ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः प्रथमः पादः
भामतीव्याख्या
 
छन्दोभिधानान्नेति चेन्न तथा चेतोर्पणनिगदात्तथाहि दर्शनम् ॥२५॥
अथ यदुक्तं पूर्वस्मिन्नपि वाक्ये ब्रह्माभिहितमस्ति, गायत्री वा इदꣳ सर्वं भूतं यदिदं किञ्च’ (छा. उ. ३ । १२ । १) इति गायत्र्याख्यस्य च्छन्दसोऽभिहितत्वादिति; तत्परिहर्तव्यम्कथं पुनश्छन्दोभिधानान्न ब्रह्माभिहितमिति शक्यते वक्तुम् ? यावतातावानस्य महिमाइत्येतस्यामृचि चतुष्पाद्ब्रह्म दर्शितम्नैतस्ति । ‘गायत्री वा इदꣳ सर्वम्इति गायत्रीमुपक्रम्य, तामेव भूतपृथिवीशरीरहृदयवाक्प्राणप्रभेदैर्व्याख्याय, सैषा चतुष्पदा षड्विधा गायत्री तदेतदृचाभ्यनूक्तं’ (छा. उ. ३ । १२ । ५) तावानस्य महिमा’ (छा. उ. ३ । १२ । ६) इति तस्यामेव व्याख्यातरूपायां गायत्र्यामुदाहृतो मन्त्रः कथमकस्माद्ब्रह्म चतुष्पादभिदध्यात्योऽपि तत्र यद्वै तद्ब्रह्म’ (छा. उ. ३ । १२ । ७) इति ब्रह्मशब्दः, सोऽपि च्छन्दसः प्रकृतत्वाच्छन्दोविषय एव एतामेवं ब्रह्मोपनिषदं वेद’ (छा. उ. ३ । ११ । ३) इत्यत्र हि वेदोपनिषदमिति व्याचक्षतेतस्माच्छन्दोभिधानान्न ब्रह्मणः प्रकृतत्वमिति चेत् , नैष दोषःतथा चेतोर्पणनिगदात्तथा गायत्र्याख्यच्छन्दोद्वारेण, तदनुगते ब्रह्मणि चेतसोऽर्पणं चित्तसमाधानम् अनेन ब्राह्मणवाक्येन निगद्यते — ‘गायत्री वा इदꣳ सर्वम्इति ह्यक्षरसन्निवेशमात्राया गायत्र्याः सर्वात्मकत्वं सम्भवतितस्माद्यद्गायत्र्याख्यविकारेऽनुगतं जगत्कारणं ब्रह्म , तदिह सर्वमित्युच्यते, यथा सर्वं खल्विदं ब्रह्म’ (छा. उ. ३ । १४ । १) इतिकार्यं कारणादव्यतिरिक्तमिति वक्ष्यामःतदनन्यत्वमारम्भणशब्दादिभ्यः’ (ब्र. सू. २ । १ । १४) इत्यत्रतथान्यत्रापि विकारद्वारेण ब्रह्मण उपासनं दृश्यतेएतं ह्येव बह्वृचा महत्युक्थे मीमांसन्त एतमग्नावध्वर्यव एतं महाव्रते च्छन्दोगाः’ (ऐ. आ. ३ । २ । ३ । १२) इतितस्मादस्ति च्छन्दोभिधानेऽपि पूर्वस्मिन्वाक्ये चतुष्पाद्ब्रह्म निर्दिष्टम्तदेव ज्योतिर्वाक्येऽपि परामृश्यत उपासनान्तरविधानायअपर आहसाक्षादेव गायत्रीशब्देन ब्रह्म प्रतिपाद्यते, संख्यासामान्यात्यथा गायत्री चतुष्पदा षडक्षरैः पादैः, तथा ब्रह्म चतुष्पात्तथान्यत्रापि च्छन्दोभिधायी शब्दोऽर्थान्तरे संख्यासामान्यात्प्रयुज्यमानो दृश्यतेतद्यथा — ‘ते वा एते पञ्चान्ये पञ्चान्ये दश सन्तस्तत्कृतम्इत्युपक्रम्याहसैषा विराडन्नादीइतिअस्मिन्पक्षे ब्रह्मैवाभिहितमिति च्छन्दोभिधानम्सर्वथाप्यस्ति पूर्वस्मिन्वाक्ये प्रकृतं ब्रह्म ॥ २५ ॥

