विशेषणाच्च ॥ १२ ॥
विशेषणं च विज्ञानात्मपरमात्मनोरेव भवति । ‘आत्मानं रथिनं विद्धि शरीरं रथमेव तु’ (क. उ. १ । ३ । ३) इत्यादिना परेण ग्रन्थेन रथिरथादिरूपककल्पनया विज्ञानात्मानं रथिनं संसारमोक्षयोर्गन्तारं कल्पयति । ‘सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम्’ (क. उ. १ । ३ । ९) इति च परमात्मानं गन्तव्यं कल्पयति । तथा ‘तं दुर्दर्शं गूढमनुप्रविष्टं गुहाहितं गह्वरेष्ठं पुराणम् । अध्यात्मयोगाधिगमेन देवं मत्वा धीरो हर्षशोकौ जहाति’ (क. उ. १ । २ । १२) इति पूर्वस्मिन्नपि ग्रन्थे मन्तृमन्तव्यत्वेनैतावेव विशेषितौ । प्रकरणं चेदं परमात्मनः । ‘ब्रह्मविदो वदन्ति’ इति च वक्तृविशेषोपादानं परमात्मपरिग्रहे घटते । तस्मादिह जीवपरमात्मानावुच्येयाताम् । एष एव न्यायः ‘द्वा सुपर्णा सयुजा सखाया’ (मु. उ. ३ । १ । १) इत्येवमादिष्वपि । तत्रापि ह्यध्यात्माधिकारान्न प्राकृतौ सुपर्णावुच्येते । ‘तयोरन्यः पिप्पलं स्वाद्वत्ति’ इत्यदनलिङ्गाद्विज्ञानात्मा भवति । ‘अनश्नन्नन्योऽभिचाकशीति’ (मु. उ. ३ । १ । १) इत्यनशनचेतनत्वाभ्यां परमात्मा । अनन्तरे च मन्त्रे तावेव द्रष्टृद्रष्टव्यभावेन विशिनष्टि — ‘समाने वृक्षे पुरुषो निमग्नोऽनीशया शोचति मुह्यमानः । जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानमिति वीतशोकः’ (मु. उ. ३ । १ । २) इति ॥