ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः द्वितीयः पादः
भामतीव्याख्या
 
सुखविशिष्टाभिधानादेव च ॥ १५ ॥
अपि नैवात्र विवदितव्यम्किं ब्रह्मास्मिन्वाक्येऽभिधीयते, वेतिसुखविशिष्टाभिधानादेव ब्रह्मत्वं सिद्धम्सुखविशिष्टं हि ब्रह्म यद्वाक्योपक्रमे प्रक्रान्तम् प्राणो ब्रह्म कं ब्रह्म खं ब्रह्म’ (छा. उ. ४ । १० । ४) इति, तदेवेहाभिहितम्; प्रकृतपरिग्रहस्य न्याय्यत्वात् , आचार्यस्तु ते गतिं वक्ता’ (छा. उ. ४ । १४ । १) इति गतिमात्राभिधानप्रतिज्ञानात्कथं पुनर्वाक्योपक्रमे सुखविशिष्टं ब्रह्म विज्ञायत इति, उच्यतेप्राणो ब्रह्म कं ब्रह्म खं ब्रह्म’ (छा. उ. ४ । १० । ४) इत्येतदग्नीनां वचनं श्रुत्वोपकोसल उवाच — ‘विजानाम्यहं यत्प्राणो ब्रह्म, कं तु खं विजानामिइतितत्रेदं प्रतिवचनम् — ‘यद्वाव कं तदेव खं यदेव खं तदेव कम्इतितत्र खंशब्दो भूताकाशे निरूढो लोकेयदि तस्य विशेषणत्वेन कंशब्दः सुखवाची नोपादीयेत, तथा सति केवले भूताकाशे ब्रह्मशब्दो नामादिष्विव प्रतीकाभिप्रायेण प्रयुक्त इति प्रतीतिः स्यात्तथा कंशब्दस्य विषयेन्द्रियसम्पर्कजनिते सामये सुखे प्रसिद्धत्वात् , यदि तस्य खंशब्दो विशेषणत्वेन नोपादीयेत; लौकिकं सुखं ब्रह्मेति प्रतीतिः स्यात्इतरेतरविशेषितौ तु कंखंशब्दौ सुखात्मकं ब्रह्म गमयतःतत्र द्वितीये ब्रह्मशब्देऽनुपादीयमानेकं खं ब्रह्मइत्येवोच्यमाने कंशब्दस्य विशेषणत्वेनैवोपयुक्तत्वात्सुखस्य गुणस्याध्येयत्वं स्यात्तन्मा भूत्इत्युभयोः कंखंशब्दयोर्ब्रह्मशब्दशिरस्त्वम् — ‘कं ब्रह्म खं ब्रह्मइतिइष्टं हि सुखस्यापि गुणस्य गुणिवद्ध्येयत्वम्तदेवं वाक्योपक्रमे सुखविशिष्टं ब्रह्मोपदिष्टम्प्रत्येकं गार्हपत्यादयोऽग्नयः स्वं स्वं महिमानमुपदिश्यएषा सोम्य तेऽस्मद्विद्यात्मविद्या इत्युपसंहरन्तः पूर्वत्र ब्रह्म निर्दिष्टमिति ज्ञापयन्ति । ‘आचार्यस्तु ते गतिं वक्ताइति गतिमात्राभिधानप्रतिज्ञानमर्थान्तरविवक्षां वारयतियथा पुष्करपलाश आपो श्लिष्यन्त एवमेवंविदि पापं कर्म श्लिष्यते’ (छा. उ. ४ । १४ । ३) इति चाक्षिस्थानं पुरुषं विजानतः पापेनानुपघातं ब्रुवन्नक्षिस्थानस्य पुरुषस्य ब्रह्मत्वं दर्शयतितस्मात्प्रकृतस्यैव ब्रह्मणोऽक्षिस्थानतां संयद्वामत्वादिगुणतां चोक्त्वा अर्चिरादिकां तद्विदो गतिं वक्ष्यामीत्युपक्रमते एषोऽक्षिणि पुरुषो दृश्यत एष आत्मेति होवाच’ (छा. उ. ४ । १५ । १) इति ॥ १५ ॥

अपिच प्रकृतानुसारादपि ब्रह्मैवात्र प्रत्येतव्यं, नतु प्रतिबिम्बजीवदेवता इत्याह सूत्रकारः -

