ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः प्रथमः पादः
भामतीव्याख्या
 
नेतरोऽनुपपत्तेः ॥ १६ ॥
इतश्चानन्दमयः पर एवात्मा, नेतरः; इतर ईश्वरादन्यः संसारी जीव इत्यर्थः जीव आनन्दमयशब्देनाभिधीयतेकस्मात् ? अनुपपत्तेःआनन्दमयं हि प्रकृत्य श्रूयतेसोऽकामयतबहु स्यां प्रजायेयेति तपोऽतप्यत तपस्तप्त्वाइदꣳ सर्वमसृजतयदिदं किञ्च’ (तै. उ. २ । ६ । १) इतितत्र प्राक्शरीराद्युत्पत्तेरभिध्यानम् , सृज्यमानानां विकाराणां स्रष्टुरव्यतिरेकः, सर्वविकारसृष्टिश्च परस्मादात्मनोऽन्यत्रोपपद्यते ॥ १६ ॥

अपि चानन्दमयं प्रकृत्य शरीराद्युत्पत्तेः प्राक्स्रष्टृत्वश्रवणात् , “बहु स्याम्”(छा. उ. ६ । २ । ३) इति च सृज्यमानानां स्रष्टुरानन्दमयादभेदश्रवणात् , आनन्दमयः पर एवेत्याह । सूत्रम् -

नेतरोऽनुपपत्तेः ।

नेतरो जीव आनन्दमयः, तस्यानुपपत्तेरिति ॥ १६ ॥