गुहां प्रविष्टावात्मानौ हि तद्दर्शनात् ।
संशयमाह -
तत्रेति ।
पूर्वपक्षे प्रयोजनमाह -
यदि बुद्धिजीवाविति ।
सिद्धान्ते प्रयोजनमाह -
अथ जीवपरमात्मानाविति ।
औत्सर्गिकस्य मुख्यताबलात्पूर्वसिद्धान्तपक्षासम्भवेन पक्षान्तरं कल्पयिष्यत इति मन्वानः संशयमाक्षिपति -
अत्राहाक्षेप्तेति ।
ऋतं सत्यम् । अवश्यंभावीति यावत् ।
समाधत्ते -
अत्रोच्यत इति ।
अध्यात्माधिकारादन्यौ तावत्पातारावशक्यौ कल्पयितुम् । तदिह बुद्धेरचैतन्येन परमात्मनश्च भोक्तृत्वनिषेधेन जीवात्मैवैकः पाता परिशिष्यत इति “सृष्टीरुपदधाति” इतिवत् द्विवचनानुरोधादपिबत्संसृष्टतां स्वार्थस्य पिबच्छब्दो लक्षयन्स्वार्थमजहन्नितरेतरयुक्तपिबदपिबत्परो भवतीत्यर्थः ।
अस्तु वा मुख्य एव, तथापि न दोष इत्याह -
यद्वेति ।
स्वातन्त्र्यलक्षणं हि कर्तृत्वं तच्च पातुरिव पाययितुरप्यस्तीति सोऽपि कर्ता । अत एव चाहुः - “यः कारयति स करोत्येव” इति । एवं करणस्यापि स्वातन्त्र्यविवक्षया कथञ्चित्कर्तृत्वं, यथा काष्ठानि पचन्तीति । तस्मान्मुख्यत्वेऽप्यविरोध इति ।