्विषया लिङादय इति ; अनियोज्यविषयत्वादिति ; किमर्थानीति ; स्वाभाविकेति ; यदपीति ; अनुसञ्ज्वरेत् ; तस्मान्न प्रतिपत्तीति ;

तदेकदेशिमतं दूषयति -

अत्राभिधीयते - न

एकदेशिमतम् ।

कुतः,

कर्मब्रह्मविद्याफलयोर्वैलक्षण्यात् ।

पुण्यापुण्यकर्मणोः फले सुखदुःखे । तत्र मनुष्यलोकमारभ्याब्रह्मलोकात्सुखस्य तारतम्यमधिकाधिकोत्कर्षः । एवं मनुष्यलोकमारभ्य दुःखतारतम्यया चावीचिलोकात् । तच्च सर्वं कार्यं च विनाशि च । आत्यन्तिकं त्वशरीरत्वमनतिशयं स्वभावसिद्धतया नित्यमकार्यमात्मज्ञानस्य फलम् । तद्धि फलमिव फलम् , अविद्यापनयनमात्रेणाविर्भावात् । एतदुक्तं भवति - त्वयाप्युपासनाविधिपरत्वं वेदान्तानामभ्युपगच्छता नित्यशुद्धबुद्धत्वादिरूपब्रह्मात्मता जीवस्य स्वाभाविकी वेदान्तगम्यास्थीयते । सा चोपासनाविषयस्य विधेर्न फलम् , नित्यत्वादकार्यत्वात् । नाप्यनाद्यविद्यापिधानापनयः, तस्य स्वविरोधिविद्योदयादेव भावात् । नापि विद्योदयः, तस्यापि श्रवणमननपूर्वकोपासनाजनितसंस्कारसचिवादेव चेतसो भावात् । उपासनासंस्कारवदुपासनापूर्वमपि चेतःसहकारीति चेत् दृष्टं च खलु नैयोगिकं फलमैहिकमपि, यथा चित्राकारीर्यादिनियोगानामनियतनियतफलानामैहिकफलेति चेत् , न, गान्धर्वशास्त्रार्थोपासनावासनाया इवापूर्वानपेक्षायाः षड्जादिसाक्षात्कारे वेदान्तार्थोपासनावासनाया जीवब्रह्मभावसाक्षात्कारेऽनपेक्षाया एव सामर्थ्यात् । तथा चामृतीभावं प्रत्यहेतुत्वादुपासनापूर्वस्य, नामृतत्वकामस्तत्कार्यमवबोद्धुमर्हति । अन्यदिच्छत्यन्यत्करोतीति हि विप्रतिषिद्धम् । न च तत्कामः क्रियामेव कार्यमवगमिष्यति नापूर्वमिति साम्प्रतम् , तस्या मानान्तरादेव तत्साधनत्वप्रतीतेर्विधेर्वैयर्थ्यात् , न चावघातादिविधितुल्यता, तत्रापि नियमापूर्वस्यान्यतोऽनवगतेः । न च ब्रह्मभूयादन्यदमृतत्वमार्थवादिकं किञ्चिदस्ति, येन तत्काम उपासनायामधिक्रियेत, विश्वजिन्न्यायेन तु स्वर्गकल्पनायां तस्य सातिशयत्वं क्षयित्वं चेति न नित्यफलत्वमुपासनायाः । तस्माद्ब्रह्मभूयस्याविद्यापिधानापनयमात्रेणाविर्भावात् , अविद्यापनयस्य च वेदान्तार्थविज्ञानादवगतिपर्यन्तादेव सम्भवात् , उपासनायाः संस्कारहेतुभावस्य संस्कारस्य च साक्षात्कारोपजनने मनःसाचिव्यस्य च मानान्तरसिद्धत्वात् , “आत्मेत्येवोपासीत”(बृ. उ. १ । ४ । ७) इति न विधिः, अपि तु विधिसरूपोऽयम् । यथोपांशुयाजवाक्ये ‘विष्णुरुपांशु यष्टव्यः’ इत्यादयो विधिसरूपा न विधय इति तात्पर्यार्थः ।

श्रुतिस्मृतिन्यायसिद्धमित्युक्तम्, तत्र श्रुतिं दर्शयति -

तथा च श्रुतिरिति ।

न्यायमाह -

अत एवेति ।

यत्किल स्वाभाविकं तन्नित्यम् , यथा चैतन्यम् । स्वाभाविकं चेदम् , तस्मान्नित्यम् ।

परे हि द्वयीं नित्यतामाहुः - कूटस्थनित्यतां परिणामिनित्यतां च । तत्र नित्यमित्युक्ते मा भूदस्य परिणामिनित्यतेत्याह -

