ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः प्रथमः पादः
भामतीव्याख्या
 
श्रुतत्वाच्च ॥ ११ ॥
स्वशब्देनै सर्वज्ञ ईश्वरो जगतः कारणमिति श्रूयते,श्वेताश्वतराणां मन्त्रोपनिषदि सर्वज्ञमीश्वरं प्रकृत्य कारणं करणाधिपाधिपो चास्य कश्चिज्जनिता चाधिपः’ (श्वे. उ. ६ । ९) इतितस्मात्सर्वज्ञं ब्रह्म जगतः कारणम् , नाचेतनं प्रधानमन्यद्वेति सिद्धम् ॥ ११ ॥

श्रुतत्वाच्च ।

'तदैक्षत” इत्यत्र ईक्षणमात्रं जगत्कारणस्य श्रुतं न तु सर्वविषयम् । जगत्कारणसम्बन्धितया तु तदर्थात्सर्वविषयमवगतं, श्वेताश्वतराणां तूपनिषदि सर्वज्ञ ईश्वरो जगत्कारणमिति साक्षादुक्तमिति विशेषः ।