छन्दोऽभिधानान्नेति चेन्न तथा चेतोऽर्पणनिगदात्तथा हि दर्शनम् ।

पूर्ववाक्यस्य हि ब्रह्मार्थत्वे सिद्धे स्यादेतदेवं, नतु तद्ब्रह्मार्थं, अपितु गायत्र्यर्थम् । “गायत्री वा इदं सर्वं भूतं यदिदं किञ्च”(छा. उ. ३ । १२ । १) इति गायत्रीं प्रकृत्येदं श्रूयते - “त्रिपादस्यामृतं दिवि” (छा. उ. ३ । १२ । ६) इति । ननु “आकाशस्तल्लिङ्गात्” (ब्र. सू. १ । १ । २२) इत्यनेनैव गतार्थमेतत् । तथाहि - “तावानस्य महिमा”(छा. उ. ३ । १२ । ६) इत्यस्यामृचि ब्रह्म चतुष्पादुक्तम् । सैव च “तदेतदृचाभ्यनूक्तम्”(छा. उ. ३ । १२ । ५) इत्यनेन सङ्गमितार्था ब्रह्मलिङ्गम् । एवं “गायत्री वा इदं सर्वम्”(छा. उ. ३ । १२ । १) इत्यक्षरसंनिवेशमात्रस्य गायत्र्या न सर्वत्वमुपपद्यते । नच भूतपृथिवीशरीरहृदयवाक्प्राणात्मत्वं गायत्र्याः स्वरूपेण सम्भवति । नच ब्रह्मपुरुषसम्बन्धित्वमस्ति गायत्र्याः । तस्माद्गायत्रीद्वारा ब्रह्मण एवोपासना न गायत्र्या इति पूर्वेणैव गतार्थत्वादनारम्भणीयमेतत् । नच पूर्वन्यायस्मारणे सूत्रसन्दर्भ एतावान्युक्तः । अत्रोच्यते - अस्त्यधिका शङ्का । तथाहिगायत्रीद्वारा ब्रह्मोपासनेति कोऽर्थः, गायत्रीविकारोपाधिनो ब्रह्मण उपासनेति । नच तदुपाधिनस्तदवच्छिन्नस्य सर्वात्मत्वं, उपाधेरवच्छेदात् । नहि घटावच्छिन्नं नभोऽनवच्छिन्नं भवति । तस्मादस्य सर्वात्मत्वादिकं स्तुत्यर्थं, तद्वरं गायत्र्या एवास्तु स्तुतिः कयाचित्प्रणाड्या । “वाग्वै गायत्री वाग्वा इदं सर्वं भूतं गायति च त्रायते च”(छा. उ. ३ । १२ । ६) इत्यादिश्रुतिभ्यः । तथाच “गायत्री वा इदं सर्वम्” इत्युपक्रम्य गायत्र्या एव हृदयादिभिर्व्याख्याय च “सैषा चतुष्पदा षड्विधा गायत्री”(छा. उ. ३ । १२ । ५) इत्युपसंहारो गायत्र्यामेव समञ्जसो भवति । ब्रह्मणि तु सर्वमेतदसमञ्जसमिति । “यद्वै तद्ब्रह्म”(छा. उ. ३ । १२ । ७) इति च ब्रह्मशब्दश्छन्दोविषय एव, यथा “एतां ब्रह्मोपनिषदम्” इत्यत्र वेदोपनिषदुच्यते । तस्माद्गायत्रीछन्दोभिधानान्न ब्रह्मविषयमेतदिति प्राप्तम् ।

एवं प्राप्तेऽभिधीयते -

न ।

कुतः,

तथा चेतोर्पणनिगदात् ।

गायत्र्याख्यच्छन्दोद्वारेण गायत्रीरूपविकारानुगते ब्रह्मणि चेतोर्पणं चित्तसमाधानमनेन ब्राह्मणवाक्येन निगद्यते । एतदुक्तं भवति - न गायत्री ब्रह्मणोऽवच्छेदिका, उत्पलस्येव नीलत्वं, येन तदवच्छिन्नत्वमन्यत्र न स्यादवच्छेदकविरहात् । किन्तु यदेतद्ब्रह्म सर्वात्मकं सर्वकारणं तत्स्वरूपेणाशक्योपदेशमिति तद्विकारगायत्रीद्वारेणोपलक्ष्यते । गायत्र्याः सर्वच्छन्दोव्याप्त्या च सवनत्रयव्याप्त्या च द्विजातिद्वितीयजन्मजननीयतया च श्रुतेर्विकारेषु मध्ये प्राधान्येन द्वारत्वोपपत्तेः । न चान्यत्रोपलक्षणाभावेन नोपलक्ष्यं प्रतीयते । नहि कुण्डलेनोपलक्षितं कण्ठरूपं कुण्डलवियोगेऽपि पश्चात्प्रतीयमानमप्रतीयमानं भवति । तद्रूपप्रत्यायनमात्रोपयोगित्वादुपलक्षणानामनवच्छेदकत्वात् ।

तदेवं गायत्रीशब्दस्य मुख्यार्थत्वे गायत्र्या ब्रह्मोपलक्ष्यत इत्युक्तम् । सम्प्रति तु गायत्रीशब्दः सङ्ख्यासामान्याद्गौण्या वृत्त्या ब्रह्मण्येव वर्तत इति दर्शयति -

अपर आहेति ।

तथाहि - षडक्षरैः पादैर्यथा गायत्री चतुष्पदा, एवं ब्रह्मापि चतुष्पात् । सर्वाणि हि भूतानि स्थावरजङ्गमान्यस्यैकः पादः । दिवि द्योतनवति चैतन्यरूपे । स्वात्मनीति यावत् । त्रयः पादाः । अथवा दिव्याकाशे त्रयः पादाः । तथाहि श्रुतिः - “इदं वाव तद्योऽयं बहिर्धा पुरुषादाकाशः” (छा. उ. ३ । १२ । ७) तद्धि तस्य जागरितस्थानम् । जाग्रत्खल्वयं बाह्यान्पदार्थान्वेद । तथा - “अयं वाव स योऽयमन्तः पुरुष आकाशः” (छा. उ. ३ । १२ । ८) । शरीरमध्य इत्यर्थः । तद्धि तस्य स्वप्नस्थानम् । तथा “अयं वाव स योऽयमन्तर्हृदय आकाशः”(छा. उ. ३ । १२ । ९) । हृदयपुण्डरीक इत्यर्थः । तद्धि तस्य सुषुप्तिस्थानम् । तदेतत् “त्रिपादस्यामृतं दिवि”(छा. उ. ३ । १२ । ६) इत्युक्तम् । तदेवं चतुष्पात्त्वसामान्याद्गायत्रीशब्देन ब्रह्मोच्यत इति ।

अस्मिन्पक्षे ब्रह्मैवाभिहितिमिति ।

ब्रह्मपरत्वादभिहितमित्युक्तम् ॥ २५ ॥