ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः प्रथमः पादः
भामतीव्याख्या
 
स्वाप्ययात् ॥ ९ ॥
तदेव सच्छब्दवाच्यं कारणं प्रकृत्य श्रूयतेयत्रैतत्पुरुषः स्वपिति नाम, सता सोम्य तदा सम्पन्नो भवति; स्वमपीतो भवति; तस्मादेनं स्वपितीत्याचक्षते; स्वं ह्यपीतो भवति’ (छा. उ. ६ । ८ । १) इतिएषा श्रुतिः स्वपितीत्येतत्पुरुषस्य लोकप्रसिद्धं नाम निर्वक्तिस्वशब्देनेहात्मोच्यतेयः प्रकृतः सच्छब्दवाच्यस्तमपीतो भवत्यपिगतो भवतीत्यर्थःअपिपूर्वस्यैतेर्लयार्थत्वं प्रसिद्धम् , प्रभवाप्ययावित्युत्पत्तिप्रलययोः प्रयोगदर्शनात्मनःप्रचारोपाधिविशेषसम्बन्धादिन्द्रियार्थान्गृह्णंस्तद्विशेषापन्नो जीवो जागर्तितद्वासनाविशिष्टः स्वप्नान्पश्यन्मनःशब्दवाच्यो भवति उपाधिद्वयोपरमे सुषुप्तावस्थायामुपाधिकृतविशेषाभावात्स्वात्मनि प्रलीन इवेति स्वं ह्यपीतो भवति’ (छा. उ. ६ । ८ । १) इत्युच्यतेयथा हृदयशब्दनिर्वचनं श्रुत्या दर्शितम् वा एष आत्मा हृदि, तस्यैतदेव निरुक्तम्हृद्ययमिति; तस्माद्धृदयमिति’ (छा. उ. ८ । ३ । ३); यथा वाशनायोदन्याशब्दप्रवृत्तिमूलं दर्शयति श्रुतिःआप एव तदशितं नयन्ते’ (छा. उ. ६ । ८ । ३) तेज एव तत्पीतं नयते’ (छा. उ. ६ । ८ । ५) इति एवं स्वमात्मानं सच्छब्दवाच्यमपीतो भवति इतीममर्थं स्वपितिनामनिर्वचनेन दर्शयति चेतन आत्मा अचेतनं प्रधानं स्वरूपत्वेन प्रतिपद्येतयदि पुनः प्रधानमेवात्मीयत्वात्स्वशब्देनैवोच्येत, एवमपि चेतनोऽचेतनमप्येतीति विरुद्धमापद्येतश्रुत्यन्तरं प्राज्ञेनात्मना सम्परिष्वक्तो बाह्यं किञ्चन वेद नान्तरम्’ (बृ. उ. ४ । ३ । २१) इति सुषुप्तावस्थायां चेतने अप्ययं दर्शयतिअतो यस्मिन्नप्ययः सर्वेषां चेतनानां तच्चेतनं सच्छब्दवाच्यं जगतः कारणम्, प्रधानम् ॥ ९ ॥

अपि च जगत्कारणं प्रकृत्य स्वपितीत्यस्य निरुक्तं कुर्वती श्रुतिश्चेतनमेव जगत्कारणं ब्रूते । यदि स्वशब्द आत्मवचनस्तथापि चेतनस्य पुरुषस्याचेतनप्रधानत्वानुपपत्तिः । अथात्मीयवचनस्थथाप्यचेतने पुरुषार्थतयात्मीयेऽपि चेतनस्य प्रलयानुपपत्तिः । नहि मृदात्मा घट आत्मीयेऽपि पाथसि प्रलीयतेऽपि त्वात्मभूतायां मृद्येव । नच रजतमनात्मभूते हस्तिनि प्रलीयते, किन्त्वात्मभूतायां शुक्तावेवेत्याह -

स्वाप्ययात् ॥ ९ ॥