ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः द्वितीयः पादः
भामतीव्याख्या
 
गुहां प्रविष्टावात्मानौ हि तद्दर्शनात् ॥ ११ ॥
विज्ञानात्मपरमात्मानाविहोच्येयाताम्कस्मात् ? आत्मानौ हि तावुभावपि चेतनौ समानस्वभावौसंख्याश्रवणे समानस्वभावेष्वेव लोके प्रतीतिर्दृश्यते । ‘अस्य गोर्द्वितीयोऽन्वेष्टव्यःइत्युक्ते, गौरेव द्वितीयोऽन्विष्यते, नाश्वः पुरुषो वातदिह ऋतपानेन लिङ्गेन निश्चिते विज्ञानात्मनि द्वितीयान्वेषणायां समानस्वभावश्चेतनः परमात्मैव प्रतीयतेननूक्तं गुहाहितत्वदर्शनान्न परमात्मा प्रत्येतव्य इति; गुहाहितत्वदर्शनादेव परमात्मा प्रत्येतव्य इति वदामःगुहाहितत्वं तु श्रुतिस्मृतिष्वसकृत्परमात्मन एव दृश्यतेगुहाहितं गह्वरेष्ठं पुराणम्’ (क. उ. १ । २ । १२) यो वेद निहितं गुहायां परमे व्योमन्’ (तै. उ. २ । १ । १)आत्मानमन्विच्छ गुहां प्रविष्टम्इत्याद्यासुसर्वगतस्यापि ब्रह्मण उपलब्ध्यर्थो देशविशेषोपदेशो विरुध्यत इत्येतदप्युक्तमेवसुकृतलोकवर्तित्वं तु च्छत्रित्ववदेकस्मिन्नपि वर्तमानमुभयोरविरुद्धम् । ‘छायातपौइत्यप्यविरुद्धम्; छायातपवत्परस्परविलक्षणत्वात्संसारित्वासंसारित्वयोः, अविद्याकृतत्वात्संसारित्वस्य पारमार्थिकत्वाच्चासंसारित्वस्यतस्माद्विज्ञानात्मपरमात्मानौ गुहां प्रविष्टौ गृह्येते ॥ ११ ॥

तदिदमुक्तम् -

तद्दर्शनादिति ।

तस्य ब्रह्मणो गुहाश्रयत्वस्य श्रुतिषु दर्शनादिति । एवंच प्रथमावगतब्रह्मानुरोधेन सुकृतलोकवर्तित्वमपि तस्य लक्षणया छत्रिन्यायेन गमयितव्यम् । छायातपत्वमपि जीवस्याविद्याश्रयतया ब्रह्मणश्च शुद्धप्रकाशस्वभावस्य तदनाश्रयतया मन्तव्यम् ॥ ११ ॥