ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः प्रथमः पादः
भामतीव्याख्या
 
अस्मिन्नस्य च तद्योगं शास्ति ॥ १९ ॥
इदं त्वि वक्तव्यम् वा एष पुरुषोऽन्नरसमयः’ (तै. उ. २ । १ । १)तस्माद्वा एतस्मादन्नरसमयादन्योऽन्तर आत्मा प्राणमयः’ (तै. उ. २ । २ । १)तस्मात् अन्योऽन्तर आत्मा मनोमयः’ (तै. उ. २ । ३ । १)तस्मात् अन्योऽन्तर आत्मा विज्ञानमयः’ (तै. उ. २ । ४ । १) इति विकारार्थे मयट्‍प्रवाहे सति, आनन्दमय एवाकस्मादर्धजरतीयन्यायेन कथमिव मयटः प्राचुर्यार्थत्वं ब्रह्मविषयत्वं चाश्रीयत इतिमान्त्रवर्णिकब्रह्माधिकारादिति चेत् , ; अन्नमयादीनामपि तर्हि ब्रह्मत्वप्रसङ्गःअत्राहयुक्तमन्नमयादीनामब्रह्मत्वम् , तस्मात्तस्मादान्तरस्यान्तरस्यान्यस्यान्यस्यात्मन उच्यमानत्वात्आनन्दमयात्तु कश्चिदन्य आन्तर आत्मोच्यतेतेनानन्दमयस्य ब्रह्मत्वम् , अन्यथा प्रकृतहानाप्रकृतप्रक्रियाप्रसङ्गादितिअत्रोच्यतेयद्यप्यन्नमयादिभ्य इवानन्दमयात्अन्योऽन्तर आत्माइति श्रूयते, तथापि नानन्दमयस्य ब्रह्मत्वम्; यत आनन्दमयं प्रकृत्य श्रूयतेतस्य प्रियमेव शिरः, मोदो दक्षिणः पक्षः, प्रमोद उत्तरः पक्षः, आनन्द आत्मा, ब्रह्म पुच्छं प्रतिष्ठा’ (तै. उ. २ । ५ । १) इतितत्र द्ब्रह्म मन्त्रवर्णे प्रकृतम् सत्यं ज्ञानमनन्तं ब्रह्म’ (तै. उ. २ । १ । १) इति, तदिहब्रह्म पुच्छं प्रतिष्ठाइत्युच्यतेतद्विजिज्ञापयिषयैवान्नमयादय आनन्दमयपर्यन्ताः पञ्च कोशाः कल्प्यन्तेतत्र कुतः प्रकृतहानाप्रकृतप्रक्रियाप्रसङ्गःन्वानन्दमयस्यावयवत्वेनब्रह्म पुच्छं प्रतिष्ठाइत्युच्यते, अन्नमयादीनामिवइदं पुच्छं प्रतिष्ठाइत्यादितत्र कथं ब्रह्मणः स्वप्रधानत्वं शक्यं विज्ञातुम् ? प्रकृतत्वादिति ब्रूमःन्वानन्दमयावयवत्वेनापि ब्रह्मणि विज्ञायमाने प्रकृतत्वं हीयते, आनन्दमयस्य ब्रह्मत्वादितिअत्रोच्यतेतथा सति तदेव ब्रह्म आनन्दमय आत्मा अवयवी, तदेव ब्रह्म पुच्छं प्रतिष्ठा अवयव इत्यसामञ्जस्यं स्यात्अन्यतरपरिग्रहे तु युक्तम्ब्रह्म पुच्छं प्रतिष्ठाइत्यत्रैव ब्रह्मनिर्देश आश्रयितुम् , ब्रह्मशब्दसंयोगात्नानन्दमयवाक्ये, ब्रह्मशब्दसंयोगाभावादितिअपि ब्रह्म पुच्छं प्रतिष्ठेत्युक्त्वेदमुच्यतेतदप्येष श्लोको भवतिअसन्नेव भवतिअसद्ब्रह्मेति वेद चेत्अस्ति ब्रह्मेति चेद्वेदसन्तमेनं ततो विदुः’ (तै. उ. २ । ६ । १) इतिअस्मिंश्च श्लोकेऽननुकृष्यानन्दमयं ब्रह्मण एव भावाभाववेदनयोर्गुणदोषाभिधानाद्गम्यते — ‘ब्रह्म पुच्छं प्रतिष्ठाइत्यत्र ब्रह्मण एव स्वप्रधानत्वमिति चानन्दमयस्यात्मनो भावाभावशङ्का युक्ता, प्रियमोदादिविशिष्टस्यानन्दमयस्य सर्वलोकप्रसिद्धत्वात्कथं पुनः स्वप्रधानं सद्ब्रह्म आनन्दमयस्य पुच्छत्वेन निर्दिश्यते — ‘ब्रह्म पुच्छं प्रतिष्ठाइति ? नैष दोषःपुच्छवत्पुच्छम् , प्रतिष्ठा परायणमेकनीडं लौकिकस्यानन्दजातस्य ब्रह्मानन्दः