तत्र किञ्चिदिति ।

परिणामिनित्यता हि न पारमार्थिकी । तथा हि - तत्सर्वात्मना वा परिणमेदेकदेशेन वा । सर्वात्मना परिणामे कथं न तत्त्वव्याहृतिः । एकदेशपरिणामे वा स एकदेशस्ततो भिन्नो वा अभिन्नो वा । भिन्नश्चेत्कथं तस्य परिणामः । न ह्यन्यस्मिन् परिणममानेऽन्यः परिणमते, अतिप्रसङ्गात् । अभेदे वा कथं न सर्वात्मना परिणामः । भिन्नाभिन्नं तदिति चेत् , तथा हि - तदेव कारणात्मनाभिन्नम् , भिन्नं च कार्यात्मना, कटकादय इवाभिन्ना हाटकात्मना भिन्नाश्च कटकाद्यात्मना । न च भेदाभेदयोर्विरोधान्नैकत्र समवाय इति युक्तम् । विरुद्धमिति नः क्व संप्रत्ययोयत्प्रमाणविपर्ययेण वर्तते । यत्तु यथा प्रमाणेनावगम्यते तस्य तथाभाव एव । कुण्डलमिदं सुवर्णमिति सामानाधिकरण्यप्रत्यये च व्यक्तं भेदाभेदौ चकास्तः । तथा हि - आत्यन्तिकेऽभेदेऽन्यतरस्य द्विरवभासप्रसङ्गः । भेदे वात्यन्तिके न सामानाधिकरण्यं गवाश्ववत् । आधाराधेयभावे एकाश्रयत्वे वा न सामानाधिकरण्यम् , न हि भवति कुण्डं बदरमिति । नाप्येकासनस्थयोश्चैत्रमैत्रयोश्चैत्रो मैत्र इति । सोऽयमबाधितोऽसन्दिग्धः सर्वजनीनः सामानाधिकरण्यप्रत्यय एव कार्यकारणयोर्भेदाभेदौ व्यवस्थापयति । तथा च कार्याणां कारणात्मत्वात् , कारणस्य च सद्रूपस्य सर्वत्रानुगमात् , सद्रूपेणाभेदः कार्यस्य जगतः, भेदः कार्यरूपेण गोघटादिनेति । यथाहुः - “कार्यरूपेण नानात्वमभेदः कारणात्मना । हेमात्मना यथाभेदः कुण्डलाद्यात्मना भिदा” ॥ इति । अत्रोच्यते - कः पुनरयं भेदो नाम, यः सहाभेदेनैकत्र भवेत् । परस्पराभाव इति चेत् , किमयं कार्यकारणयोः कटकहाटकयोरस्ति न वा । न चेत् , एकत्वमेवास्ति, न च भेदः । अस्ति चेद्भेद एव, नाभेदः । न च भावाभावयोरविरोधः, सहावस्थानासम्भवात् । सम्भवे वा कटकवर्धमानकयोरपि तत्त्वेनाभेदप्रसङ्गः, भेदस्याभेदाविरोधात् । अपि च कटकस्य हाटकादभेदे यथा हाटकात्मना कटकमुकुटकुण्डलादयो न भिद्यन्ते एवं कटकात्मनापि न भिद्येरन् , कटकस्य हाटकादभेदात् । तथा च हाटकमेव वस्तुसन्न कटकादयः, भेदस्याप्रतिभासनात् । अथ हाटकत्वेनैवाभेदो न कटकत्वेन, तेन तु भेद एव कुण्डलादेः । यदि हाटकादभिन्नः कटकः कथमयं कुण्डलादिषु नानुवर्तते । नानुवर्तते चेत्कथं हाटकादभिन्नः कटकः । ये हि यस्मिन्ननुवर्तमाने व्यावर्तन्ते ते ततो भिन्ना एव, यथा सूत्रात्कुसुमभेदाः । नानुवर्तन्ते चानुवर्तमानेऽपि हाटकत्वे कुण्डलादयः, तस्मात्तेऽपि हाटकाद्भिन्ना एवेति । सत्तानुवृत्त्या च सर्ववस्त्वनुगमे ‘इदमिह नेदम् , इदमस्मान्नेदम् , इदमिदानीं नेदम् , इदमेवं नेदम्’ इति विभागो न स्यात् । कस्यचित्क्वचित्कदाचित्कथञ्चिद्विवेकहेतोरभावात् । अपि च दूरात्कनकमित्यवगते न तस्य कुण्डलादयो विशेषा जिज्ञास्येरन् , कनकादभेदात्तेषाम् , तस्य च ज्ञातत्वात् । अथ भेदोऽप्यस्ति कनकात्कुण्डलादीनामिति कनकावगमेऽप्यज्ञातास्ते । नन्वभेदोऽप्यस्तीति किं न ज्ञाताः । प्रत्युत ज्ञानमेव तेषां युक्तम् , कारणाभावे हि कार्यभाव औत्सर्गिकः, स च कारणसत्तया अपोद्यते । अस्ति चाभेदे कारणसत्तेति कनके ज्ञाते ज्ञाता एव कुण्डलादय इति तज्जिज्ञासाज्ञानानि चानर्थकानि स्युः । तेन यस्मिन् गृह्यमाणे यन्न गृह्यते तत्ततो भिद्यते । यथा करभे गृह्यमाणेऽगृह्यमाणो रासभः करभात् । गृह्यमाणे च दूरतो हेम्नि न गृह्यन्ते तस्य भेदाः कुण्डलादयः, तस्मात्ते हेम्नो भिद्यन्ते । कथं तर्हि हेम कुण्डलमिति सामानाधिकरण्यमिति चेत् , न ह्याधाराधेयभावे समानाश्रयत्वे वा सामानाधिकरण्यमित्युक्तम् । अथानुवृत्तिव्यावृत्तिव्यवस्था च हेम्नि ज्ञाते कुण्डलादिजिज्ञासा च कथम् । न खल्वभेदे ऐकान्तिकेऽनैकान्तिके चैतदुभयमुपपद्यत इत्युक्तम् । तस्माद्भेदाभेदयोरन्यतरस्मिन्नवहेयेऽभेदोपादानैव भेदकल्पना, न भेदोपादानाभेदकल्पनेति युक्तम् । भिद्यमानतन्त्रत्वाद्भेदस्य, भिद्यमानानां च प्रत्येकमेकत्वात् , एकाभावे चानाश्रयस्य भेदस्यायोगात् , एकस्य च भेदानधीनत्वात् , नायमयमिति च भेदग्रहस्य प्रतियोगिग्रहसापेक्षत्वात् , एकत्वग्रहस्य चान्यानपेक्षत्वात् , अभेदोपादानैवानिर्वचनीयभेदकल्पनेति साम्प्रतम् । तथा च श्रुतिः - “मृत्तिकेत्येव सत्यम्”(छा. उ. ६ । १ । ४ ) इति । तस्मात्कूटस्थनित्यतैव पारमार्थिकी न परिणामिनित्यतेति सिद्धम् ।

