ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः द्वितीयः पादः
भामतीव्याख्या
 
श्रुतोपनिषत्कगत्यभिधानाच्च ॥ १६ ॥
इतश्चाक्षिस्थानः पुरुषः परमेश्वरः, यस्माच्छ्रुतोपनिषत्कस्य श्रुतरहस्यविज्ञानस्य ब्रह्मविदो या गतिर्देवयानाख्या प्रसिद्धा श्रुतौथोत्तरेण तपसा ब्रह्मचर्येण श्रद्धया विद्ययात्मानमन्विष्यादित्यमभिजयन्तेएतद्वै प्राणानामायतनमेतदमृतमभयमेतत्परायणमेतस्मान्न पुनरावर्तन्ते’ (प्र. उ. १ । १०) इति, स्मृतावपिअग्निर्ज्योतिरहः शुक्लः षण्मासा उत्तरायणम्तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः’ (भ. गी. ८ । २४) इति, सैवेहाक्षिपुरुषविदोऽभिधीयमाना दृश्यते । ‘अथ यदु चैवास्मिञ्छव्यं कुर्वन्ति यदि नार्चिषमेवाभिसम्भवन्तिइत्युपक्रम्य आदित्याच्चन्द्रमसं चन्द्रमसो विद्युतं तत्पुरुषोऽमानवः एनान्ब्रह्म गमयत्येष देवपथो ब्रह्मपथ एतेन प्रतिपद्यमाना इमं मानवमावर्तं नावर्तन्ते’ (छा. उ. ४ । १५ । ५) इतितदिह ब्रह्मविद्विषयया प्रसिद्धया गत्या अक्षिस्थानस्य ब्रह्मत्वं निश्चीयते ॥ १६ ॥

तदनेनोपाख्यानव्याख्यानेन

श्रुतोपनिषत्कगत्यभिधानाच्च

इत्यपि सूत्रं व्याख्यातम् ॥ १६ ॥