सुखविशिष्टाभिधानादेव च ।

एवं खलूपाख्यायते - उपकोसलो ह वै कामलायनः सत्यकामे जाबाले ब्रह्मचर्यमुवास । तस्याचार्यस्य द्वादश वर्षाण्यग्नीनुपचचार । स चाचार्योऽन्यान्ब्रह्मचारिणः स्वाध्यायं ग्राहयित्वा समावर्तयामास । तमेवैकमुपकोसलं न समावर्तयति स्म । जायया च तत्समावर्तनायार्थितोऽपि तद्वचनमवधीर्याचार्यः प्रोषितवान् । ततोऽतिदूनमानसमग्निपरिचरणकुशलमुपकोसलमुपेत्य त्रयोऽग्नयः करुणापराधीनचेतसः श्रद्दधानायास्मै दृढभक्तये समेत्य ब्रह्मविद्यामूचिरे “प्राणो ब्रह्म कं ब्रह्म खं ब्रह्म” (छा. उ. ४ । १० । ४) इति । अथोपकोसल उवाच, विजानाम्यहं प्राणो ब्रह्मेति, स हि सूत्रात्मा विभूतिमत्तया ब्रह्मरूपाविर्भावाद्ब्रह्मेति । किन्तु कं च खं च ब्रह्मेत्येतन्न विजानामि । नहि विषयेन्द्रियसम्पर्कजं सुखमनित्यं लोकसिद्धं खं च भूताकाशमचेतनं ब्रह्म भवितुमर्हति । अथैनमग्नयः प्रत्यूचुः - “यद्वाव कं तदेव खं यदेव खं तदेव कम्”(छा. उ. ४ । १० । ५) इति । एवं सम्भूयोक्त्वा प्रत्येकं च स्वविषयां विद्यामूचुः - “पृथिव्यग्निरन्नमादित्यः”(छा. उ. ४ । ११ ।१ ) इत्यादिना । पुनस्त एनं सम्भूयोचुः, एषा सोम्य तेऽस्मद्विद्या प्रत्येकमुक्ता स्वविषया विद्या, आत्मविद्या चास्माभिः सम्भूय पूर्वमुक्ता प्राणो ब्रह्म कं ब्रह्म खं ब्रह्मेति, आचार्यस्तु ते गतिं वक्ता, ब्रह्मविद्येयमुक्तास्माभिर्गतिमात्रं त्ववशिष्टं नोक्तं, तत्तु विद्याफलप्राप्तये जाबालस्तवाचार्यो वक्ष्यतीत्युक्त्वाग्नय उपरेमिरे ।

एवं व्यवस्थिते “यद्वाव कं तदेव खं यदेव खं तदेव कम्”(छा. उ. ४ । १० । ५) इत्येतद्व्याचष्टे भाष्यकारः -

तत्र खंशब्द इति प्रतीकाभिप्रायेणेति ।

आश्रयान्तरप्रत्ययस्याश्रयान्तरे प्रक्षेपः प्रतीकः । यथा ब्रह्मशब्दः परमात्मविषयो नामादिषु क्षिप्यते । इदमेव तद्ब्रह्म ज्ञेयं यन्नामेति । तथेदमेव तद्ब्रह्म यद्भूताकाशमिति प्रतीतिः स्यात् । न चैतत्प्रतीकत्वमिष्टम् । लौकिकस्य सुखस्य साधनपारतन्त्र्यं क्षयिष्णुता चामयस्तेन सह वर्तत इति सामयं सुखम् ।

तदेवं व्यतिरेके दोषमुक्त्वोभयान्वये गुणमाह -

इतरेतरविशेषितौ त्विति ।

तदर्थयोर्विशेषितत्वाच्छब्दावपि विशेषितावुच्येते । सुखशब्दसमानाधिकरणो हि खंशब्दो भूताकाशमर्थं परित्यज्य ब्रह्मणि गुणयोगेन वर्तते । तादृशा च खेन सुखं विशिष्यमाणं सामयाद्व्यावृत्तं निरामयं भवति । तस्मादुपपन्नमुभयोपादानम् ।

ब्रह्मशब्दाभ्यासस्य प्रयोजनमाह -

तत्र द्वितीय इति ।

ब्रह्मपदं कम्पदस्योपरि प्रयुज्यमानं शिरः, एवं खम्पदस्यापि ब्रह्मपदं शिरो ययोः कङ्खम्पदयोस्ते ब्रह्मशिरसी, तयोर्भावो ब्रह्मशिरस्त्वम् ।

