प्रततौष्ण्यप्रकाशे सवितरि
इत्येतदपि विषयावच्छिन्नप्रकाशः कार्यमित्येतदभिप्रायम् ।
वैषम्यं चोदयति -
ननु सवितुरिति ।
किं वास्तवं कर्माभावमभिप्रेत्य वैषम्यमाह भवान् उत तद्विवक्षाभावम् । तत्र यदि तद्विवक्षाभावं, तदा प्रकाशयतीत्यनेन मा भूत्साम्यं, प्रकाशत इत्यनेन त्वस्ति । नह्यत्र कर्म विवक्षितम् ।
अथ च प्रकाशस्वभावं प्रत्यस्ति स्वातन्त्र्यं सवितुरिति परिहरति -
न ।
असत्यपि कर्मणीति ।
असत्यपीत्यविवक्षितेऽपीत्यर्थः ।
अथ वास्तवं कर्माभावमभिसन्धाय वैषम्यमुच्येत, तन्न, असिद्धत्वात्कर्माभावस्य, विविक्षितत्वाच्चात्र कर्मण इति परिहरति -
कर्मापेक्षायां त्विति ।
यासां सति कर्मण्यविवक्षिते श्रुतीनामुपपत्तिस्तासां सति कर्मणि विवक्षिते सुतरामित्यर्थः ।
यत्प्रसादादिति ।
यस्य भगवत ईश्वरस्य प्रसादात् तस्य नित्यसिद्धस्येश्वरस्य नित्यं ज्ञानं भवतीति किमु वक्तव्यमिति योजना । यथाहुर्योगशास्त्रकाराः - “ततः प्रत्यक्चेतनाधिगमोऽप्यन्तरायाभावश्च”(यो.सू. १.२९) इति । तद्भाष्यकाराश्च ‘भक्तिविशेषादावर्जित ईश्वरस्तमनुगृह्णाति ज्ञानवैराग्यादिना’ इति ।
सवितृप्रकाशवदिति ।
वस्तुतो नित्यस्य कारणानपेक्षां स्वरूपेणोक्त्वा व्यतिरेकमुखेनाप्याह -
अपि चाविद्यादिमत इत्यादि ।
आदिग्रहणेन कामकर्मादयः सङ्गृह्यन्ते ।
न ज्ञानप्रतिबन्धकारणरहितस्येति ।
संसारिणां वस्तुतो नित्यज्ञानत्वेऽप्यविद्यादयः प्रतिबन्धकारणानि सन्ति, न तु ईश्वरस्याविद्यारहितस्य ज्ञानप्रतिबन्धकारणसम्भव इति भावः । न तस्य कार्यमावरणाद्यपगमो विद्यते, अनावृत्तत्वादिति भावः । ज्ञानबलेन क्रिया । प्रधानस्य त्वचेतनस्य ज्ञानबलाभावाज्जगतो न क्रियेत्यर्थः । अपाणिर्गृहीता, अपादो जवनो वेगवान् विहरणवान् । अतिरोहितार्थमन्यत् ।
स्यादेतेत् । अनात्मनि व्योम्नि घटाद्युपाधिकृतो भवत्ववच्छेदकविभ्रमः, न तु आत्मनि स्वभावसिद्धप्रकाशे स घटत इत्यत आह -
दृश्यते चात्मन एव सत इति ।
अभिनिवेशः
मिथ्याभिमानः ।
मिथ्याबुद्धिमात्रेण पूर्वेणेति ।
अनेनानादिता दर्शिता । मात्रग्रहणेन विचारासहत्वेन निर्वचनीयता निरस्ता । परिशिष्टं निगदव्याख्यातम् ॥ ५ ॥ ॥ ६ ॥