अन्तस्तद्धर्मोपदेशात् ।
पूर्वस्मिन्नधिकरणेऽपास्तसमस्तविशेषब्रह्मप्रतिपत्त्यर्थमुपायतामात्रेण पञ्च कोशा उपाधयः स्थिताः, नतु विवक्षिताः । ब्रह्मैव तु प्रधानं “ब्रह्म पुच्छं प्रतिष्ठा” इति ज्ञेयत्वेनोपक्षिप्तमिति निर्णीतम् । सम्प्रति तु ब्रह्म विवक्षितोपाधिभेदमुपास्यत्वेनोपक्षिप्यते, नतु विद्याकर्मातिशयलब्धोत्कर्षो जीवात्मादित्यपदवेदनीय इति निर्णीयते । तत् “मर्यादाधाररूपाणि संसारिणि परे न तु । तस्मादुपास्यः संसारी कर्मानधिकृतो रविः” ॥ “हिरण्यश्मश्रुः” (छा. उ. १ । ६ । ६) इत्यादिरूपश्रवणात् , “य एषोऽन्तरादित्ये”(छा. उ. १ । ६ । ६), “य एषोऽन्तरक्षिणी”(छा. उ. १ । ७ । ५) इति चाधारभेदश्रवणात् , “ये चामुष्मात्पराञ्चो लोकास्तेषां चेष्टे देवकामानां च” इत्यैश्वर्यमर्यादाश्रुतेश्च संसार्येव कार्यकारणसङ्घातात्मको रूपादिसम्पन्न इहोपास्यः, नतु परमात्मा “अशब्दमस्पर्शम्” (क. उ. १ । ३ । १५) इत्यादिश्रुतिभिः अपास्तसमस्तरूपश्च, “स्वे महिम्नि”(छा. उ. ७ । २४ । १) इत्यादिश्रुतिभिरपाकृताधारश्च, “एष सर्वेश्वरः” (बृ. उ. ४ । ४ । २२) इत्यादिश्रुतिभिरधिगतनिर्मर्यादैश्वर्यश्च शक्य उपास्यत्वेनेह प्रतिपत्तुम् । सर्वपाप्मविरहश्चादित्यपुरुषे सम्भवति, शास्त्रस्य मनुष्याधिकारतया देवतायाः पुण्यपापयोरनधिकारात् । रूपादिमत्त्वान्यथानुपपत्त्या च कार्यकारणात्मके जीवे उपास्यत्वेन विवक्षिते यत्तावदृगाद्यात्मकतयास्य सर्वात्मकत्वं श्रूयते तत्कथञ्चिदादित्यपुरुषस्यैव स्तुतिरिति आदित्यपुरुष एवोपास्यो न परमात्मेत्येवं प्राप्तम् । अनाधारत्वे च नित्यत्वं सर्वगतत्वं च हेतुः । अनित्यं हि कार्यं कारणाधारमिति नानाधारं, नित्यमप्यसर्वगतं च यत्तस्मादधरभावेनास्थितं तदेव तस्योत्तरस्याधार इति नानाधारं, तस्मादुभयमुक्तम् । एवं प्राप्तेऽभिधीयते “अन्तस्तद्धर्मोपदेशात्” । “सार्वात्म्यसर्वदुरितविरहाभ्यामिहोच्यते । ब्रह्मैवाव्यभिचारिभ्यां सर्वहेतुर्विकारवत्” ॥ नामनिरुक्तेन हि सर्वपाप्मापादानतयस्योदय उच्यते । न चादित्यस्य देवतायाः कर्मानधिकारेऽपि सर्वपाप्मविरहः प्राग्भवीयधर्माधर्मरूपपाप्मसम्भवे सति । न चैतेषां प्राग्भवीयो धर्म एवास्ति न पाप्मेति साम्प्रतम् । विद्याकर्मातिशयसमुदाचारेऽप्यनादिभवपरम्परोपार्जितानां पाप्मनामपि प्रसुप्तानां सम्भवात् । नच श्रुतिप्रामाण्यादादित्यशरीराभिमानिनः सर्वपाप्मविरह इति युक्तं, ब्रह्मविषयत्वेनाप्यस्याः प्रामाण्योपपत्तेः । नच विनिगमनाहेत्वभावः, तत्र तत्र सर्वपाप्मविरहस्य भूयोभूयो ब्रह्मण्येव श्रवणात् । तस्यैव चेह प्रत्यभिज्ञायमानस्य विनिगमनाहेतोर्विद्यमानत्वात् । अपिच सार्वात्म्यं जगत्कारणस्य ब्रह्मण एवोपपद्यते, कारणादभेदात्कार्यजातस्य, ब्रह्मणश्च जगत्कारणत्वात् । आदित्यशरीराभिमानिनस्तु जीवात्मनो न जगत्कारणत्वम् । नच मुख्यार्थसम्भवे प्राशस्त्यलक्षणया स्तुत्यर्थता युक्ता । रूपवत्त्वं चास्य परानुग्रहाय कायनिर्माणेन वा, तद्विकारतया वा सर्वस्य कार्यजातस्य, विकारस्य च विकारवतोऽनन्यत्वात्तादृशरूपभेदेनोपदिश्यते, यथा “सर्वगन्धः सर्वरसः” (छा. उ. ३ । १४ । २) इति । नच ब्रह्मनिर्मितं मायारूपमनुवदच्छास्त्रमशास्त्रं भवति, अपितु तां कुर्वत् इति नाशास्त्रत्वप्रसङ्गः । यत्र तु ब्रह्म निरस्तसमस्तोपाधिभेदं ज्ञेयत्वेनोपक्षिप्यते, तत्र शास्त्रम् “अशब्दमस्पर्शमरूपमव्ययम्”(क. उ. १ । ३ । १५) इति प्रवर्तते । तस्माद्रूपवत्त्वमपि परमात्मन्युपपद्यते । एतेनैव मर्यादाधारभेदावपि व्याख्यातौ । अपि चादित्यदेहाभिमानिनः संसारिणोऽन्तर्यामी भेदेनोक्तः, स एवान्तरादित्य इत्यन्तःश्रुतिसाम्येन प्रत्यभिज्ञायमानो भवितुमर्हति ।
तस्मात्ते धनसनय इति ।
धनवन्तो विभूतिमन्त इति यावत् ।
कस्मात्पुनर्विभूतिमत्त्वं परमेश्वरपरिग्रहे घटत इत्यत आह -
यद्यद्विभूतिमदिति ।
सर्वात्मकत्वेऽपि विभूतिमत्स्वेव परमेश्वरस्वरूपाभिव्यक्तिः, न त्वविद्यातमःपिहितपरमेश्वरस्वरूपेष्वविभूतिमत्स्वित्यर्थः ।
लोककामेशितृत्वमपीति ।
अतोऽत्यन्तापारार्थ्यन्यायेन निराङ्कुशमैश्वर्यमित्यर्थः ॥ २० ॥ ॥ २१ ॥