व्योमवत्

इति च दृष्टान्तः परसिद्धः, अस्मन्मते तस्यापि कार्यत्वेनानित्यत्वात् ।

अत्र च

कूटस्थनित्यम्

इति निर्वर्त्यकर्मतामपाकरोति ।

सर्वव्यापि

इति प्राप्यकर्मताम् ।

सर्वविक्रियारहितम्

इति विकार्यकर्मताम् ।

निरवयवम्

इति संस्कार्यकर्मताम् । व्रीहीणां खलु प्रोक्षणेन संस्काराख्योंऽशो यथा जन्यते, नैवं ब्रह्मणि कश्चिदंशः क्रियाधेयोऽस्ति, अनवयवत्वात् । अनंशत्वादित्यर्थः ।

पुरुषार्थतामाह -

नित्यतृप्तमिति ।

तृप्त्या दुःखरहितं सुखमुपलक्षयति । क्षुद्दुःखनिवृत्तिसहितं हि सुखं तृप्तिः ।

सुखं चाप्रतीयमानं न पुरुषार्थम् इत्यत आह -

स्वयञ्ज्योतिरिति ।

तदेवं स्वमतेन मोक्षाख्यं फलं नित्यं श्रुत्यादिभिरुपपाद्य क्रियानिष्पाद्यस्य तु मोक्षस्यानित्यत्वं प्रसञ्जयति -

तद्यदीति ।

न चागमबाधः, आगमस्योक्तेन प्रकारेणोपपत्तेः । अपि च ज्ञानजन्यापूर्वजनितो मोक्षो नैयोगिक इत्यस्यार्थस्य सन्ति भूयस्यः श्रुतयो निवारिका इत्याह -

अपि च ब्रह्म वेदेति ।

अविद्याद्वयप्रतिबन्धापनयमात्रेण च विद्याया मोक्षसाधनत्वं न स्वतोऽपूर्वोत्पादेन चेत्यत्रापि श्रुतीरुदाहरति -

