ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः प्रथमः पादः
भामतीव्याख्या
 
प्राणस्तथानुगमात् ॥ २८ ॥
अस्ति कौषीतकिब्राह्मणोपनिषदीन्द्रप्रतर्दनाख्यायिकाप्रतर्दनो वै दैवोदासिरिन्द्रस्य प्रियं धामोपजगाम युद्धेन पौरुषेण ’ (कौ. उ. ३ । १) इत्यारभ्याम्नातातस्यां श्रूयते होवाच प्राणोऽस्मि प्रज्ञात्मा तं मामायुरमृतमित्युपास्स्व’ (कौ. उ. ३ । २) इतितथोत्तरत्रापिअथ खलु प्राण एव प्रज्ञात्मेदं शरीरं परिगृह्योत्थापयति’ (कौ. उ. ३ । ३) इतितथा वाचं विजिज्ञासीत वक्तारं विद्यात्इतिअन्ते एष प्राण एव प्रज्ञात्मानन्दोऽजरोऽमृतः’ (कौ. उ. ३ । ९) इत्यादितत्र संशयःकिमिह प्राणशब्देन वायुमात्रमभिधीयते, उत देवतात्मा, उत जीवः, अथवा परं ब्रह्मेतिननुअत एव प्राणःइत्यत्र वर्णितं प्राणशब्दस्य ब्रह्मपरत्वम्इहापि ब्रह्मलिङ्गमस्ति — ‘आनन्दोऽजरोऽमृतःइत्यादिकथमिह पुनः संशयः सम्भवति ? — अनेकलिङ्गदर्शनादिति ब्रूमः केवलमिह ब्रह्मलिङ्गमेवोपलभ्यतेसन्ति हीतरलिङ्गान्यपिमामेव विजानीहि’ (कौ. उ. ३ । १) इतीन्द्रस्य वचनं देवतात्मलिङ्गम् । ‘इदं शरीरं परिगृह्योत्थापयतिइति प्राणलिङ्गम् । ‘ वाचं विजिज्ञासीत वक्तारं विद्यात्इत्यादि जीवलिङ्गम्अत उपपन्नः संशयःतत्र प्रसिद्धेर्वायुः प्राण इति प्राप्ते उच्यते

