ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः द्वितीयः पादः
भामतीव्याख्या
 
अन्तर उपपत्तेः ॥ १३ ॥
परमेश्वर वाक्षिण्यभ्यन्तरः पुरुष इहोपदिष्ट इतिकस्मात् ? उपपत्तेःउपपद्यते हि परमेश्वरे गुणजातमिहोपदिश्यमानम्आत्मत्वं तावन्मुख्यया वृत्त्या परमेश्वरे उपपद्यते, ‘ आत्मा तत्त्वमसिइति श्रुतेःअमृतत्वाभयत्वे तस्मिन्नसकृच्छ्रुतौ श्रूयेतेतथा परमेश्वरानुरूपमेतदक्षिस्थानम्यथा हि परमेश्वरः सर्वदोषैरलिप्तः, अपहतपाप्मत्वादिश्रवणात्; तथाक्षिस्थानं सर्वलेपरहितमुपदिष्टम्तद्यद्यप्यस्मिन्सर्पिर्वोदकं वा सिञ्चति, वर्त्मनी एव गच्छतिइति श्रुतेःसंयद्वामत्वादिगुणोपदेशश्च तस्मिन्नवकल्पतेएतं संयद्वाम इत्याचक्षतेएतं हि सर्वाणि वामान्यभिसंयन्ति’, (छा. उ. ४ । १५ । २) एष एव वामनीरे हि सर्वाणि वामानि नयति ।’ (छा. उ. ४ । १५ । ३)एष एव भामनीरे हि सर्वेषु लोकेषु भाति’ (छा. उ. ४ । १५ । ४) इति अत उपपत्तेरन्तरः परमेश्वरः ॥ १३ ॥

अपि च तदेव चरमं प्रथमानुगुणतया नीयते यन्नेतुं शक्यम् , अल्पं च । इह त्वमृतत्वादयो बहवश्चाशक्याश्च नेतुम् । नहि स्वसत्ताक्षणावस्थानमात्रममृतत्वं भवति । तथा सति किं नाम नामृतं स्यादिति व्यर्थममृतपदम् । भयाभये अपि चेतनधर्मौ नाचेतने सम्भवतः । एवं वामनीत्वादयोऽप्यन्यत्र ब्रह्मणो नेतुमशक्याः । प्रत्यक्षव्यपदेशश्चोपपादितः । तदिदमुक्तम् -

उपपत्तेरिति ।

'एतदमृतमभयमेतद्ब्रह्म” इत्युक्ते स्यादाशङ्का । ननु सर्वगतस्येश्वरस्य कस्माद्विशेषेण चक्षुरेव स्थानमुपदिश्यत इति, तत्परिहरति, श्रुतिः - “तद्यद्यप्यस्मिन्सार्पिर्वोदकं वा सिञ्चति वर्त्मनी एव गच्छति”(छा. उ. ४ । १५ । १) इति । वर्त्मनी पक्षस्थाने । एतदुक्तं भवतिनिर्लेपस्येश्वरस्य निर्लेपं चक्षुरेव स्थानमनुरूपमिति ।

तदिदमुक्तम् -

तथा परमेश्वरानुरूपमिति संयद्वामादिगुणोपदेशश्च तस्मिन्

ब्रह्मणि

कल्पते

घटते, समवेतार्थत्वात् । प्रतिबिम्बादिषु त्वसमवेतार्थः । वामनीयानि सम्भजनीयानि शोभनीयानि पुण्यफलानि वामानि । संयन्ति सङ्गच्छमानानि वामान्यनेनेति संयद्वामः परमात्मा । तत्कारणत्वात्पुण्यफलोत्पत्तेस्तेन पुण्यफलानि सङ्गच्छन्ते । स एव पुण्यफलानि वामानि नयति लोकमिति वामनीः । एष एव भामनीः । भामानी भानानि नयति लोकमिति भामनीः । तदुक्तं श्रुत्या “तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति”(मु. उ. २ । २ । ११) इति ॥ १३ ॥