त्वं हि नः पितेति ।

न केवलमस्मिन्नर्थे श्रुत्यादयः, अपि त्वक्षपादाचार्यसूत्रमपि न्यायमूलमस्तीत्याह -

तथा चाचार्यप्रणीतमिति ।

आचार्यश्चोक्तलक्षणः पुराणे “आचिनोति च शास्त्रार्थमाचारे स्थापयत्यपि । स्वयमाचरते यस्मादाचार्यस्तेन चोच्यते” ॥ इति । तेन हि प्रणीतं सूत्रम् - “दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तरापायादपवर्गः”(न्या.सू.) इति । पाठापेक्षया कारणमुत्तरम् , कार्यं च पूर्वम् , कारणापाये कार्यापायः, कफापाय इव कफोद्भवस्य ज्वरस्यापायः । जन्मापाये दुःखापायः, प्रवृत्त्यपाये जन्मापायः, दोषापाये प्रवृत्त्यपायः, मिथ्याज्ञानापाये दोषापायः । मिथ्याज्ञानं चाविद्या रागाद्युपजननक्रमेण दृष्टेनैव संसारस्य परमं निदानम् । सा च तत्त्वज्ञानेन ब्रह्मात्मैकत्वविज्ञानेनैवावगतिपर्यन्तेन विरोधिना निवर्त्यते । ततोऽविद्यानिवृत्त्या ब्रह्मरूपाविर्भावो मोक्षः । न तु विद्याकार्यस्तज्जनितापूर्वकार्यो वेति सूत्रार्थः । तत्त्वज्ञानान्मिथ्याज्ञानापाय इत्येतावन्मात्रेण सूत्रोपन्यासः, न त्वक्षपादसंमतं तत्त्वज्ञानमिह संमतम् । तदनेनाचार्यान्तरसंवादेनायमर्थो दृढीकृतः । स्यादेतत् । नैकत्वविज्ञानं यथावस्थितवस्तुविषयम् , येन मिथ्याज्ञानं भेदावभासं निवर्तयन्न विधिविषयो भवेत् । अपि तु सम्पदादिरूपम् । तथा च विधेः प्रागप्राप्तं पुरुषेच्छया कर्तव्यं सत् विधिगोचरो भविष्यति । यथा वृत्त्यन्तरत्वेन मनसो विश्वेदेवसाम्याद्विश्वान्देवान्मनसि सम्पाद्य मन आलम्बनमविद्यमानसमं कृत्वा प्राधान्येन सम्पाद्यानां विश्वेषामेव देवानामनुचिन्तनम् , तेन चानन्तलोकप्राप्तिः । एवं चिद्रूपसाम्याज्जीवस्य ब्रह्मरूपतां सम्पाद्य जीवमालम्बनमविद्यमानसमं कृत्वा प्राधान्येन ब्रह्मानुचिन्तनम् , तेन चामृतत्वफलप्राप्तिः । अध्यासे त्वालम्बनस्यैव प्राधान्येनारोपिततद्भावस्यानुचिन्तनम् , यथा “मनो ब्रह्मेत्युपासीत”(छा. उ. ३ । १८ । १), “आदित्यो ब्रह्मेत्यादेशः” (छा. उ. ३ । १९ । १) । एवं जीवमब्रह्म “ब्रह्मेत्युपासीत” इति । क्रियाविशेषयोगाद्वा, यथा “वायुर्वाव संवर्गः” (छा. उ. ४ । ३ । १), “प्राणो वाव संवर्गः” (छा. उ. ४ । ३ । ३) इति । बाह्यान्खलु वायुदेवता वह्न्यादीन् संवृङ्क्ते । महाप्रलयसमये हि वायुर्वह्न्यादीन्संवृज्य संहृत्यात्मनि स्थापयति । यथाह द्रविडाचार्यः - “संहरणाद्वा संवरणाद्वा स्वात्मीभावाद्वायुः संवर्गः” इति । अध्यात्मं च प्राणः संवर्ग इति । स हि सर्वाणि वागादीनि संवृङ्क्ते । प्रायाणकाले हि स एव सर्वाणीन्द्रियाणि सङ्गृह्योत्क्रामतीति । सेयं संवर्गदृष्टिर्वायौ प्राणे च दशाशागतं जगद्दर्शयति यथा, एवं जीवात्मनि बृंहणक्रियया ब्रह्मदृष्टिरमृतत्वाय फलाय कल्पत इति । तदेतेषु त्रिष्वपि पक्षेष्वात्मदर्शनोपासनादयः प्रधानकर्माण्यपूर्वविषयत्वात् , स्तुतशस्त्रवत् । आत्मा तु द्रव्यं कर्मणि गुण इति संस्कारो वात्मनो दर्शनं विधीयते । यथा दर्शपूर्णमासप्रकरणे ’ पत्न्यवेक्षितमाज्यं भवति’ इति समाम्नातम् , प्रकरणिना च गृहीतमुपांशुयागाङ्गभूताज्यद्रव्यसंस्कारतयावेक्षणं गुणकर्म विधीयते, एवं कर्तृत्वेन क्रत्वङ्गभूते आत्मनि “आत्मा वा अरे द्रष्टव्यः” (बृ. उ. २ । ४ । ५) इति दर्शनं गुणकर्म विधीयते ।

