उच्यते ।
आनन्दमयावयवस्य तावद्ब्रह्मणः पुच्छस्याङ्गतया न प्राधान्यं, अपि त्वङ्गिन आनन्दमयस्यैव ब्रह्मणः प्राधान्यम् । तथाच तदधिकारे पठितमभ्यस्यमानमानन्दपदं तद्बुद्धिमाधत्त इति तस्यैवानन्दमयस्याभ्यास इति युक्तम् । ज्योतिष्टोमाधिकारे ‘वसन्ते वसन्ते ज्योतिषा यजेत’ इति ज्योतिःपदमिव ज्योतिष्टोमाभ्यासः कालविशेषविधिपरः । अपि च साक्षादानन्दमयात्माभ्यासः श्रूयते - “एतमानन्दमयमात्मानमुपसङ्क्रामति”(तै. उ. २ । ८ । ५) इति ।
पूर्वपक्षबीजमनुभाष्यं दूषयति -
यत्तूक्तमन्नमयादिति ।
न हि मुख्यारुन्धतीदर्शनं तत्तदमुख्यारुन्धतीदर्शनप्रायपठितमप्यमुख्यारुन्धतीदर्शनं भवति । तादर्थ्यात्पूर्वदर्शनानामन्त्यदर्शनानुगुण्यं न तु तद्विरोधितेति चेत् , इहाप्यानन्दमयादान्तरस्यान्यस्याश्रवणात् , तस्य त्वन्नमयादिसर्वान्तरत्वश्रुतेस्तत्पर्यवसानात्तादर्थ्यं तुल्यम् । प्रियाद्यवयवयोगशरीरत्वे च निगदव्याख्यातेन भाष्येण समाहिते । प्रियाद्यवयवयोगाच्च दुःखलवयोगेऽपि परमात्मन औपाधिक उपपादितः । तथाचानन्दमय इति प्राचुर्यार्थता मयट उपपादितेति ॥ १२ ॥ ॥ १३ ॥ ॥ १४ ॥