जीवमुख्यप्राणलिङ्गान्नेति चेन्नोपासात्रैविध्यादाश्रितत्वादिह तद्योगात् ॥ ३१ ॥
अथवा ‘नोपासात्रैविध्यादाश्रितत्वादिह तद्योगात्’ इत्यस्यायमन्योऽर्थः — न ब्रह्मवाक्येऽपि जीवमुख्यप्राणलिङ्गं विरुध्यते । कथम् ? उपासात्रैविध्यात् । त्रिविधमिह ब्रह्मण उपासनं विवक्षितम् — प्राणधर्मेण, प्रज्ञाधर्मेण, स्वधर्मेण च । तत्र ‘आयुरमृतमित्युपास्स्वायुः प्राणः’ इति ‘इदं शरीरं परिगृह्योत्थापयति’ इति ‘तस्मादेतदेवोक्थमुपासीत’ इति च प्राणधर्मः । ‘अथ यथास्यै प्रज्ञायै सर्वाणि भूतान्येकीभवन्ति तद्व्याख्यास्यामः’ इत्युपक्रम्य ‘वागेवास्या एकमङ्गमदूदुहत्तस्यै नाम परस्तात्प्रतिविहिता भूतमात्रा प्रज्ञया वाचं समारुह्य वाचा सर्वाणि नामान्याप्नोति’ इत्यादिः प्रज्ञाधर्मः । ‘ता वा एता दशैव भूतमात्रा अधिप्रज्ञं दश प्रज्ञामात्रा अधिभूतम् । यद्धि भूतमात्रा न स्युर्न प्रज्ञामात्राः स्युः । यद्धि प्रज्ञामात्रा न स्युर्न भूतमात्राः स्युः । न ह्यन्यतरतो रूपं किञ्चन सिध्येत् । नो एतन्नाना । तद्यथा रथस्यारेषु नेमिरर्पिता नाभावरा अर्पिता एवमेवैता भूतमात्राः प्रज्ञामात्रास्वर्पिताः प्रज्ञामात्राः प्राणेऽर्पिताः स एष प्राण एव प्रज्ञात्मा’ इत्यादिर्ब्रह्मधर्मः । तस्माद्ब्रह्मण एवैतदुपाधिद्वयधर्मेण स्वधर्मेण चैकमुपासनं त्रिविधं विवक्षितम् । अन्यत्रापि ‘मनोमयः प्राणशरीरः’ (छा. उ. ३ । १४ । २) इत्यादावुपाधिधर्मेण ब्रह्मण उपासनमाश्रितम्; इहापि तद्युज्यते वाक्यस्योपक्रमोपसंहाराभ्यामेकार्थत्वावगमात् प्राणप्रज्ञाब्रह्मलिङ्गावगमाच्च । तस्माद्ब्रह्मवाक्यमेवैतदिति सिद्धम् ॥ ३१ ॥