'यैस्तु द्रव्यं चिकीर्ष्यते गुणस्तत्र प्रतीयेत” इति न्यायादत आह -

न चेदं ब्रह्मात्मैकत्वविज्ञानमिति ।

कुतः,

सम्पदादिरूपे हि ब्रह्मात्मैकत्वविज्ञान इति ।

दर्शपूर्णमासप्रकरणे हि समाम्नातमाज्यावेक्षणं तदङ्गभूताज्यसंस्कार इति युज्यते । नच “आत्मा वा अरे द्रष्टव्यः”(बृ. उ. २ । ४ । ५) इत्यादि कस्यचित्प्रकरणे समाम्नातम् । न चानारभ्याधीतमपि । “यस्य पूर्णमयी जुहूर्भवति” इत्यव्यभिचरितक्रतुसम्बन्धजुहूद्वारेण जुहूपदं क्रतुं स्मारयद्वाक्येन यथा पर्णतायाः क्रतुशेषभावमापादयति, एवमात्मा नाव्यभिचारितक्रतुसम्बन्धः, येन तद्दर्शनं क्रत्वङ्गं सदात्मानं क्रत्वर्थं संस्कुर्यात् । तेन यद्ययं विधिस्तथापि “सुवर्णं भार्यम्” इतिवत् विनियोगभङ्गेन प्रधानकर्मैवापूर्वविषयत्वान्न गुणकर्मेति स्थवीयस्तयैतद्दूषणमनभिधाय सर्वपक्षसाधारणं दूषणमुक्तम् , तदतिरोहितार्थतया न व्याख्यातम् ।

किं च ज्ञानक्रियाविषयत्वविधानमस्य बहुश्रुतिविरुद्धमित्याह -

न च विदिक्रियेति ।

शङ्कते -

अविषयत्व इति ।

ततश्च शान्तिकर्मणि वेतालोदय इति भावः ।

निराकरोति -

न ।

कुतः

अविद्याकल्पितभेदनिवृत्तिपरत्वादिति ।

सर्वमेव हि वाक्यं नेदन्तया वस्तुभेदं बोधयितुमर्हति । न हीक्षुक्षीरगुडादीनां मधुररसभेदः शक्य आख्यातुम् । एवमन्यत्रापि सर्वत्र द्रष्टव्यम् । तेन प्रमाणान्तरसिद्धे लौकिके एवार्थे यदा गतिरिदृशी शब्दस्य, तदा कैव कथा प्रत्यगात्मन्यलौकिके । अदूरविप्रकर्षेण तु कथञ्चित्प्रतिपादनमिहापि समानम् । त्वम्पदार्थो हि प्रमाता प्रमाणाधीनया प्रमित्या प्रमेयं घटादि व्याप्नोतीत्यविद्याविलसितम् । तदस्या विषयीभूतोदासीनतत्पदार्थप्रत्यगात्मसामानाधिकरण्येन प्रमातृत्वाभावात्तन्निवृत्तौ प्रमाणादयस्तिस्रो विधा निवर्तन्ते । न हि पक्तुरवस्तुत्वे पाक्यपाकपचनानि वस्तुसन्ति भवितुमर्हन्तीति । तथा हि - “विगलितपराग्वृत्त्यर्थत्वं त्वम्पदस्य तदस्तदा त्वमिति हि पदेनैकार्थत्वे त्वमित्यपि यत्पदम् । तदपि च तदा गत्वैकार्थ्यं विशुद्धचिदात्मतां त्यजति सकलान्कर्तृत्वादीन्पदार्थमलान्निजान्” ॥ इत्यान्तरश्लोकः ।

अत्रैवार्थे श्रुतीरुदाहरति -

तथा च शास्त्रम् - यस्यामतमिति ।

प्रकृतमुपसंहरति -

अतोऽविद्याकल्पितेति ।

परपक्षे मोक्षस्यानित्यतामापादयति -

यस्य त्विति ।

कार्यमपूर्वं यागादिव्यापारजन्यं तदपेक्षते मोक्षः स्वोत्पत्ताविति ।

तयोः पक्षयोरिति ।

निर्वर्त्यविकार्ययोः क्षणिकं ज्ञानमात्मेति बौद्धाः । तथा च विशुद्धविज्ञानोत्पादो मोक्ष इति निर्वर्त्यो मोक्षः । अन्येषां तु संस्काररूपावस्थामपहाय या कैवल्यावस्थावाप्तिरात्मनः स मोक्ष इति विकार्यो मोक्षः । यथा पयसः पूर्वावस्थापहानेनावस्थान्तरप्राप्तिर्विकारो दधीति । तदेतयोः पक्षयोरनित्यता मोक्षस्य, कार्यत्वात् , दधिघटादिवत् ।

