स्थानादिव्यपदेशाच्च ।
आशङ्कोत्तरमिदं सूत्रम् ।
आशङ्कामाह -
कथं पुनरिति ।
स्थानिनो हि स्थानं महद्दृष्टं, यथा यादसामब्धिः । तत्कथमत्यल्पं चक्षुरधिष्ठानं परमात्मनः परममहत इति शङ्कार्थः ।
परिहरति -
अत्रोच्यत इति ।
स्थानान्यादयो येषां ते स्थानादयो नामरूपप्रकरास्तेषां व्यपदेशात्सर्वगतस्यैकस्थाननियमो नावकल्पते । नतु नानास्थानत्वं नभस इव नानासूचीपाशादिस्थानत्वम् । विशेषतस्तु ब्रह्मणस्तानि तान्युपासनास्थानानीति तैरस्य युक्तो व्यपदेशः ॥ १४ ॥