ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः प्रथमः पादः
भामतीव्याख्या
 
मान्त्रवर्णिकमेव च गीयते ॥ १५ ॥
इतश्चानन्दमयः पर एवात्मा; यस्मात् ब्रह्मविदाप्नोति परम्’ (तै. उ. २ । १ । १) इत्युपक्रम्य, सत्यं ज्ञानमनन्तं ब्रह्म’ (तै. उ. २ । १ । १) इत्यस्मिन्मन्त्रे यत् प्रकृतं ब्रह्म सत्यज्ञानानन्तविशेषणैर्निर्धारितम् , यस्मादाकाशादिक्रमेण स्थावरजङ्गमानि भूतान्यजायन्त, यच्च भूतानि सृष्ट्वा तान्यनुप्रविश्य गुहायामवस्थितं सर्वान्तरम् , यस्य विज्ञानायअन्योऽन्तर आत्मा’ ‘अन्योऽन्तर आत्माइति प्रक्रान्तम् , तन्मान्त्रवर्णिकमेव ब्रह्मेह गीयतेअन्योऽन्तर आत्मानन्दमयः’ (तै. उ. २ । ५ । १) इतिमन्त्रब्राह्मणयोश्चैकार्थत्वं युक्तम् , अविरोधात्अन्यथा हि प्रकृतहानाप्रकृतप्रक्रिये स्याताम् चान्नमयादिभ्य इवानन्दमयादन्योऽन्तर आत्माभिधीयतेएतन्निष्ठैव सैषा भार्गवी वारुणी विद्या’ (तै. उ. ३ । ६ । १)आनन्दो ब्रह्मेति व्यजानात्’ (तै. उ. ३ । ६ । १) इतितस्मादानन्दमयः पर एवात्मा ॥ १५ ॥

अपि च मन्त्रब्राह्मणयोरुपेयोपायभूतयोः सम्प्रतिपत्तेर्ब्रह्मैवानन्दमयपदार्थः । मन्त्रे हि पुनः पुनः “अन्योऽन्तर आत्मा” (तै. उ. २ । ५ । १) इति परब्रह्मण्यान्तरत्वश्रवणात् , तस्यैव च “अन्योऽन्तर आत्मानन्दमयः” इति ब्राह्मणे प्रत्यभिज्ञानात् , परब्रह्मैवानन्दमयमित्याह सूत्रकारः -

मान्त्रवर्णिकमेव च गीयते ।

मान्त्रवर्णिकमेव परं ब्रह्म ब्राह्मणेऽप्यानन्दमय इति गीयत इति ॥ १५ ॥