अथ “यदतः परो दिवो ज्योतिर्दीप्यते” (छा. उ. ३-१३-७) इति श्रुतेर्ब्रह्मणो विकृताविकृतदेशभेदावगमादविकृतदेशब्रह्मप्राप्तिरूपासनादिविधिकार्या भविष्यति । तथा च प्राप्यकर्मता ब्रह्मण इत्यत आह -

न चाप्यत्वेनापीति ।

अन्यदन्येन विकृतदेशपरिहाण्याविकृतदेशं प्राप्यते । तद्यथोपवेलं जलधिरतिबहलचपलकल्लोलमालापरस्परास्फालनसमुल्लसत्फेनपुञ्जस्तबकतया विकृतः, मध्ये तु प्रशान्तसकलकल्लोलोपसर्गः स्वस्थः स्थिरतयाविकृतस्तस्य मध्यमविकृतं पौतिकः पोतेन प्राप्नोति । जीवस्तु ब्रह्मैवेति किं केन प्राप्यताम् । भेदाश्रयत्वात्प्राप्तिरित्यर्थः ।

अथ जीवो ब्रह्मणो भिन्नस्तथापि न तेन ब्रह्माप्यते, ब्रह्मणो विभुत्वेन नित्यप्राप्तत्वादित्याह -

स्वरूपव्यतिरिक्तत्वेऽपीति ।

संस्कारकर्मतामपाकरोति -

नापि संस्कार्य इति ।

द्वयी हि संस्कार्यता, गुणाधानेन वा, यथा बीजपूरकुसुमस्य लाक्षारसावसेकः, तेन हि तत्कुसुमं संस्कृतं लाक्षारससवर्णं फलं प्रसूते । दोषापनयेन वा यथा मलिनमादर्शतलं निघृष्टमिष्टकाचूर्णेनोद्भासितभास्वरत्वं संस्कृतं भवति । तत्र न तावद्ब्रह्मणि गुणाधानं सम्भवति । गुणो हि ब्रह्मणः स्वभावो वा भिन्नो वा । स्वभावश्चेत्कथमाधेयः, तस्य नित्यवात् । भिन्नत्वे तु कार्यत्वेन मोक्षस्यानित्यत्वप्रसङ्गः । न च भेदे धर्मधर्मिभावः, गवाश्ववत् । भेदाभेदश्च व्युदस्तः, विरोधात् ।

तदनेनाभिसन्धिनोक्तम् -

अनाधेयातिशयब्रह्मस्वरूपत्वान्मोक्षस्य ।

द्वितीयं पक्षं प्रतिक्षिपति -

नापि दोषापनयनेनेति ।

अशुद्धिः सती दर्पणे निवर्तते, न तु ब्रह्मणि असतिति निवर्तनीया । नित्यनिवृत्तत्वादित्यर्थः ।

शङ्कते -

स्वात्मधर्म एवेति ।

ब्रह्मस्वभाव एव मोक्षोऽनाद्यविद्यामलावृत उपासनादिक्रिययात्मनि संस्क्रियमाणेऽभिव्यज्यते, न तु क्रियते । एतदुक्तं भवति नित्यशुद्धत्वमात्मनोऽसिद्धम् , संसारावस्थायामविद्यामलिनत्वादिति ।

शङ्कां निराकरोति -

न ।

कुतः,

क्रियाश्रयत्वानुपपत्तेः ।

नाविद्या ब्रह्माश्रया, किं तु जीवे, सा त्वनिर्वचनीयेत्युक्तम् , तेन नित्यशुद्धमेव ब्रह्म । अभ्युपेत्य त्वशुद्धिं क्रियासंस्कार्यत्वं दूष्यते । क्रिया हि ब्रह्मसमवेता वा ब्रह्म संस्कुर्यात् , यथा निघर्षणमिष्टकाचूर्णसंयोगविभागप्रचयो निरन्तर आदर्शतलसमवेतः । अन्यसमवेता वा । न तावद्ब्रह्मधर्मः क्रिया, तस्याः स्वाश्रयविकारहेतुत्वेन ब्रह्मणो नित्यत्वव्याघातात् । अन्याश्रया तु कथमन्यस्योपकरोति, अतिप्रसङ्गात् । न हि दर्पणे निघृष्यमाणे मणिर्विशुद्धो दृष्टः ।

