सर्वत्र प्रसिद्धोपदेशात् । इदमाम्नायते । सर्वं खल्विदं ब्रह्म ।
कुतः,
तज्जलानिति ।
यतस्तस्माद्ब्रह्मणो जायत इति तज्जं, तस्मिंश्च लीयत इति तल्लं, तस्मिंश्चानिति स्थितिकाले चेष्टत इति तदनं जगत् तस्मात्सर्वं खल्विदं जगद्ब्रह्म । अतः कः कस्मिन्रज्यते कश्च कं द्वेष्टीति रागद्वेषरहितः शान्तः सन्नुपासीत ।
अथ खलु क्रतुमयः पुरुषो यथाक्रतुरस्मिंल्लोके पुरुषो भवति तथेतः प्रेत्य भवति स क्रतुं कुर्वीत मनोमयः प्राणशरीर इत्यादि ।
तत्र संशयः - किमिह मनोमयत्वादिभिर्धर्मैः शारीर आत्मोपास्यत्वेनोपदिश्यते आहोस्विद्ब्रह्मेति । किं तावत्प्राप्तम् । शारीरो जीव इति । कुतः । “क्रतुम्” इत्यादिवाक्येन विहितां क्रतुभावनामनूद्य “सर्वम्” इत्यादिवाक्यं शमगुणे विधिः । तथा च “सर्वं खल्विदं ब्रह्म” (छा. उ. ३ । १४ । १) इति वाक्यं प्रथमपठितमप्यर्थालोचनया परमेव, तदर्थोपजीवित्वात् । एवं च सङ्कल्पविधिः प्रथमो निर्विषयः सन्नपर्यवस्यन्विषयापेक्षः स्वयमनिर्वृत्तो न विध्यन्तरेणोपजीवितुं शक्यः, अनुपपादकत्वात् । तस्माच्छान्ततागुणविधानात्पूर्वमेव “मनोमयः प्राणशरीरः”(छा. उ. ३ । १४ । २) इत्यादिभिर्विषयोपनायकैः सम्बध्यते । मनोमयत्वादि च कार्यकारणसङ्घातात्मनो जीवात्मन एव निरूढमिति जीवात्मनोपास्येनोपरक्तोपासना न पश्चात्ब्रह्मणा सम्बद्धुमर्हति, उत्पत्तिशिष्टगुणावरोधात् । नच “सर्वं खल्विदम्”(छा. उ. ३ । १४ । १) इति वाक्यं ब्रह्मपरमपि तु शमहेतुवन्निगदार्थवादः शान्तताविधिपरः, “शूर्पेण जुहोति” “तेन ह्यन्नं क्रियते” इतिवत् । न चान्यपरादपि ब्रह्मापेक्षिततया स्वीक्रियत इति युक्तं, मनोमयत्वादिभिर्धर्मैर्जीवे सुप्रसिद्धैर्जीवविषयसमर्पणेनानपेक्षितत्वात् । सर्वकर्मत्वादि तु जीवस्य पर्यायेण भविष्यति । एवं चाणीयस्त्वमप्युपपन्नम् । परमात्मनस्त्वपरिमेयस्य तदनुपपत्तिः । प्रथमावगतेन चाणीयस्त्वेन ज्यायस्त्वं तदनुगुणतया व्याख्येयम् । व्याख्यातं च भाष्यकृता । एवं कर्मकर्तृव्यपदेशः सप्तमीप्रथमान्तता चाभेदेऽपि जीवात्मनि कथञ्चिद्भेदोपचारेण राहोः शिर इतिवद्द्रष्टव्या । ‘एतद्ब्रह्म’ इति च जीवविषयं, जीवस्यापि देहादिबृंहणत्वेन ब्रह्मत्वात् । एवं सत्यसङ्कल्पत्वादयोऽपि परमात्मवर्तिनो जीवेऽपि सम्भवन्ति, तदव्यतिरेकात् । तस्माज्जीव एवोपास्यत्वेनात्र विवक्षितः, न परमात्मेति प्राप्तम् । एवं प्राप्तेऽभिधीयते - “समासः सर्वनामार्थः संनिकृष्टमपेक्षते । तद्धितार्थोऽपि सामान्यं नापेक्षाया निवर्तकः ॥ तस्मादपेक्षितं ब्रह्म ग्राह्यमन्यपरादपि । तथा च सत्यसङ्कल्पप्रभृतीनां यथार्थता” ॥ भवेदेतदेवं यदि प्राणशरीर इत्यादीनां साक्षाज्जीववाचकत्वं भवेत् । न त्वेतदस्ति । तथा हि - प्राणः शरीरमस्येति सर्वनामार्थो बहुव्रीहिः संनिहितं च सर्वनामार्थं सम्प्राप्य तदभिधानं पर्यवस्येत् । तत्र मनोमयपदं पर्यवसिताभिधानं तदभिधानपर्यवसानायालं, तदेव तु मनोविकारो वा मनःप्रचुरं वा किमर्थमित्यद्यापि न विज्ञायते । तद्यत्रैष शब्दः समवेतार्थो भवति स समासार्थः । न चैष जीव एव समवेतार्थो न ब्रह्मणीति, तस्य “अप्राणो ह्यमनाः”(मु. उ. २ । १ । २) इत्यादिभिस्तद्विरहप्रतिपादनादिति युक्तम् , तस्यापि सर्वविकारकारणतया, विकाराणां च स्वकारणादभेदात्तेषां च मनोमयतया ब्रह्मणस्तत्कारणस्य मनोमयत्वोपपत्तेः । स्यादेतत् । जीवस्य साक्षान्मनोमयत्वादयः, ब्रह्मणस्तु तद्द्वारा । तत्र प्रथमं द्वारस्य बुद्धिस्थत्वात्तदेवोपास्यमस्तु, न पुनर्जघन्यं ब्रह्म । ब्रह्मलिङ्गानि च जीवस्य ब्रह्मणोऽभेदाज्जीवेऽप्युपपत्स्यन्ते । तदेतदत्र सम्प्रधार्यम् - किं ब्रह्मलिङ्गैर्जीवानां तदभिन्नानामस्तु तद्वत्ता, तथाच जीवस्य मनोमयत्वादिभिः प्रथममवगमात्तस्यैवोपास्यत्वं, उत न जीवस्य ब्रह्मलिङ्गवत्ता तदभिन्नस्यापि । जीवलिङ्गैस्तु ब्रह्म तद्वत्, तथाच ब्रह्मलिङ्गानां दर्शनात् , तेषां च जीवेऽनुपपत्तेर्ब्रह्मैवोपास्यमिति । वयं तु पश्यामः “समारोप्यस्य रूपेण विषयो रूपवान्भवेत् । विषयस्य तु रूपेण समारोप्यं न रूपवत्” ॥ समारोपितस्य हि रूपेण भुजङ्गस्य भीषणत्वादिना रज्जू रूपवती, नतु रज्जूरूपेणाभिगम्यत्वादिना भुजङ्गो रूपवान् । तदा भुजङ्गस्यैवाभावात्किं रूपवत् । भुजङ्गदशायां तु न नास्ति वास्तवी रज्जुः । तदिह समारोपितजीवरूपेण वस्तुसद्ब्रह्म रूपवद्युज्यते, नतु ब्रह्मरूपैर्नित्यत्वादिभिर्जीवस्तद्वान्भवितुमर्हति, तस्य तदानीमसम्भवात् । तस्माद्ब्रह्मलिङ्गदर्शनाज्जीवे च तदसम्भवाद्ब्रह्मैवोपास्यं न जीव इति सिद्धम् । एतदुपलक्षणाय च “सर्वं खल्विदं ब्रह्म” (छा. उ. ३ । १४ । १) इति वाक्यमुपन्यस्तमिति ॥ १ ॥