आकाशस्तल्लिङ्गात् ।
पूर्वस्मिन्नधिकरणे ब्रह्मणोऽसाधारणधर्मदर्शनाद्विवक्षितोपाधिनोऽस्यैवोपासना, न त्वादित्यशरीराभिमानिनो जीवात्मन इति निरूपितम् । इदानीं त्वसाधारणधर्मदर्शनात्तदेवोद्गीथे सम्पाद्योपास्यत्वेनोपदिश्यते, न भूताकाश इति निरूप्यते । तत्र “आकाश इति होवाच” इति किं मुख्याकाशपादानुरोधेन “अस्य लोकस्य का गतिः”(छा. उ. १ । ९ । १) इति, “सर्वाणि ह वा इमानि भूतानि” इति “ज्यायान्” इति च “परायणम्” इति च कथञ्चिद्व्याख्यायतां, उतैतदनुरोधेनाकाशशब्दो भक्त्या परात्माने व्याख्यायतामिति । तत्र “प्रथमत्वात्प्रधानत्वादाकाशं मुख्यमेव नः । तदानुगुण्येनान्यानि व्याख्येयानीति निश्चयः” ॥ “अस्य लोकस्य का गतिः” इति प्रश्नोत्तरे “आकाश इति होवाच” इत्याकाशस्य गतित्वेन प्रतिपाद्यतया प्राधान्यात् , “सर्वाणि ह वा” इत्यादीनां तु तद्विशेषणतया गुणत्वात् , “गुणे त्वन्याय्यकल्पना” इति बहून्यप्यप्रधानानि प्रधानानुरोधेन नेतव्यानि । अपिच “आकाश इति होवाच” इत्युत्तरे प्रथमावगतमाकाशमनुपजातविरोधि, तेन तदनुरक्तायां बुद्धौ यद्यदेव तदेकवाक्यगतमुपनिपतति तत्तज्जघन्यतया उपसञ्जातविरोधि तदानुगुण्येनैव व्यवस्थानमर्हति । नच क्कचिदाकाशशब्दो भक्त्या ब्रह्मणि प्रयुक्त इति सर्वत्र तेन तत्परेण भवितव्यम् । नहि गङ्गायां घोष इत्यत्र गङ्गपदमनुपपत्त्या तीरपरमिति यादांसि गङ्गायामित्यत्राप्यनेन तत्परेण भवितव्यम् । सम्भवश्चोभयत्र तुल्यः । नच ब्रह्मण्यप्याकाशशब्दो मुख्यः, अनैकार्थत्वस्यान्याय्यत्वात् , भक्त्या च ब्रह्मणि प्रयोगदर्शनोपपत्तेः । लोके चास्य नभसि निरूढत्वात् , तत्पूर्वकत्वाच्च वैदिकार्थप्रतीतेर्वैपरीत्यानुपपत्तेः । तदानुगुण्येन च “सर्वाणि ह वा” इत्यादीनि भाष्यकृता स्वयमेव नीतानि । तस्माद्भूताकाशमेवात्रोपास्यत्वेनोपदिश्यते, न परमात्मेति प्राप्तम् ।