ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः द्वितीयः पादः
भामतीव्याख्या
 
अन्तर उपपत्तेः ॥ १३ ॥
एषोऽक्षिणि पुरुषो दृश्यत एष आत्मेति होवाचैतदमृतमभयमेतद्ब्रह्मेतितद्यद्यप्यस्मिन्सर्पिर्वोदकं वा सिञ्चति वर्त्मनी एव गच्छति’ (छा. उ. ४ । १५ । १) इत्यादि श्रूयतेतत्र संशयःकिमयं प्रतिबिम्बात्माक्ष्यधिकरणो निर्दिश्यते, अथ विज्ञानात्मा, उत देवतात्मेन्द्रियस्याधिष्ठाता, अथवेश्वर इतिकिं तावत्प्राप्तम् ? छायात्मा पुरुषप्रतिरूप इतिकुतः ? तस्य दृश्यमानत्वप्रसिद्धेः, ‘ एषोऽक्षिणि पुरुषो दृश्यतेइति प्रसिद्धवदुपदेशात्विज्ञानात्मनो वायं निर्देश इति युक्तम् हि चक्षुषा रूपं पश्यंश्चक्षुषि सन्निहितो भवतिआत्मशब्दश्चास्मिन्पक्षेऽनुकूलो भवतिआदित्यपुरुषो वा चक्षुषोऽनुग्राहकः प्रतीयतेरश्मिभिरेषोऽस्मिन्प्रतिष्ठितः’ (बृ. उ. ५ । ५ । २) इति श्रुतेः, अमृतत्वादीनां देवतात्मन्यपि कथञ्चित्सम्भवात्नेश्वरः, स्थानविशेषनिर्देशात्इत्येवं प्राप्ते ब्रूमः

अन्तराधिकरणविषयाः

अन्तर उपपत्तेः ।

ननु “अन्तस्तद्धर्मोपदेशात्”(ब्र.सू. १-१-२०) इत्यनेनैवैतद्गतार्थम् । सन्ति खल्वत्राप्यमृतत्वाभयत्वादयो ब्रह्मधर्माः प्रतिबिम्बजीवदेवतास्वसम्भविनः । तस्माद्ब्रह्मधर्मोपदेशाद्ब्रह्मैवात्र विवक्षितम् । साक्षाच्च ब्रह्मशब्दोपादानात् । उच्यते - “एष दृश्यत इत्येतत्प्रत्यक्षेऽर्थे प्रयुज्यते । परोक्षं ब्रह्म न तथा प्रतिबिम्बे तु युज्यते ॥ १ ॥ उपक्रमवशात्पूर्वमितरेषां हि वर्णनम् । कृतं न्यायेन येनैव स खल्वत्रानुषज्यते” ॥ २ ॥ “ऋतं पिबन्तौ” (क. उ. १ । ३ । १) इत्यत्र हि जीवपरमात्मानौ प्रथममवगताविति तदनुरोधेन गुहाप्रवेशादयः पश्चादवगता व्याख्याताः, तद्वदिहापि “य एषोऽक्षिणि पुरुषो दृश्यते”(छा. उ. ४ । १५ । १) इति प्रत्यक्षाभिधानात्प्रथममवगते छायापुरुषे तदनुरोधेनामृतत्वाभयत्वादयः स्तुत्या कथञ्चिद्व्याख्येयाः । तत्र चामृतत्वं कतिपयक्षणावस्थानात् , अभयत्वमचेतनत्वात् , पुरुषत्वं पुरुषाकारत्वात् , आत्मत्वं कनीनिकायतनत्वात् , ब्रह्मरूपत्वमुक्तरूपामृतत्वादियोगात् । एवं वामनीत्वादयोऽप्यस्य स्तुत्यैव कथञ्चिन्नेतव्याः । कं च खं चेत्यादि तु वाक्यमग्नीनां नाचार्यवाक्यं नियन्तुमर्हति । “आचार्यस्तु ते गतिं वक्ता”(छा. उ. ४ । १४ । १) इति च गत्यन्तराभिप्रायं, न तूक्तपरिशिष्टाभिप्रायम् । तस्माच्छायापुरुष एवात्रोपास्य इति पूर्वः पक्षः । सम्भवमात्रेण तु जीवदेवते उपन्यस्ते, बाधकान्तरोपदर्शनाय चैष दृश्यत इत्यस्यात्राभावात् । “अन्तस्तद्धर्मोपदेशा”(ब्र.सू. १-१-२०) दित्यनेन निराकृतत्वात् ।

एवं प्राप्त उच्यते -

य एष इति ।

'अनिष्पन्नाभिधाने द्वे सर्वनामपदे सती । प्राप्य संनिहितस्यार्थं भवेतामभिधातृणी” ॥ संनिहिताश्च पुरुषात्मादिशब्दास्ते च न यावत्स्वार्थमभिदधति तावत्सर्वनामभ्यां नार्थतुषोऽप्यभिधीयत इति कुतस्तदर्थस्यापरोक्षता । पुरुषात्मशब्दौ च सर्वनामनिरपेक्षौ स्वरसतो जीवे वा परमात्मनि वा वर्तेते इति । नच तयोश्चक्षुषि प्रत्यक्षदर्शनमिति निरपेक्षपुरुषपदप्रत्यायितार्थानुरोधेन य एष इति दृश्यत इति च यथासम्भवं व्याख्येयम् । व्याख्यातं च सिद्धवदुपादानं शास्त्राद्यपेक्षं विद्वद्विषयं प्ररोचनार्थम् । विदुषः शास्त्रत उपलब्धिरेव दृढतया प्रत्यक्षवदुचपर्यते प्रशंसार्थमित्यर्थः ।