ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः प्रथमः पादः
भामतीव्याख्या
 
भूतादिपादव्यपदेशोपपत्तेश्चैवम् ॥ २६ ॥
इतश्चैवमभ्युपगन्तव्यमस्ति पूर्वस्मिन्वाक्ये प्रकृतं ब्रह्मेति; यतो भूतादीन्पादान् व्यपदिशति श्रुतिःभूतपृथिवीशरीरहृदयानि हि निर्दिश्याहसैषा चतुष्पदा षड्विधा गायत्री’ (छा. उ. ३ । १२ । ५) इति हि ब्रह्मानाश्रयणे केवलस्य च्छन्दसो भूतादयः पादा उपपद्यन्तेअपि ब्रह्मानाश्रयणे नेयमृक् सम्बध्येत — ‘तावानस्य महिमाइतिअनया हि ऋचा स्वरसेन ब्रह्मैवाभिधीयते, पादोऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिवि’ (छा. उ. ३ । १२ । ६) इति सर्वात्मत्वोपपत्तेःपुरुषसूक्तेऽपीयमृक् ब्रह्मपरतयैव समाम्नायतेस्मृतिश्च ब्रह्मण एवंरूपतां दर्शयतिविष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत्’ (भ. गी. १० । ४२) इतियद्वै तद्ब्रह्म’ (छा. उ. ३ । १२ । ७) इति निर्देश एवं सति मुख्यार्थ उपपद्यतेते वा एते पञ्च ब्रह्मपुरुषाः’ (छा. उ. ३ । १३ । ६) इति हृदयसुषिषु ब्रह्मपुरुषश्रुतिर्ब्रह्मसम्बन्धितायां विवक्षितायां सम्भवतितस्मादस्ति पूर्वस्मिन्वाक्ये ब्रह्म प्रकृतम्तदेव ब्रह्म ज्योतिर्वाक्ये द्युसम्बन्धात्प्रत्यभिज्ञायमानं परामृश्यत इति स्थितम् ॥ २६ ॥

षड्विधेति ।

भूतपृथिवीशरीरहृदयवाक्प्राणा इति षट्प्रकारा गायत्र्याख्यस्य ब्रह्मणः श्रूयन्ते ।

पञ्च ब्रह्मपुरुषा इति च, हृदयसुषिषु ब्रह्मपुरुषश्रुतिर्ब्रह्मसम्बन्धितायां विवक्षितायां सम्भवति ।

अस्यार्थः - हृदयस्यास्य खलु पञ्च सुषयः पञ्च छिद्राणि । तानि च देवैः प्राणादिभी रक्ष्यमाणानि स्वर्गप्राप्तिद्वाराणीति देवसुषयः । तथाहि - हृदयस्य यत्प्राङ्मुखं छिद्रं तत्स्थो यो वायुः स प्राणः, तेन हि प्रयाणकाले सञ्चरते स्वर्गलोकं, स एव चक्षुः, स एवादित्य इत्यर्थः । “आदित्यो ह वै बाह्यः प्राणः”(प्र.उ. ३.८) इति श्रुतेः । अथ योऽस्य दक्षिणः सुषिस्तत्स्थो वायुविशेषो व्यानः । तत्सम्बद्धं श्रोत्रं तच्चन्द्रमाः, “श्रोत्रेण सृष्टा विशश्चन्द्रमाश्च”(ऐ .आ. २.१.७) इति श्रुतेः । अथ योऽस्य प्रत्यङ्मुखः सुषिस्तत्स्थो वायुविशेषोऽपानः स च वाक्सम्बन्धाद्वाक् , “वाग्वा अग्निः”(श.ब्रा. ६.१.२.२८) इति श्रुतेः । अथ योऽस्योदङ्मुखः सुषिस्तत्स्थो वायुविशेषः स समानः, तत्सम्बद्धं मनः, तत्पर्जन्यो देवता । अथ योऽस्योर्ध्वः सुषिस्तत्स्थो वायुविशेषः स उदानः, पादतलादारभ्योर्ध्वं नयनात् । स वायुस्तदाधारश्चाकाशो देवता । ते वा एते पञ्च सुषयः । तत्सम्बद्धाः पञ्च हार्दस्य ब्रह्मणः पुरुषा न गायत्र्यामक्षरसंनिवेशमात्रे सम्भवन्ति, किन्तु ब्रह्मण्येवेति ॥ २६ ॥