इत्येतदनेन विवक्ष्यते, नावयवत्वम्; एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति’ (बृ. उ. ४ । ३ । ३२) इति श्रुत्यन्तरात्अपि चानन्दमयस्य ब्रह्मत्वे प्रियाद्यवयवत्वेन सविशेषं ब्रह्माभ्युपगन्तव्यम्निर्विशेषं तु ब्रह्म वाक्यशेषे श्रूयते, वाङ्मनसयोरगोचरत्वाभिधानात्यतो वाचो निवर्तन्तेअप्राप्य मनसा सहआनन्दं ब्रह्मणो विद्वान् बिभेति कुतश्चन’ (तै. उ. २ । ९ । १) इतिअपि चानन्दप्रचुर इत्युक्ते दुःखास्तित्वमपि गम्यते; प्राचुर्यस्य लोके प्रतियोग्यल्पत्वापेक्षत्वात्तथा सति यत्र नान्यत्पश्यति, नान्यच्छृणोति, नान्यद्विजानाति, भूमा’ (छा. उ. ७ । २४ । १) इति भूम्नि ब्रह्मणि तद्व्यतिरिक्ताभावश्रुतिरुपरुध्येतप्रतिशरीरं प्रियादिभेदादानन्दमयस्यापि भिन्नत्वम्ब्रह्म तु प्रतिशरीरं भिद्यते, सत्यं ज्ञानमनन्तं ब्रह्म’ (तै. उ. २ । १ । १) इत्यानन्त्यश्रुतेः एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा’ (श्वे. उ. ६ । ११) इति श्रुत्यन्तरात् चानन्दमयस्याभ्यासः श्रूयतेप्रातिपदिकार्थमात्रमेव हि सर्वत्राभ्यस्यतेरसो वै सःरसꣳ ह्येवायं लब्ध्वानन्दी भवतिको ह्येवान्यात्कः प्राण्यात्यदेष आकाश आनन्दो स्यात्’ (तै. उ. २ । ७ । १) (तै. उ. २ । ७ । १)सैषानन्दस्य मीमाꣳसा भवति’ (तै. उ. २ । ८ । १)आनन्दं ब्रह्मणो विद्वान्न बिभेति कुतश्चनेति’ (तै. उ. २ । ९ । १) आनन्दो ब्रह्मेति व्यजानात्’ (तै. उ. ३ । ६ । १) इति यदि चानन्दमयशब्दस्य ब्रह्मविषयत्वं निश्चितं भवेत् , तत उत्तरेष्वानन्दमात्रप्रयोगेष्वप्यानन्दमयाभ्यासः कल्प्येत त्वानन्दमयस्य ब्रह्मत्वमस्ति, प्रियशिरस्त्वादिभिर्हेतुभिरित्यवोचामतस्माच्छ्रुत्यन्तरे विज्ञानमानन्दं ब्रह्म’ (बृ. उ. ३ । ९ । २८) इत्यानन्दप्रातिपदिकस्य ब्रह्मणि प्रयोगदर्शनात् , यदेष आकाश आनन्दो स्यात्’ (तै. उ. २ । ७ । १) इति ब्रह्मविषयः प्रयोगो त्वानन्दमयाभ्यास इत्यवगन्तव्यम्यस्त्वयं मयडन्तस्यैवानन्दमयशब्दस्याभ्यासः एतमानन्दमयमात्मानमुपसङ्क्रामति’ (तै. उ. २ । ८ । ५) इति, तस्य ब्रह्मविषयत्वमस्तिविकारात्मनामेवान्नमयादीनामनात्मनामुपसङ्क्रमितव्यानां प्रवाहे पठितत्वात्न्वानन्दमयस्योपसङ्क्रमितव्यस्यान्नमयादिवदब्रह्मत्वे सति नैव विदुषो ब्रह्मप्राप्तिः फलं निर्दिष्टं भवेत्नैष दोषः, आनन्दमयोपसङ्क्रमणनिर्देशेनैव विदुषः पुच्छप्रतिष्ठाभूतब्रह्मप्राप्तेः फलस्य निर्दिष्टत्वात् , ‘तदप्ये श्लोको भवति’ ‘यतो वाचो निवर्तन्तेइत्यादिना प्रपञ्च्यमानत्वात्या त्वानन्दमयसन्निधाने सोऽकामयत बहु स्यां प्रजायेयेति’ (तै. उ. २ । ६ । १) इतीयं श्रुतिरुदाहृता, साब्रह्म पुच्छं प्रतिष्ठाइत्यनेन सन्निहिततरेण ब्रह्मणा सम्बध्यमाना नानन्दमयस्य ब्रह्मतां प्रतिबोधयतितदपेक्षत्वाच्चोत्तरस्य ग्रन्थस्य रसो वै सः’ (तै. उ. २ । ७ । १) इत्यादेर्नानन्दमयविषयताननुसोऽकामयतइति