ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः प्रथमः पादः
भामतीव्याख्या
 
गतिसामान्यात् ॥ १० ॥
यदि तार्किकसमय इव वेदान्तेष्वपि भिन्ना कारणावगतिरभविष्यत् , क्वचिच्चेतनं ब्रह्म जगतः कारणम् , क्वचिदचेतनं प्रधानम् , क्वचिदन्यदेवेतिततः कदाचित्प्रधानकारणवादानुरोधेनापीक्षत्यादिश्रवणमकल्पयिष्यत त्वेतस्तिसमानैव हि सर्वेषु वेदान्तेषु चेतनकारणावगतिःयथाग्नेर्ज्वलतः सर्वा दिशो विस्फुलिङ्गा विप्रतिष्ठेरन्नेवमेवैतस्मादात्मनः सर्वे प्राणा यथायतनं विप्रतिष्ठन्ते प्राणेभ्यो देवा देवेभ्यो लोकाः’ (कौ. उ. ३ । ३) इति, तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः’ (तै. उ. २ । १ । १) इति, आत्मत एवेदं सर्वम्’ (छा. उ. ७ । २६ । १) इति, आत्मन एष प्राणो जायते’ (प्र. उ. ३ । ३) इति आत्मनः कारणत्वं दर्शयन्ति सर्वे वेदान्ताःआत्मशब्दश्च चेतनवचन इत्यवोचाममहच्च प्रामाण्यकारणमेतत् , यद्वेदान्तवाक्यानां चेतनकारणत्वे समानगतित्वम् , चक्षुरादीनामिव रूपादिषुअतो गतिसामान्यात्सर्वज्ञं ब्रह्म जगतः कारणम् ॥ १० ॥

गतिसामान्यात् ।

गतिरवगतिः ।

तार्किकसमय इवेति ।

यथा हि तार्किकाणां समयभेदेषु परस्परपराहतार्थता, नैवं वेदान्तेषु परस्परपराहृतिः, अपि तु तेषु सर्वत्र जगत्कारणचैतन्यावगतिः समानेति ।

चक्षुरादीनामिव रूपादिष्विति ।

यथा हि सर्वेषां चक्षू रूपमेव ग्राहयति, न पुना रसादिकं कस्यचिद्दर्शयति कस्यचिद्रूपम् । एवं रसनादिष्वपि गतिसामान्यं दर्शनीयम् ॥ १० ॥