ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः द्वितीयः पादः
भामतीव्याख्या
 
विवक्षितगुणोपपत्तेश्च ॥ २ ॥
वक्तुमिष्टा विवक्षिताःयद्यप्यपौरुषेये वेदे वक्तुरभावात् नेच्छार्थः सम्भवति, तथाप्युपादानेन फलेनोपचर्यतेलोके हि यच्छब्दाभिहितमुपादेयं भवति तद्विवक्षितमित्युच्यते, यदनुपादेयं तदविवक्षितमितितद्वद्वेदेऽप्युपादेयत्वेनाभिहितं विवक्षितं भवति, इतरदविवक्षितम्उपादानानुपादाने तु वेदवाक्यतात्पर्यातात्पर्याभ्यामवगम्येतेतदिह ये विवक्षिता गुणा उपासनायामुपादेयत्वेनोपदिष्टाः सत्यसङ्कल्पप्रभृतयः, ते परस्मिन्ब्रह्मण्युपपद्यन्तेसत्यसङ्कल्पत्वं हि सृष्टिस्थितिसंहारेष्वप्रतिबद्धशक्तित्वात्परमात्मन एवावकल्पतेपरमात्मगुणत्वेन आत्मापहतपाप्मा’ (छा. उ. ८ । ७ । १) इत्यत्रसत्यकामः सत्यसङ्कल्पःइति श्रुतम् , ‘आकाशात्माइति आकाशवदात्मा अस्येत्यर्थःसर्वगतत्वादिभिर्धर्मैः सम्भवत्याकाशेन साम्यं ब्रह्मणः । ‘ज्यायान्पृथिव्याःइत्यादिना चैतदेव दर्शयतियदापि आकाश आत्मा यस्येति व्याख्यायते, तदापि सम्भवति सर्वजगत्कारणस्य सर्वात्मनो ब्रह्मण आकाशात्मत्वम्अत एवसर्वकर्माइत्यादिएवमिहोपास्यतया विवक्षिता गुणा ब्रह्मण्युपपद्यन्तेयत्तूक्तम् — ‘मनोमयः प्राणशरीरःइति जीवलिङ्गम् , तद्ब्रह्मण्युपपद्यत इति; तदपि ब्रह्मण्युपपद्यत इति ब्रूमःसर्वात्मत्वाद्धि ब्रह्मणो जीवसम्बन्धीनि मनोमयत्वादीनि ब्रह्मसम्बन्धीनि भवन्तितथा ब्रह्मविषये श्रुतिस्मृती भवतःत्वं स्त्री त्वं पुमानसि त्वं कुमार उत वा कुमारीत्वं जीर्णो दण्डेन वञ्चसि त्वं जातो भवसि विश्वतोमुखः’ (श्वे. उ. ४ । ३) इति; सर्वतःपाणिपादं तत्सर्वतोऽक्षिशिरोमुखम्सर्वतःश्रुतिमल्लोके सर्वमावृत्य तिष्ठति’ (भ. गी. १३ । १३) इति । ‘अप्राणो ह्यमनाः शुभ्रःइति श्रुतिः शुद्धब्रह्मविषया, इयं तु श्रुतिःमनोमयः प्राणशरीरःइति सगुणब्रह्मविषयेति विशेषःअतो विवक्षितगुणोपपत्तेः परमेव ब्रह्म इहोपास्यत्वेनोपदिष्टमिति गम्यते ॥ २ ॥

यद्यप्यपौरुषेय इति ।

शास्त्रयोनित्वेऽपीश्वरस्य पूर्वपूर्वसृष्टिरचितसन्दर्भापेक्षरचनत्वेनास्वातन्त्र्यादपौरुषेयत्वाभिधानं, तथा चास्वातन्त्र्येण विवक्षा नास्तीत्युक्तम् । परिग्रहपरित्यागौ चोपादनानुपादाने उक्ते, न तूपादेयत्वमेव । अन्यथोद्देश्यतयानुपादेयस्य ग्रहादेरविवक्षितत्वेन चमसादावपि संमार्गप्रसङ्गात् । तस्मादनुपादेयत्वेऽपि ग्रह उद्देश्यतया परिगृहीतो विवक्षितः । तद्गतं त्वेकत्वमवच्छेदकत्वेन वर्जितमविवक्षितम् । इच्छानिच्छे च भक्तितः ।

तदिदमुक्तम् -

वेदवाक्यतात्पर्यातात्पर्याभ्यामवगम्येते इति ।

यत्परं वेदवाक्यं तत्तेनोपात्तं विवक्षितम् , अतत्परेण चानुपात्तमविवक्षितमित्यर्थः ॥ २ ॥