तच्चानिष्टमिति ।

तदा बाधनं परामृशति ।

अत्र व्यभिचारं चोदयति -

ननु देहाश्रययेति ।

परिहरति -

न ।

देहसंहतस्येति ।

अनाद्यनिर्वाच्याविद्योपधानमेव ब्रह्मणो जीव इति च क्षेत्रज्ञ इति चाचक्षते । स च स्थूलसूक्ष्मशरीरेन्द्रियादिसंहतस्तत्सङ्घातमध्यपतितस्तदभेदेनाहमितिप्रत्ययविषयीभूतः, अतः शरीरादिसंस्कारः शरीरादिधर्मोऽप्यात्मनो भवति, तदभेदाध्यवसायात् । यथा अङ्गरागधर्मः सुगन्धिता कामिनीनां व्यपदिश्यते । तेनात्रापि यदाश्रिता क्रिया सांव्यवहारिकप्रमाणविषयीकृता तस्यैव संस्कारो नान्यस्येति न व्यभिचारः । तत्त्वतस्तु न क्रिया न संस्कार इति । सनिदर्शनं तु शेषमध्यासभाष्ये एव कृतव्याख्यानमिति नेह व्याख्यातम् ।

तयोरन्यः पिप्पलमिति ।

अन्यो जीवात्मा । पिप्पलं कर्मफलम् ।

अनश्नन्नन्य इति ।

परमात्मा ।

संहतस्यैव भोक्तृत्वमाह मन्त्रवर्णः -

आत्मेन्द्रियेति ।

अनुपहितशुद्धस्वभावब्रह्मप्रदर्शनपरौ मन्त्रौ पठति -

एको देव इति ।

शुक्रं दीप्तिमत् । अव्रणं दुःखरहितम् । अस्राविरम् अविगलितम् । अविनाशीति यावत् ।

उपसंहरति -

तस्मादिति ।

ननु मा भून्निर्वर्त्यादिकर्मताचतुष्टयी । पञ्चमी तु काचित् विधा भविष्यति, यया मोक्षस्य कर्मता घटिष्यत इत्यत आह -

अतोऽन्यदिति ।

एभ्यः प्रकारेभ्यो न प्रकारान्तरमन्यदस्ति, यतो मोक्षस्य क्रियानुप्रवेशो भविष्यति ।

एतदुक्तं भवति - चतसृणां विधानां मध्येऽन्यतमतया क्रियाफलत्वं व्याप्तम् , सा च मोक्षाद्व्यावर्तमाना व्यापकानुपलब्ध्या मोक्षस्य क्रियाफलत्वं व्यावर्तयतीति । तत्किं मोक्षे क्रियैव नास्ति, तथा च तदर्थानि शास्त्राणि तदर्थाश्च प्रवृत्तयोऽनर्थिका इत्यत उपसंहारव्याजेनाह -

तस्माज्ज्ञानमेकमिति ।

अथ ज्ञानं क्रिया मानसी कस्मान्न विधिगोचरः, कस्माच्च तस्याः फलं निर्वर्त्यादिष्वन्यतमं न मोक्ष इति चोदयति -

ननु ज्ञानमिति ।

परिहरति -

न ।

कुतः

वैलक्षण्यात् ।

अयमर्थः - सत्यम् , ज्ञानं मानसी क्रिया, न त्वियं ब्रह्मणि फलं जनयितुमर्हति, तस्य स्वयम्प्रकाशतया विदिक्रियाकर्मभावानुपपत्तेरित्युक्तम् ।

