अथ द्वितीयं पादमारिप्सुः पूर्वोक्तमर्थं स्मारयति वक्ष्यमाणोपयोगितया -
प्रथमे पाद इति ।
उत्तरत्र हि ब्रह्मणो व्यापित्वनित्यत्वादयः सिद्धवद्धेतुतयोपदेक्ष्यन्ते ।
न चैते साक्षात्पूर्वमुपपादिता इति कथं हेतुभावेन न शक्या उपदेष्टुमित्यत उक्तम् -
समस्तजगत्कारणस्येति ।
यद्यप्येते न पूर्वं कण्ठत उक्तास्तथापि ब्रह्मणो जगज्जन्मादिकारणत्वोपपदानेनाधिकरणसिद्धान्तन्यायेनोपक्षिप्ता इत्युपपन्नस्तेषामुत्तरत्र हेतुभावेनोपन्यास इत्यर्थः ।
अर्थान्तरप्रसिद्धानां चेति ।
यत्रार्थान्तरप्रसिद्धा एवाकाशप्राणज्योतिरादयो ब्रह्मणि व्याख्यायन्ते, तदव्यभिचारिलिङ्गश्रवणात् । तत्र कैव कथा मनोमयादीनामर्थान्तरे प्रसिद्धानां पदानां ब्रह्मगोचरत्वनिर्णयं प्रतीत्यभिप्रायः । पूर्वपक्षाभिप्रायं त्वग्रे दर्शयिष्यामः ।