ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः द्वितीयः पादः
भामतीव्याख्या
 
गुहां प्रविष्टावात्मानौ हि तद्दर्शनात् ॥ ११ ॥
कठवल्लीष्वेव पठ्यतेऋतं पिबन्तौ सुकृतस्य लोके गुहां प्रविष्टौ परमे परार्धेछायातपौ ब्रह्मविदो वदन्ति पञ्चाग्नयो ये त्रिणाचिकेताः’ (क. उ. १ । ३ । १) इतितत्र संशयःकिमिह बुद्धिजीवौ निर्दिष्टौ, उत जीवपरमात्मानावितियदि बुद्धिजीवौ, ततो बुद्धिप्रधानात्कार्यकरणसङ्घाताद्विलक्षणो जीवः प्रतिपादितो भवतितदपीह प्रतिपादयितव्यम् , येयं प्रेते विचिकित्सा मनुष्येऽस्तीत्येके नायमस्तीति चैकेएतद्विद्यामनुशिष्टस्त्वयाहं वराणामेष वरस्तृतीयः’ (क. उ. १ । १ । २०) इति पृष्टत्वात्अथ जीवपरमात्मानौ, ततो जीवाद्विलक्षणः परमात्मा प्रतिपादितो भवतितदपीह प्रतिपादयितव्यम्अन्यत्र धर्मादन्यत्राधर्मादन्यत्रास्मात्कृताकृतात्अन्यत्र भूताच्च भव्याच्च यत्तत्पश्यसि तद्वद’ (क. उ. १ । २ । १४) इति पृष्टत्वात्अत्राहाक्षेप्ताउभावप्येतौ पक्षौ सम्भवतःकस्मात् ? ऋतपानं कर्मफलोपभोगः, ‘सुकृतस्य लोकेइति लिङ्गात्तच्च चेतनस्य क्षेत्रज्ञस्य सम्भवति, नाचेतनाया बुद्धेः । ‘पिबन्तौइति च द्विवचनेन द्वयोः पानं दर्शयति श्रुतिःअतो बुद्धिक्षेत्रज्ञपक्षस्तावन्न सम्भवतिअत एव क्षेत्रज्ञपरमात्मपक्षोऽपि सम्भवतिचेतनेऽपि परमात्मनि ऋतपानासम्भवात् , अनश्नन्नन्योऽभिचाकशीति’ (मु. उ. ३ । १ । १) इति मन्त्रवर्णादितिअत्रोच्यतेनैष दोषः; छत्रिणो गच्छन्तीत्येकेनापि च्छत्रिणा बहूनामच्छत्रिणां छत्रित्वोपचारदर्शनात्एवमेकेनापि पिबता द्वौ पिबन्तावुच्येयाताम्यद्वा जीवस्तावत्पिबतिईश्वरस्तु पाययतिपाययन्नपि पिबतीत्युच्यते, पाचयितर्यपि पक्तृत्वप्रसिद्धिदर्शनात्बुद्धिक्षेत्रज्ञपरिग्रहोऽपि सम्भवति; करणे कर्तृत्वोपचारात् । ‘एधांसि पचन्तिइति प्रयोगदर्शनात् चाध्यात्माधिकारेऽन्यौ कौचिद्द्वावृतं पिबन्तौ सम्भवतःतस्माद्बुद्धिजीवौ स्यातां जीवपरमात्मानौ वेति संशयः

गुहाप्रविष्टाधिकरणविषयाः

गुहां प्रविष्टावात्मानौ हि तद्दर्शनात् ।

संशयमाह -

तत्रेति ।

पूर्वपक्षे प्रयोजनमाह -

यदि बुद्धिजीवाविति ।

सिद्धान्ते प्रयोजनमाह -

अथ जीवपरमात्मानाविति ।

औत्सर्गिकस्य मुख्यताबलात्पूर्वसिद्धान्तपक्षासम्भवेन पक्षान्तरं कल्पयिष्यत इति मन्वानः संशयमाक्षिपति -

अत्राहाक्षेप्तेति ।

ऋतं सत्यम् । अवश्यंभावीति यावत् ।

समाधत्ते -

अत्रोच्यत इति ।

अध्यात्माधिकारादन्यौ तावत्पातारावशक्यौ कल्पयितुम् । तदिह बुद्धेरचैतन्येन परमात्मनश्च भोक्तृत्वनिषेधेन जीवात्मैवैकः पाता परिशिष्यत इति “सृष्टीरुपदधाति” इतिवत् द्विवचनानुरोधादपिबत्संसृष्टतां स्वार्थस्य पिबच्छब्दो लक्षयन्स्वार्थमजहन्नितरेतरयुक्तपिबदपिबत्परो भवतीत्यर्थः ।

अस्तु वा मुख्य एव, तथापि न दोष इत्याह -

यद्वेति ।

स्वातन्त्र्यलक्षणं हि कर्तृत्वं तच्च पातुरिव पाययितुरप्यस्तीति सोऽपि कर्ता । अत एव चाहुः - “यः कारयति स करोत्येव” इति । एवं करणस्यापि स्वातन्त्र्यविवक्षया कथञ्चित्कर्तृत्वं, यथा काष्ठानि पचन्तीति । तस्मान्मुख्यत्वेऽप्यविरोध इति ।