तदेवं संशयं समाधाय पूर्वपक्षं गृह्णाति -
बुद्धिक्षेत्रज्ञाविति ।
'नियताधारता बुद्धिजीवसम्भविनी नहि । क्लेशात्कल्पयितुं युक्ता सर्वगे परमात्मनि” ॥ नच पिबन्तावितिवत्प्रविष्टपदमपि लाक्षणिकं युक्तं, सति मुख्यार्थत्वे लाक्षणिकार्थत्वायोगात् , बुद्धिजीवयोश्च गुहाप्रवेशोपपत्तेः । अपिच “सुकृतस्य लोके” (क. उ. १ । ३ । १) इति सुकृतलोकव्यवस्थानेन कर्मगोचरानतिक्रम उक्तः । बुद्धिजीवौ च कर्मगोचरमनतिक्रान्तौ । जीवो हि भोक्तृतया बुद्धिश्च भोगसाधनतया धर्मस्य गोचरे स्थितौ, न तु ब्रह्म, तस्य तदायत्तत्वात् । किञ्च छायातपाविति तमःप्रकाशावुक्तौ । नच जीवः परमात्मनोऽभिन्नस्तमः, प्रकाशरूपत्वात् । बुद्धिस्तु जडतया तम इति शक्योपदेष्टुम् । तस्माद्बुद्धिजीवावत्र कथ्येते इति तत्रापि प्रेते विचिकित्सापनुत्तये बुद्धेर्भेदेन परलोकी जीवो दर्शनीय इति बुद्धिरुच्यते । एवंप्राप्तेभिधीयते - “ऋतपानेन जीवात्मा निश्चितोऽस्य द्वितीयता । ब्रह्मणैव सरूपेण न तु बुद्ध्या विरूपया ॥ १ ॥ प्रथमं सद्वितीयत्वे ब्रह्मणावगते सति । गुह्याश्रयत्वं चरमं व्याख्येयमविरोधतः” ॥ २ ॥ गौः सद्वितीयेत्युक्ते सजातीयेनैव गवान्तरेणावगम्यते, न तु विजातीयेनाश्वादिना । तदिह चेतनो जीवः सरूपेण चेतनान्तरेणैव ब्रह्मणा सद्वितीयः प्रतीयते, न त्वचेतनया विरूपया बुद्ध्या । तदेवं “ऋतं पिबन्तौ” (क. उ. १ । ३ । १) इत्यत्र प्रथममवगते ब्रह्मणि तदनुरोधेन चरमं गुहाश्रयत्वं शालग्रामे हरिरितिवद्व्याख्येयम् । बहुलं हि गुहाश्रयत्वं ब्रह्मणः श्रुतय आहुः ।