ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः द्वितीयः पादः
भामतीव्याख्या
 
स्थानादिव्यपदेशाच्च ॥ १४ ॥
कथं पुनराकाशवत्सर्वगतस्य ब्रह्मणोऽक्ष्यल्पं स्थानमुपपद्यत इति, अत्रोच्यतेभवेदेषानवकॢप्तिः, यद्येतदेवैकं स्थानमस्य निर्दिष्टं भवेत्सन्ति ह्यन्यान्यपि पृथिव्यादीनि स्थानान्यस्य निर्दिष्टानियः पृथिव्यां तिष्ठन्’ (बृ. उ. ३ । ७ । ३) इत्यादिनातेषु हि चक्षुरपि निर्दिष्टम्यश्चक्षुषि तिष्ठन्इतिस्थानादिव्यपदेशादित्यादिग्रहणेनैतद्दर्शयति केवलं स्थानमेवैकमनुचितं ब्रह्मणो निर्दिश्यमानं दृश्यतेकिं तर्हि ? नाम रूपमित्येवंजातीयकमप्यनामरूपस्य ब्रह्मणोऽनुचितं निर्दिश्यमानं दृश्यतेतस्योदिति नाम’ (छा. उ. १ । ६ । ७)हिरण्यश्मश्रुःइत्यादिनिर्गुणमपि सद्ब्रह्म नामरूपगतैर्गुणैः सगुणमुपासनार्थं तत्र तत्रोपदिश्यत इत्येतदप्युक्तमेवसर्वगतस्यापि ब्रह्मण उपलब्ध्यर्थं स्थानविशेषो विरुध्यते, सालग्राम इव विष्णोरित्येतदप्युक्तमेव ॥ १४ ॥

स्थानादिव्यपदेशाच्च ।

आशङ्कोत्तरमिदं सूत्रम् ।

आशङ्कामाह -

कथं पुनरिति ।

स्थानिनो हि स्थानं महद्दृष्टं, यथा यादसामब्धिः । तत्कथमत्यल्पं चक्षुरधिष्ठानं परमात्मनः परममहत इति शङ्कार्थः ।

परिहरति -

अत्रोच्यत इति ।

स्थानान्यादयो येषां ते स्थानादयो नामरूपप्रकरास्तेषां व्यपदेशात्सर्वगतस्यैकस्थाननियमो नावकल्पते । नतु नानास्थानत्वं नभस इव नानासूचीपाशादिस्थानत्वम् । विशेषतस्तु ब्रह्मणस्तानि तान्युपासनास्थानानीति तैरस्य युक्तो व्यपदेशः ॥ १४ ॥