तदेतस्मिन्वैलक्षण्ये स्थिते एव वैलक्षण्यान्तरमाह -

क्रिया हि नाम सेति ।

यत्र

विषये

वस्तुस्वरूपनिरपेक्षैव चोद्यते ।

यथा देवतासम्प्रदानकहविर्ग्रहणे देवतावस्तुस्वरूपानपेक्षा देवताध्यानक्रिया । यथा वा योषिति अग्निवस्त्वनपेक्षाग्निबुद्धिर्या सा क्रिया हि नामेति योजना । न हि “यस्यै देवतायै हविर्गृहीतं स्यात्तां ध्यायेद्वषट्करिष्यन्”(ऐ . ब्रा. ३ । ८ । १) इत्यस्माद्विधेः प्राग्देवताध्यानं प्राप्तम् , प्राप्तं त्वधीतवेदान्तस्य विदितपदतदर्थसम्बन्धस्याधिगतशब्दन्यायतत्त्वस्य “सदेव सोम्येदम्”(छा. उ. ६ । २ । १) इत्यादेः “तत्त्वमसि”(छा. उ. ६ । ८ । ७) इत्यन्तात्सन्दर्भात् ब्रह्मात्मभावज्ञानम् , शब्दप्रमाणसामर्थ्यात् , इन्द्रियार्थसंनिकर्षसामर्थ्यादिव प्रणिहितमनसः स्फीतालोकमध्यवर्तिकुम्भानुभवः । न ह्यसौ स्वसामग्रीबललब्धजन्मा सन्मनुजेच्छयान्यथाकर्तुमकर्तुं वा शक्यः, देवताध्यानवत् , येनार्थवानत्र विधिः स्यात् । न चोपासना वानुभवपर्यन्तता वास्य विधेर्गोचरः, तयोरन्वयव्यतिरेकावधृतसामर्थ्ययोः साक्षात्कारे वा अनाद्यविद्यापनये वा विधिमन्तरेण प्राप्तत्वेन पुरुषेच्छयान्यथाकर्तुमकर्तुं वा अशक्यत्वात् । तस्माद्ब्रह्मज्ञानं मानसी क्रियापि न विधिगोचरः । पुरुषचित्तव्यापाराधीनायास्तु क्रियाया वस्तुस्वरूपनिरपेक्षता क्वचिदविरोधिनी, यथा देवताध्यानक्रियायाः । न ह्यत्र वस्तुस्वरूपेण कश्चिद्विरोधः । क्वचिद्वस्तुस्वरूपविरोधिनी, यथा योषित्पुरुषयोरग्निबुद्धिरित्येतावता भेदेन निदर्शनमिथुनद्वयोपन्यासः । क्रियैवेत्येवकारेण वस्तुतन्त्रत्वमपाकरोति ।

ननु “आत्मेत्येवोपासीत”(बृ. उ. १ । ४ । ७) इत्यादयो विधयः श्रूयन्ते । न च प्रमत्तगीताः, तुल्यं हि साम्प्रदायिकम् , तस्माद्विधेयेनात्र भवितव्यमित्यत आह -

तद्विषया लिङादय इति ।

सत्यं श्रूयन्ते लिङादयः, न त्वमी विधिविषयाः, तद्विषयत्वेऽप्रामाण्यप्रसङ्गात् । हेयोपादेयविषयो हि विधिः । स एव च हेय उपादेयो वा, यं पुरुषः कर्तुमकर्तुमन्यथा वा कर्तुं शक्नोति । तत्रैव च समर्थः कर्ताधिकृतो नियोज्यो भवति । न चैवम्भूतान्यात्मश्रवणमननोपासनदर्शनानीति विषयतदनुष्ठात्रोर्विधिव्यापकयोरभावाद्विधेरभाव इति प्रयुक्ता अपि लिङादयः प्रवर्तनायामसमर्था उपल इव क्षुरतैक्ष्ण्यं कुण्ठमप्रमाणीभवितुमर्हन्तीति ।

अनियोज्यविषयत्वादिति ।

समर्थो हि कर्ताधिकारी नियोज्यः । असामर्थ्ये तु न कर्तृता यतो नाधिकृतोऽतो न नियोज्य इत्यर्थः ।

यदि विधेरभावान्न विधिवचनानि, किमर्थानि तर्हि वचनान्येतानि विधिच्छायानीति पृच्छति -

किमर्थानीति ।

न चानर्थकानि युक्तानि, स्वाध्यायाध्ययनविध्यधीनग्रहणत्वानुपपत्तेरिति भावः ।

उत्तरम् -

स्वाभाविकेति ।

अन्यतः प्राप्ता एव हि श्रवणादयो विधिसरूपैर्वाक्यैरनूद्यन्ते । न चानुवादोऽप्यप्रयोजनः, प्रवृत्तिविशेषकरत्वात् । तथाहि - तत्तदिष्टानिष्टविषयेप्साजिहासापहृतहृदयतया बहिर्मुखो न प्रत्यगात्मनि समाधातुमर्हति । आत्मश्रवणादिविधिसरूपैस्तु वचनैर्मनसो विषयस्रोतः खिलीकृत्य प्रत्यगात्मस्रोत उद्घाट्यत इति प्रवृत्तिविशेषकरता अनुवादानामस्तीति सप्रयोजनतया स्वाध्यायविध्यधीनग्रहणत्वमुपपद्यत इति ।

यच्च चोदितमात्मज्ञानमनुष्ठानानङ्गत्वादपुरुषार्थमिति तदयुक्तम् । स्वतोऽस्य पुरुषार्थत्वे सिद्धे यदनुष्ठानानङ्गत्वं तद्भूषणं न दूषणमित्याह -

यदपीति ।

अनुसञ्ज्वरेत्

शरीरं परितप्यमानमनुतप्येत । सुगममन्यत् ।

प्रकृतमुपसंहरति -

तस्मान्न प्रतिपत्तीति ।