यत्तदवोचाम समारोप्यधर्माः समारोपविषये सम्भवन्ति, नतु विषयधर्माः समारोप्य इति । तस्येत उत्थानम् । अत्राह चोदकः -
कः पुनरयं शारीरो नामेति ।
न तावद्भेदप्रतिषेधाद्भेदव्यपदेशाच्च भेदाभेदावेकत्र तात्त्विकौ भवितुमर्हतो विरोधादित्युक्तम् । तस्मादेकमिह तात्त्विकमतात्त्विकं चेतरत् , तत्र पौर्वापर्येणाद्वैतप्रतिपादनपरत्वाद्वेदान्तानां द्वैतग्राहिणश्च मानान्तरस्याभावात्तद्बाधनाच्च तेनाद्वैतमेव परमार्थः । तथा च “अनुपपत्तेस्तु”(ब्र.सू. १-२-३) इत्याद्यसङ्गतार्थमित्यर्थः ।
परिहरति -
सत्यमेवैतत् । पर एवात्मा देहेन्द्रियमनोबुद्ध्युपाधिभिरविच्छिद्यमानो बालैः शारीर इत्युपचर्यते ।
अनाद्यविद्यावच्छेदलब्धजीवभावः पर एवात्मा स्वतो भेदेनावभासते । तादृशां च जीवानामविद्या, नतु निरूपाधिनो ब्रह्मणः । न चाविद्यायां सत्यां जीवात्मविभागः, सति च जीवात्मविभागे तदाश्रयाविद्येत्यन्योन्याश्रयमिति साम्प्रतम् । अनादित्वेन जीवाविद्ययोर्बीजाङ्कुरवदनवकॢप्तेरयोगात् । नच सर्वज्ञस्य सर्वशक्तेश्च स्वतः कुतोऽकस्मात्संसारिता, यो हि परतन्त्रः सोऽन्येन बन्धनागारे प्रवेश्येत, नतु स्वतन्त्र इति वाच्यम् । नहि तद्भागस्य जीवस्य सम्प्रतितनी बन्धनागारप्रवेशिता, येनानुयुज्येत, किन्त्वियमनादिः पूर्वपूर्वकर्माविद्यासंस्कारनिबन्धना नानुयोगमर्हति । न चैतावता ईश्वरस्यानीशता न ह्युपकरणाद्यपेक्षिता कर्तुः स्वातन्त्र्यं विहन्ति । तस्माद्यत्किञ्चिदेतदपीति ॥ ६ ॥ ॥ ७ ॥ विशेषादिति वक्तव्ये वैशेष्याभिधानमात्यन्तिकं विशेषं प्रतिपादयितुम् । तथाह्यविद्याकल्पितः सुखादिसम्भोगोऽविद्यात्मन एव जीवस्य युज्यते । नतु निर्मृष्टनिखिलाविद्यातद्वासनस्य शुद्धबुद्धमुक्तस्वभावस्य परमात्मन इत्यर्थः । शेषमतिरोहितार्थम् ॥ ६ ॥ ॥ ७ ॥॥ ८ ॥