ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः द्वितीयः पादः
भामतीव्याख्या
 
अनुपपत्तेस्तु न शारीरः ॥ ३ ॥
पूर्वेण सूत्रेण ब्रह्मणि विवक्षितानां गुणानामुपपत्तिरुक्ताअनेन शारीरे तेषामनुपपत्तिरुच्यतेतुशब्दोऽवधारणार्थःब्रह्मैवोक्तेन न्यायेन मनोमयत्वादिगुणम्; तु शारीरो जीवो मनोमयत्वादिगुणः; यत्कारणम् — ‘सत्यसङ्कल्पः’ ‘आकाशात्मा’ ‘अवाकी’ ‘अनादरः’ ‘ज्यायान्पृथिव्याःइति चैवंजातीयका गुणा शारीरे आञ्जस्येनोपपद्यन्तेशारीर इति शरीरे भव इत्यर्थःनन्वीश्वरोऽपि शरीरे भवतिसत्यम् , शरीरे भवति; तु शरीर एव भवति; ‘ज्यायान्पृथिव्या ज्यायानन्तरिक्षात्आकाशवत्सर्वगतश्च नित्यः’ (शत. ब्रा. १० । ६ । ३ । २) इति व्यापित्वश्रवणात्जीवस्तु शरीर एव भवति, तस्य भोगाधिष्ठानाच्छरीरादन्यत्र वृत्त्यभावात् ॥ ३ ॥

स्यादेतत् । यथा सत्यसङ्कल्पत्वादयो ब्रह्मण्युपपद्यन्ते, एवं शारीरेऽप्युपपत्स्यन्ते, शारीरस्य ब्रह्मणोऽभेदात् । शारीरगुणा इव मनोमयत्वादयो ब्रह्मणीत्यत आह सूत्रकारः -

अनुपपत्तेस्तु न शारीरः ॥ ३ ॥ ॥ ४ ॥ ॥ ५ ॥