अस्तु प्रस्तुते किमायातमित्यत आह -

तदेवं वाक्योपक्रम इति ।

नन्वग्निभिः पूर्वं निर्दिश्यतां ब्रह्म, “य एषोऽक्षिणि”(छा. उ. ४ । १५ । १) इत्याचार्यवाक्येऽपि तदेवानुवर्तनीयमिति तु कुत इत्याह -

आचार्यस्तु ते गतिं वक्तेति च गतिमात्राभिधानमिति ।

यद्यप्येते भिन्नवक्तृणी वाक्ये तथापि पूर्वेण वक्त्रा एकवाक्यतां गमिते, गतिमात्राभिधानात् । किमुक्तं भवति, तुभ्यं ब्रह्मविद्यास्माभिरूपदिष्टा, तद्विदस्तु गतिर्नोक्ता, तां च किञ्चिदधिकमाध्येयं पूरयित्वाचार्यो वक्ष्यतीति । तदनेन पूर्वासम्बद्धार्थान्तरविवक्षा वारितेति । अथैवमग्निभिरुपदिष्टे प्रोषित आचार्यः कालेनाजगाम, आगतश्च वीक्ष्योपकोसलमुवाच, ब्रह्मविद इव ते सोम्य मुखं प्रसन्नं भाति, कोऽनु त्वामनुशशासेति । उपकोसलस्तु ह्रीणो भीतश्च को नु मामनुशिष्यात् भगवन् प्रोषिते त्वयीत्यापाततोऽपज्ञाय निर्बध्यमानो यथावदग्नीनामनुशासनमवोचत् । तदुपश्रुत्य चाचार्यः सुचिरं क्लिष्ट उपकोसले समुपजातदयार्द्रहृदयः प्रत्युवाच, सोम्य किल तुभ्यमग्नयो न ब्रह्म साकल्येनावोचन् , तदहं तुभ्यं साकल्येन वक्ष्यामि, यदनुभवमाहात्म्यात् “यथा पुष्करपलाश आपो न श्लिष्यन्त एवमेवंविदि पापं कर्म न श्लिष्यते” (छा. उ. ४ । १४ । ३), इत्येवमुक्तवत्याचार्य आहोपकोसलः, ब्रवीतु मे भगवानिति, तस्मै होवाचाचार्योऽर्चिरादिकां गतिं वक्तुमनाः, यदुक्तमग्निभिः प्राणो ब्रह्म कं ब्रह्म खं ब्रह्मेति तत्परिपूरणाय “एषोऽक्षिणि पुरुषो दृश्यते”(छा. उ. ४ । १५ । १) इत्यादि । एतदुक्तं भवति - आचार्येण ये सुखं ब्रह्माक्षिस्थानं संयद्वामं वामनीभामनीत्येवंगुणकं प्राणसहितमुपासते ते सर्वेऽपहतपाप्मानोऽन्यत्कर्म कुर्वन्तु मा वाकार्षुः, अर्चिषमर्चिरभिमानिनीं देवतामभिसम्भवन्ति प्रतिपद्यन्ते, अर्चिषोऽहरहर्देवतां, अह्न आपूर्यमाणपक्षं शुक्लपक्षदेवतां, ततः षण्मासान् , येषु मासेषूत्तरां दिशमेति सविता ते षण्मासा उत्तरायणं तद्देवतां प्रतिपद्यन्ते, तेभ्यो मासेभ्यः संवत्सरदेवतां, तत आदित्यं, आदित्याच्चन्द्रमसं, चन्द्रमसो विद्युतं, तत्र स्थितानेतान्पुरुषः कश्चिद्ब्रह्मलोकादवतीर्यामानवोऽमानव्यां सृष्टौ भवः । ब्रह्मलोकभव इति यावत् । स तादृशः पुरुष एतान्सत्यलोकस्थं कार्यं ब्रह्म गमयति, स एष देवपथो देवैरर्चिरादिभिर्नेतृभिरुपलक्षित इति देवपथः, स एव च ब्रह्मणा गन्तव्येनोपलक्षित इति ब्रह्मपथः, एतेन पथा प्रतिपद्यमानाः सत्यलोकस्थं ब्रह्म इमं मानवं मनोः सर्गं किम्भूतमावर्तं जन्मजरामरणपौनःपुन्यमावृत्तिस्तत्कर्तावर्तो मानवो लोकस्तं नावर्तन्ते । तथाच स्मृतिः - “ब्रह्मणा सह ते सर्वे सम्प्राप्ते प्रतिसञ्चरे । परस्यान्ते कृतात्मानः प्रविशन्ति परं पदम्” ॥ १५ ॥