अत्ता चराचरग्रहणात् ।
कठवल्लीषु पठ्यते - यस्य ब्रह्म च क्षत्रं चोभे भवत ओदनः । मृत्युर्यस्योपसेचनं क इत्था वेद यत्र स इति ।
अत्र चादनीयौदानोपसेचनसूचितः कश्चिदत्ता प्रतीयते । अत्तृत्वं च भोक्तृता वा संहर्तृता वा स्यात् । नच प्रस्तुतस्य परमात्मनो भोक्तृतास्ति, “अनश्रन्नन्योऽभिचाकशीति”(मु. उ. ३ । १ । १) इति श्रुत्या भोक्तृताप्रतिषेधात् । जीवात्मनश्च भोक्तृताविधानात् “तयोरन्यः पिप्पलं स्वाद्वत्ति”(मु. उ. ३ । १ । १) इति । तद्यदि भोक्तृत्वमत्तृत्वं ततो मुक्तसंशयं जीवात्मैव प्रतिपत्तव्यः । ब्रह्मक्षत्रादि चास्य कार्यकारणसङ्घातो भोगायतनतया वा साक्षाद्वा सम्भवति भोग्यम् । अथ तु संहर्तृता भोक्तृता, ततस्त्रयाणामग्निजीवपरमात्मनां प्रश्नोपन्यासोपलब्धेः संहर्तृत्वस्याविशेषाद्भवति संशयः - किमत्ता अग्निराहो जीव उताहो परमात्मेति । तत्रौदनस्य भोग्यत्वेन लोके प्रसिद्धेर्भोक्तृत्वमेव प्रथमं बुद्धौ विपरिवर्तते, चरमं तु संहर्तृत्वमिति भोक्तैवात्ता । तथा च जीव एव । “न जायते म्रियते”(क. उ. १ । २ । १८) इति च तस्यैव स्तुतिः । यदि तु संहारकालेऽपि संस्कारमात्रेण तस्यावस्थानात् । दुर्ज्ञानत्वं च तस्य सूक्ष्मत्वात् । तस्माज्जीव एवात्तेहोपास्यत इति प्राप्तम् । यदि तु संहर्तृत्वमत्तृत्वं तथाप्यग्निरत्ता, “अग्निरन्नादः”(बृ. उ. १ । ४ । ६) इति श्रुतिप्रसिद्धिभ्याम् । एवं प्राप्तेभिधीयतेअत्तात्र परमात्मा, कुतः, चराचरग्रहणात् । “उभे यस्योदनः” इति “मृत्युर्यस्योपसेचनम्”(क. उ. १ । २ । २५) इति च श्रूयते । तत्र यदि जीवस्य भोगायतनतया तत्साधनतया च कार्यकारणसङ्घातः स्थितः, न तर्ह्येदनः । नह्योदनो भोगायतनं, नापि भोगसाधनं, अपि तु भोग्यः । नच भोगायतनस्य भोगसाधनस्य वा भोग्यत्वं मुख्यम् । न चात्र मृत्युरुपसेचनतया कल्प्यते । नच जीवस्य कार्यकारणसङ्घातो ब्रह्मक्षत्रादिरूपो भक्ष्यः, कस्यचित्क्रूरसत्त्वस्य व्याघ्रादेः कश्चिद्भवेत् न तु सर्वथा सर्वजीवस्य । तेन ब्रह्मक्षत्रविषयमपि सर्वजीवस्यात्तृत्वं न व्याप्नोति, किमङ्ग पुनर्मृत्यूपसेचनव्याप्तं चराचरम् । न चौदनपदात्प्रथमावगतभोग्यत्वानुरोधेन यथासम्भवमत्तृत्वं योज्यत इति युक्तम् । नह्योदनपदं श्रुत्या भोग्यत्वमाह, किन्तु लक्षणया । नच लाक्षणिकभोग्यत्वानुरोधेन “मृत्युर्यस्योपसेचनम्”(क. उ. १ । २ । २५) इति, “ब्रह्म च क्षत्रं च” इति च श्रुती सङ्कोचमर्हतः । नच ब्रह्मक्षत्रे एवात्र विवक्षिते, मृत्यूपसेचनेन प्राणभृन्मात्रोपस्थापनात् । प्राणिषु प्रधानत्वेन च ब्रह्मक्षत्रोपन्यासस्योपपत्तेः, अन्यनिवृत्तेरशाब्दत् , वातनर्थत्वाच्च । तथाच चराचरसंहर्तृत्वं परमात्मन एव । नाग्नेः । नापि जीवस्य । तथाच “न जायते म्रियते वा विपश्चित्”(क. उ. १ । २ । १८) इति ब्रह्मणः प्रकृतस्य न हानं भविष्यति । “क इत्था वेद यत्र सः”(क. उ. १ । २ । २५) इति च दुर्ज्ञानतोपपत्स्यते । जीवस्य तु सर्वलोकप्रसिद्धस्य न दुर्ज्ञानता । तस्मादत्ता परमात्मैवेति सिद्धम् ॥ ९ ॥ ॥ १० ॥