सूत्राणि त्वेवं व्याख्येयानीति ।
वेदसूत्रयोर्विरोधे “गुणे त्वन्याय्यकल्पना” इति सूत्राण्यन्यथा नेतव्यानि । आनन्दमयशब्देन तद्वाक्यस्य “ब्रह्म पुच्छं प्रतिष्ठा” (तै. उ. २ । ५ । १) इत्येतद्गतं ब्रह्मपदमुपलक्ष्यते । एतदुक्तं भवति - आनन्दमय इत्यादिवाक्ये यत् “ब्रह्म पुच्छं प्रतिष्ठा” (तै. उ. २ । ५ । १) इति ब्रह्मपदं तत्स्वप्रधानमेवेति । यत्तु ब्रह्माधिकरणमिति वक्तव्ये “ब्रह्म पुच्छम्” (तै. उ. २ । ५ । १) इत्याह श्रुतिः, तत्कस्य हेतोः, पूर्वमवयवप्रधानप्रयोगात्तत्प्रयोगस्यैव बुद्धौ संनिधानात्तेनापि चाधिकरणलक्षणोपपत्तेरिति ।
मान्त्रवर्णिकमेव च गीयते ॥ १५ ॥
यत् “सत्यं ज्ञानम्”(तै. उ. २ । १ । १) इत्यादिना मन्त्रवर्णेन ब्रह्मोक्तं तदेवोपायभूतेन ब्राह्मणेन स्वप्रधान्येन गीयते “ब्रह्म पुच्छं प्रतिष्ठा” (तै. उ. २ । ५ । १) इति । अवयववचनत्वे त्वस्य मन्त्रे प्राधान्यं, ब्राह्मणे त्वप्राधान्यमित्युपायोपेययोर्मन्त्रब्राह्मणयोर्विप्रतिपत्तिः स्यादिति ।
नेतरोऽनुपपत्तेः ॥ १६ ॥
अत्र ‘इतश्चानन्दमयः’ इति भाष्यस्य स्थाने ‘इतश्च ब्रह्म पुच्छं प्रतिष्ठा’ इति पठितव्यम् ।
भेदव्यपदेशाच्च ॥ १७ ॥
अत्रापि “इतश्चानन्दमयः” इत्यस्य च ‘आनन्दमयाधिकारे’ इत्यस्य च भाष्यस्य स्थाने ‘ब्रह्म पुच्छं प्रतिष्ठा’ इति ‘ब्रह्मपुच्छाधिकारे’ इति च पठितव्यम् ।
कामाच्च नानुमानापेक्षा ॥ १८ ॥
अस्मिन्नस्य च तद्योगं शास्ति ।। १९ ।।
इत्यनयोरपि सूत्रयोर्भाष्ये आनन्दमयस्थाने ‘ब्रह्म पुच्छं प्रतिष्ठा’ इति पाठो द्रष्टव्यः ।
तद्धेतु व्यपदेशाच्च ।। १४ ।।
विकारस्यानन्दमयस्य ब्रह्म पुच्छमवयवश्चेत्कथं सर्वस्यास्य विकारजातस्य सानन्दमयस्य ब्रह्म पुच्छं कारणमुच्येत “इदं सर्वमसृजत । यदिदं किञ्च”(तै. उ. २ । ६ । १) इति श्रुत्या । नह्यानन्दमयविकारावयवो ब्रह्म विकारः सन् सर्वस्य कारणमुपपद्यते । तस्मादानन्दमयविकारावयवो ब्रह्मेति तदवयवयोग्यानन्दमयो विकार इह नोपास्यत्वेन विवक्षितः, किन्तु स्वप्रधानमिह ब्रह्म पुच्छं ज्ञेयत्वेनेति सिद्धम् ॥ १९ ॥