प्रतर्दनाधिकरणविषयाः

प्राणस्तथानुगमात् ।

'अनेकलिङ्गसन्दोहे बलवत्कस्य किं भवेत् । लिङ्गिनो लिङ्गमित्यत्र चिन्त्यते प्रागचिन्तितम्” ॥ मुख्यप्राणजीवदेवताब्रह्मणामनेकेषां लिङ्गानि बहूनि सम्प्लवन्ते, तत्कतमदत्र लिङ्गं, लिङ्गाभासं च कतमदित्यत्र विचार्यते । न चायमर्थः “अत एव प्राणः”(ब्र.सू. १.१.२३) इत्यत्र विचारितः । स्यादेतत् । हिततमपुरुषार्थसिद्धिश्च निखिलभ्रूणहत्यादिपापापरामर्शश्च प्रज्ञात्मत्वं चानन्दादिश्च न मुख्ये प्राणे सम्भवन्ति । तथा “एष साधु कर्म कारयति”(कौ.उ. ३.८) “एष लोकाधिपतिः” (कौ. उ. ३ । ९) इत्याद्यपि । जीवे तु प्रज्ञात्मत्वं कथञ्चिद्भवेदितरेषां त्वसम्भवः । वक्तृत्वं च वाक्करणव्यापारवत्त्वं यद्यपि परमात्मनि स्वरूपेण न सम्भवति तथाप्यनन्यथासिद्धबहुब्रह्मलिङ्गविरोधपरिहाराय जीवद्वारेण ब्रह्मण्येव कथञ्चिद्व्याख्येयं जीवस्य ब्रह्मणोऽभेदात् । तथाच श्रुतिः - “यद्वाचानभ्युदितं येन वागभ्युद्यते । तदेव ब्रह्म त्वं विद्धि”(के. उ. १ । ५) इति वाग्वदनस्य ब्रह्म कारणमित्याह । शरीराधारणमपि यद्यपि मुख्यप्राणस्यैव तथापि प्राणव्यापारस्य परमात्मायत्तत्वात्परमात्मन एव । यद्यपि चात्रेन्द्रदेवताया विग्रहवत्या लिङ्गमस्ति, तथाहि - इन्द्रधामगतं प्रतर्दनं प्रतीन्द्र उवाच, “मामेव विजानीहि”(कौ. उ. ३ । १) इत्युपक्रम्य, “प्राणोऽस्मिप्रज्ञात्मा”(कौ. उ. ३ । २) इत्यात्मनि प्राणशब्दमुच्चचार । प्रज्ञात्मत्वं चास्योपपद्यते, देवतानामप्रतिहतज्ञानशक्तित्वात् । सामर्थ्यातिशयाच्चेन्द्रस्य हिततमपुरुषार्थहेतुत्वमपि । मनुष्याधिकारत्वाच्छास्त्रस्य देवान्प्रत्यप्रवृत्तेर्भ्रूणहत्यादिपापापरामर्शस्योपपत्तेः । लोकाधिपत्यं चेन्द्रस्यलोकपालत्वात् । आनन्दादिरूपत्वं च स्वर्गस्यैवानन्दत्वात् । “आभूतसम्प्लवं स्थानममृतत्वं हि भाष्यते” (वि. पु. २ । ८ । ९७) इति स्मृतेश्चामृतत्वमिन्द्रस्य । “त्वाष्ट्रमहनम्” इत्याद्या च विग्रहवत्त्वेन स्तुतिस्तत्रैवोपपद्यते । तथापि परमपुरुषार्थस्यापवर्गस्य परब्रह्मज्ञानादन्यतोऽनवाप्तेः, परमानन्दरूपस्य मुख्यस्यामृतत्वस्याजरत्वस्य च ब्रह्मरूपाव्यभिचारात् , अध्यात्मसम्बन्धभूम्नश्च पराचीन्द्रेऽनुपपत्तेः, इन्द्रस्य देवताया आत्मनि प्रतिबुद्धस्य चरमदेहस्य वामदेवस्येव प्ररब्धविपाककर्माशयमात्रं भोगेन क्षपयतो ब्रह्मण एव सर्वमेतत्कल्पत इति विग्रहवदिन्द्रजीवप्राणवायुपरित्यागेन ब्रह्मैवात्र प्राणशब्दं प्रतीयत इति पूर्वपक्षाभावादनारभ्यमेतदिति । अत्रोच्यते - “यो वै प्राणः सा प्रज्ञा या वा प्रज्ञा स प्राणः सह ह्येतवस्मिन् शरीरे वसतः सहोत्क्रामतः” (कौ. उ. ३ । ३) इति यस्यैव प्राणस्य प्रज्ञात्मन उपास्यत्वमुक्तं तस्यैव प्राणस्य प्रज्ञात्मना सहोत्क्रमणमुच्यते । नच ब्रह्मण्यभेदे द्विवचनं, न सहभावः न चोत्क्रमणम् । तस्माद्वायुरेव प्राणः । जीवश्च प्रज्ञात्मा । सह प्रवृत्तिनिवृत्त्या भक्त्यैकत्वमनयोरुपचरितं “यो वै प्राणः” (कौ. उ. ३ । ३) इत्यादिना । आनन्दामराजरापहतपाप्मत्वादयश्च ब्रह्मणि प्राणे भविष्यन्ति । तस्माद्यथायोगं त्रय एवात्रोपास्याः । न चैष वाक्यभेदो दोषमावहति । वाक्यार्थावगमस्य पदार्थावगमपूर्वकत्वात् । पदार्थानां चोक्तेन मार्गेण स्वातन्त्र्यात् । तस्मादुपास्यभेदादुपासात्रैविध्यमिति पूर्वः पक्षः । सिद्धान्तस्तु - सत्यं पदार्थावगमोपायो वाक्यार्थावगमः, नतु पदार्थावगमपराण्येव पदानि, अपि त्वेकवाक्यार्थावगमपराणि । तमेव त्वेकं वाक्यार्थं पदार्थावगममन्तरेण न शक्नुवन्ति कर्तुमित्यन्तरा तदर्थमेव तमप्यवगमयन्ति, तेन पदानि विशिष्टैकार्थावबोधनस्वरसान्येव बलवद्बाधकोपनिपातान्नानार्थबोधपरतां नीयन्ते । यथाहुः - “सम्भवत्येकवाक्यत्वे वाक्यभेदश्च नेष्यते” इति । तेन यथोपांशुयाजवाक्ये जामितादोषोपक्रमे तत्प्रतिसमाधानोपसंहारे चैकवाक्यत्वाय “प्रजापतिरुपांशु यष्टव्यः” इत्यादयो न पृथग्विधयः किन्त्वर्थवादा इति निर्णीतं, तथेहापि “मामेव विजानीहि”(कौ. उ. ३ । १) इत्युपक्रम्य, “प्राणोऽस्मि प्रज्ञात्मा”(कौ. उ. ३ । २) इत्युक्त्वान्ते “स एष प्राण एव प्रज्ञात्मानन्दोऽजरोऽमृतः” (कौ. उ. ३ । ९) इत्युपसंहाराद्ब्रह्मण्येकवाक्यत्वावगतौ सत्यां जीवमुख्यप्राणलिङ्गे अपि तदनुगुणतया नेतव्ये । अन्यथा वाक्यभेदप्रसङ्गात् । यत्पुनर्भेददर्शनं “सह ह्येतौ” (कौ. उ. ३ । ३) इति, तज्ज्ञानक्रियाशक्तिभेदेन बुद्धिप्राणयोः प्रत्यगात्मोपाधिभूतयोर्निर्देशः प्रत्यगात्मानमेवोपलक्षयितुम् । अत एवोपलक्ष्यस्य प्रत्यगात्मस्वरूपस्याभेदमुपलक्षणं भेदेनोपलक्षयति “प्राण एव प्रज्ञात्मा” (कौ. उ. ३ । ९) इति । “तस्मादनन्यथासिद्धब्रह्मलिङ्गानुसारातः । एकवाक्यबलात्प्राणजीवलिङ्गोपपादनम्” इति सङ्ग्रहः ॥ २८ ॥ ॥ २९ ॥ ॥ ३० ॥