ब्रह्मणि पुंलिङ्गनिर्देशो नोपपद्यतेनायं दोषः, ‘तस्माद्वा एतस्मादात्मन आकाशः सम्भूतःइत्यत्र पुंलिङ्गेनाप्यात्मशब्देन ब्रह्मणः प्रकृतत्वात्या तु भार्गवी वारुणी विद्याआनन्दो ब्रह्मेति व्यजानात्’ (तै. उ. ३ । ६ । १) इति, तस्यां मयडश्रवणात्प्रियशिरस्त्वाद्यश्रवणाच्च युक्तमानन्दस्य ब्रह्मत्वम्तस्मादणुमात्रमपि विशेषमनाश्रित्य स्वत एव प्रियशिरस्त्वादि ब्रह्मण उपपद्यते चेह सविशेषं ब्रह्म प्रतिपिपादयिषितम् , वाङ्मनसगोचरातिक्रमश्रुतेःतस्मादन्नमयादिष्विवानन्दमयेऽपि विकारार्थ एव मयट् विज्ञेयः, प्राचुर्यार्थः

स्वमतपरिग्रहार्थमेकदेशिमतं दूषयति -

इदं त्विह वक्तव्यमिति ।

एष तावदुत्सर्गो यत् “ब्रह्म पुच्छं प्रतिष्ठेति ब्रह्मशब्दात्प्रतीयते । विशुद्धं ब्रह्म विकृतं त्वानन्दमयशब्दतः” ॥ तत्र किं पुच्छपदसमभिव्याहारात् अन्नमयादिषु चास्यावयवपरत्वेन प्रयोगात् , इहाप्यवयवपरत्वात्पुच्छपदस्य, तत्समानाधिकरणं ब्रह्मपदमपि स्वार्थत्यागेन कथञ्चिदवयवपरं व्याख्यायताम् । आनन्दमयपदं चान्नमयादिविकारवाचिप्रायपठितं विकारवाचि वा, कथञ्चित्प्रचुरानन्दवाचि वा, ब्रह्मण्यप्रसिद्धं कयाचिद्वृत्या ब्रह्मणि व्याख्यायताम् । आनन्दपदाभ्यासेन च ज्योतिःपदेनेव ज्योतिष्टोम आनन्दमयो लक्ष्यतां, उतानन्दमयपदं विकारार्थमस्तु, ब्रह्मपदं च ब्राह्मण्येव स्वार्थेऽस्तु, आनन्दपदाभ्यासश्च स्वार्थे, पुच्छपदमात्रमवयवप्रायलिखितमधिकरणपरतया व्याक्रियतामिति कृतबुद्धय एव विदाङ्कुर्वन्तु । तत्र “प्रायपाठपरित्यागो मुख्यत्रितयलङ्घनम् । पूर्वस्मिन्नुत्तरे पक्षे प्रायपाठस्य बाधनम्॥” पुच्छपदं हि वालधौ मुख्यं सदानन्दमयावयवे गौणमेवेति मुख्यशब्दार्थलङ्घनमवयवपरतायामधिकरणपरतायां च तुल्यम् । अवयवप्रायलेखबाधश्च विकारप्रायलेखबाधेन तुल्यः । ब्रह्मपदमानन्दमयपदमानन्दपदमिति त्रितयलङ्घनं त्वधिकम् । तस्मान्मुख्यत्रितयलङ्घनादसाधीयान्पूर्वः पक्षः । मुख्यत्रयानुगुण्येन तूत्तर एव पक्षो युक्तः । अपि चानन्दमयपदस्य ब्रह्मार्थत्वे, “ब्रह्म पुच्छम्” (तै. उ. २ । ५ । १) इति न समञ्जसम् । न हि तदेवावयव्यवयवश्चेति युक्तम् । आधारपरत्वे च पुच्छशब्दस्य, प्रतिष्ठेत्येतदप्युपपन्नतरं भवति । आनन्दमयस्य चान्तरत्वमन्नमयादिकोशापेक्षया । ब्रह्मणस्त्वान्तरत्वमानन्दमयादर्थाद्गम्यत इति न श्रुत्योक्तम् । एवं चान्नमयादिवदानन्दमयस्य प्रियाद्यवयवयोगो युक्तः । वाङ्मनसागोचरे तु परब्रह्मण्युपाधिमन्तर्भाव्य प्रियाद्यवयवयोगः, प्राचुर्यं च, क्लेशेन व्याख्यायेयाताम् । तथा च मान्त्रवर्णिकस्य ब्रह्मण एव “ब्रह्म पुच्छं प्रतिष्ठा” (तै. उ. २ । ५ । १) इति स्वप्रधानस्याभिधानात् , तस्यैवाधिकारो नानन्दमयस्येति । “सोऽकामयत”(तै. उ. २ । ६ । १) इत्याद्या अपि श्रुतयो ब्रह्मविषया न आनन्दमयविषया इत्यर्थसङ्क्षेपः । सुगममन्यत् ।