भेदव्यपदेशाच्च ।
रसः सारो ह्ययमानन्दमय आत्मा “रसं ह्येवायं लब्ध्वाऽऽनन्दी भवति” (तै. उ. २ । ७ । १) इति । सोऽयं जीवात्मनो लब्धृभावः, आनन्दमयस्य च लभ्यता, नाभेद उपपद्यते । तस्मादानन्दमयस्य जीवात्मनो भेदे परब्रह्मत्वं सिद्धं भवति ।
चोदयति -
कथं तर्हीति ।
यदि लब्धा न लब्धव्यः, कथं तर्हि परमात्मनो वस्तुतोऽभिन्नेन जीवात्मना परमात्मा लभ्यत इत्यर्थः ।
परिहरति -
बाढम् ।
तथापीति ।
सत्यम् , परमार्थतोऽभेदेऽप्यविद्यारोपितं भेदमुपाश्रित्य लब्धृलब्धव्यभाव उपपद्यते । जीवो ह्यविद्यया परब्रह्मणो भिन्नो दर्शितः, न तु जीवादपि । तथा चानन्दमयश्चेज्जीवः, न जीवस्याविद्ययापि स्वतो भेदो दर्शित इति न लब्धृलब्धव्यभाव इत्यर्थः । भेदाभेदौ च न जीवपरब्रह्मणोरित्युक्तमधस्तात् ।
स्यादेतत् । यथा परमेश्वराद्भिन्नो जीवात्मा द्रष्टा न भवत्येवं जीवात्मनोऽपि द्रष्टुर्न भिन्नः परमेश्वर इति जीवस्यानिर्वाच्यत्वे परमेश्वरोऽप्यनिर्वाच्यः स्यात् । तथा च न वस्तुसन्नित्यत आह -
परमेश्वरस्त्वविद्याकल्पितादिति ।
रजतं हि समारोपितं न शुक्तितो भिद्यते । न हि तद्भेदेनाभेदेन वा शक्यं निर्वक्तुम् । शुक्तिस्तु परमार्थसती निर्वचनीया अनिर्वचनीयाद्रजताद्भिद्यत एव ।
अत्रैव सरूपमात्रं दृष्टान्तमाह -
यथा मायाविन इति ।
एतदपरितोषेणात्यन्तसरूपं दृष्टान्तमाह -
यथा वा घटाकाशादिति ।
शेषमतिरोहितार्थम् ॥ १७ ॥ ॥ १८ ॥